प्रथम खण्डः - एकोनविंशोऽध्यायः
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
॥मार्कण्डेय उवाच ॥
राज्यं प्राप्य महातेजा दिलीपतनयो नृपः ॥
नरकस्थान् पितॄञ्श्रुत्वा राज्यं न्यस्याशु वृद्धये ॥१॥
गङ्गामाराधयामास तपसा महता तदा ॥
यमैश्च नियमै राजन्नपर्णाशनकैस्तथा ॥२॥
दशवर्षसहस्राणि तपस्तेपे भृशं नृपः ॥
अथ गंगा महादेवी प्रसन्नाभूद्गतक्लमा ॥३॥
भगीरथोऽपि धर्मात्मा वरं लेभे कुतूहली ॥
ततो लेखनदी देवी प्रावोचत्तं भगीरथम् ॥४॥
पतन्त्या गगनात्सोढुं मम वेगं वसुन्धरा ॥५॥
न समर्था यदा तस्मात्तोषयस्वाशु शंकरम् ॥
स हि शक्तः पतंत्या मे वेगं सोढुं नरेश्वर ॥६॥
एवमुक्त्वा ययौ देवी तदान्तर्धानमीश्वरी॥
भगीरथोऽपि धर्मात्मा तपस्तेपे सुदारुणम् ॥७॥
आराधनार्थं देवस्य शङ्करस्य महात्मनः ॥
तपसोऽन्ते महातेजा दृष्टवाञ्जगदीश्वरम् ॥८॥
देवदेव उवाच॥
तपसोग्रेण ते राजन् प्रसन्नोऽस्मि यथेप्सितम् ॥
ददामि ते यतो भक्तिं पितॄणां चाक्षयं यशः ॥९॥
मार्कण्डेय उवाच॥
एवमुक्तस्तु देवेन पूजयित्वा महेश्वरम् ॥
जगाम गङ्गां मनसा राजा पूर्णमनोरथः ॥१०॥
शङ्कराधिष्ठितं ज्ञात्वा नृपतेश्च चिकीर्षितम् ॥
पपात गननाद्गंगा तदा राजीवलोचन! ॥११॥
गंगायाः पतनं ज्ञात्वा ब्रह्मा तं देशमागतः ॥
यमेन्द्रवरुणान्देवान्पुरस्कृत्यामितौजसः ॥१२॥
ऋषयो नागगन्धर्वविद्याधरमहोरगाः ॥
सुपर्णकिन्नरगणास्तथैवाप्सरसां गणाः ॥१३॥
विमानशतसंबाधं तद्बभूव नभस्तलम् ॥
प्रकीर्यमाणं कुसुमैर्देवनागविराजितम् ॥
सुरप्रभादुर्निरीक्ष्यं तदाभरणभासुरम् ॥१४॥
सुगन्धि चारु पवनं सुरतूर्यनिनादितम् ॥
नभसस्तस्य मध्येन पपात गगनान्नदी ॥१५॥
विशामि भित्त्वा पातालं स्रोतसा गृह्य शङ्करम् ॥
इत्येवं दुष्टभावा सा पपात हरमूर्धनि ॥१६॥
ज्ञात्वा क्रूरमभिप्रायं देव्या देवः पिनाकभृत् ॥
जटाकलापे तां देवीं तिरश्चक्रे चतुर्मुखः ॥१७॥
बभ्राम सा तिरो भूत्वा तत्रैव त्वचिरं नदी ॥
तस्याः पतंत्या ये केचिद्बिंदवः क्षितिमागताः॥१८॥
तैः कृतं पृथिवीपाल तदा विन्दुसरः शुभम्॥
देवोपि दृष्ट्वा राजानं क्षुधया व्याकुलेन्द्रियम् ॥१९॥
तत्याज तां तदा शीघ्रं जटाग्रेण महेश्वरः ॥२०॥
धृतगंगो जगामाथ ततोऽन्तर्धानमीश्वरः ॥
महेश्वरशिरोभ्रष्टा प्रविष्टा च सरः शुभम् ॥२१॥
तस्माद्विनिःसृता भूयः सप्तधा देवनिम्नगा ॥
ह्लादिनी ह्रादिनी चैव प्लाविनी चेति प्राच्यगाः ॥२२॥
सीतावक्त्रश्च सिन्धुश्च प्रतीच्यभिमुखा गताः ॥
दक्षिणेन तथा गंगा भगीरथपथानुगा ॥
क्वचिद्वेगेन महता क्वचिन्मन्दविसर्पिणी ॥२३॥
क्वचित्फेनाकुलजला क्वचिदावर्तमालिनी ॥
क्वचिद्गम्भीरशब्दौघा निःशब्दा च तथा क्वचित् ॥२४॥
क्वचिद्धंसरवोद्दामा चक्रवाकयुगा क्वचित ॥
ऊर्मिमालाकुलजला कुसुमोत्करमण्डिता ॥२५॥
जलसत्त्वशताकीर्णा सुरसिद्धसुखप्रदा ॥
अमृतस्वादुसलिला हरसंसर्गनिर्मला ॥२६॥
विष्णुपादप्रहारोत्था सर्वपात कनाशिनी ॥
एवं संप्राप्य सा विंध्यं प्रविष्टा पूर्वसागरम् ॥२७॥
सागरेण समासाद्य पातालं भीमदर्शनम् ॥
प्लावयामास तद्भस्म सागराणां महात्मनाम् ॥२८॥
भस्मनि प्लाविते सर्वे गतास्ते सागरा दिवम् ॥२९॥
एवं धरां देवनदी प्रयाता सुपुण्यतोया ऋषिवर्यजुष्टा ॥
महानुभावा नृप जह्नुकन्या निश्रेणिभूता त्रिदिवप्रयाणे ॥३०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गङ्गावतरणनामैकोनविंशोऽध्यायः॥१९॥
N/A
References : N/A
Last Updated : July 23, 2018
TOP