संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०५०

खण्डः १ - अध्यायः ०५०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
ब्रह्मास्त्रं वैष्णवं रौद्रमाग्नेयमथ वासवम्॥
अस्त्रञ्च नैर्ऋतं याम्यं कौबेरमथ वारुणम् ॥१॥
वायव्यमथ सौम्यञ्च सौरं पार्वतमेव च॥
चक्रास्त्रमथ वज्रास्त्रं पाशास्त्रं सार्पमेव च ॥२॥
गान्धर्वं स्वापनं भौतं तथा पाशुपतं शुभम्॥
ऐषीकं तर्जनं प्रासं भारुण्डं नर्तनं तथा ॥३॥
अस्त्ररोधनमादित्यं रैवतं मानवं तथा॥
अक्षिसंतर्जनं भीमं जृम्भणं रोधनं तथा ॥४॥
सौपर्णमथ पार्जन्यं राक्षसं मोहनं तथा॥
कालास्त्रं दानवास्त्रञ्च अस्त्रं ब्रह्मशिरस्तथा ॥५॥
एतान्यन्यानि चाऽन्यानि रामो निवसने ततः॥
सप्रयोगरहस्यानि ससंहाराणि चाप्यथ ॥६॥
आजहार महादेवात्प्रसादसुमुखात्ततः॥
एवं हि वसतः कालो ययौ रामस्य धीमतः ॥७॥
हरप्रसादसंजातविस्रम्भो भृगुनन्दनः॥
ध्यानासक्तं हरं देवं कदाचिदथ दृष्टवान् ॥८॥
ध्यानप्रसक्तं स हरं समीक्ष्य रामस्तु संजातकुतूहलेन॥
विसिष्मिये धर्मभृतां वरिष्ठः स चेतसा यादववंशचन्द्र ॥९॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखंडे मार्कण्डेयवज्रसंवादे अस्त्र प्रदानं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP