प्रथम खण्डः - अष्टादशोऽध्यायः
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
॥मार्कण्डेय उवाच ॥
सगरस्य तु ते पुत्रास्संहता वीर्यसंयुताः ॥
संजाता दैवयोगेन देवब्राह्मणकंटकाः ॥१॥
तेषां तु कर्मणोद्विग्ना देवाः सर्वे पितामहम् ॥
अब्रुवन्सागरैः सर्वैर्देव बाध्याम संहतैः ॥२॥
एवमुक्तस्तदा ब्रह्मा सर्वलोकपितामहः ॥
उवाच देवान्सकलान्सागरैः प्रत्यमर्षितान् ॥३॥
यस्त्वस्य जगतो नाथः परमात्मा सनातनः ॥
वासुदेवः स कपिलः सुरास्तान् घातयिष्यति ॥४॥
एवमुक्ताः सुरा स्तेन ययुः सर्वे त्रिविष्टपम् ॥
एतस्मिन्नेव काले तु सगरः स महीपतिः ॥५॥
दीक्षितो वाजिमेधाय विधिवद्वेदपारगैः ॥
तुरङ्गं चारयामासुर्यज्ञियं तनया महीम् ॥६॥
तेषां चारयतां सोऽश्वः कपिलेन तथा हृतः ॥
कपिलेन हृतं नाश्वं ते जानन्ति विमोहिताः ॥७॥
अन्वेषन्तोऽपि यत्नेन नापुस्ते तुरगं यतः ॥
पित्रे निवेद्य ते सर्वे निचख्नुः पृथिवीतलम् ॥८॥
भारतस्यास्य वर्षस्य भेदेऽस्मिन्नवमे नृप! ॥
समन्ततस्ततश्चक्रुः खातकर्मबलान्विताः ॥९॥
विस्तराद्योजनशतं पातालतलगामिनम् ॥
वैडूर्यपवर्तात्पूर्वमुत्तरेण हिमाचलात् ॥१०॥
पश्चार्धे काञ्चनगिरेरुदगेव च लावणात् ॥
हिमाचलश्च तैर्वीरः राजन्देशद्वये क्षतः ॥११॥
हिमाचलस्य खण्डश्च खातस्यान्तः प्रवेशितः ॥
उत्तरः सागरस्तस्माद्धिम शैलेन दुर्गमः ॥१२॥
एवंविधेन खातेन ते प्रविश्य पृथक्पृथक् ॥
एकीकृता दैवयोगात्कपिलो यत्र वै स्थितः ॥१३॥
कपिलस्य समीपस्थं ददृशुस्ते तुरङ्गमम् ॥
तुरङ्गसहितं दृष्ट्वा कपिलं ते त्वमर्षिताः ॥१४॥
कुद्दाललेपिकाहस्तास्तस्य जग्मुर्वधेप्सया ॥
तान्बाधमानान्दुर्बुद्धीन्स ददर्श तदा ऋषिः ॥१५॥
चक्षुषा दृष्टमात्रास्ते भस्मीभूतास्तु सागराः ॥
नरकं च गताः सर्वे देवब्राह्मणकण्टकाः ॥१६॥
विज्ञाय तनयान्नष्टान्नारदात्सगरो नृपः ॥
प्रेषयामास सततमंशुमन्तं स धार्मिकम् ॥१७॥
अंशुमानपि संप्राप्य कपिलं मुनिसत्तमम्॥
अभिवाद्य महातेजास्तुष्टाव यदुनन्दनः ॥१८॥
तस्य तुष्टोऽथ तुरगं दत्तवान्कपिलो मुनिः ॥
अंशुमन्तं तदोवाच पितॄणां सलिलार्थिनाम् ॥१९॥
पौत्रस्ते भविता राजंस्तपसा तस्य तोषिता ॥
आगमिष्यति सा देवी गङ्गा गगनमेखला ॥२०॥
तया क्लिन्नमिदं भस्म सागराणां दुरात्मनाम् ॥२१॥
यदा भविष्यति तदा सागराः स्वर्गगामिनः ॥
अन्यस्यापि यदा त्वस्थि गङ्गातोये पतिष्यति ॥२२॥
तस्यापि स्वर्लोकगतिर्भविष्यति न संशयः ॥
एवमुक्तोंशुमाञ्शीघ्रं चाभिवाद्य जगद्गुरुम् ॥२३॥
आगम्य योजयामास तुरगेण पितामहम् ॥
यज्ञं समापयामास सगरोऽपि महीपतिः ॥२४॥
एवं हि सागरैर्मत्तैः खातको नृपसत्तम ॥
येन क्लृप्तमिदं द्वीपं सागरं नृप कथ्यते ॥२५॥
लवणोदात्समुद्राच्च तोयेन नृप सागरः॥
यदा पूर्णस्तदा जातो लवणोदो नराधिप! ॥२६॥
कृत्स्नं य एवं जयति स सम्राडिति कीर्त्यते ॥
ततो गतः स धर्मात्मा कालेन महता दिवम् ॥२७॥
दिलीपे भारमासज्य जगाम तनये स्वके ॥
दिलीपोऽपि समादाय राज्यं पुत्रं भगीरथम् ॥२८॥
जगाम त्रिदिवं राजा वने तप्त्वा महत्तपः ॥
आसाद्य राज्यं स भगीरथोऽपि आनीय गङ्गां तपसा च भूमिम् ॥२९॥
संप्लावयामास जलेन भस्म तत्सागराणां यदुवृन्दनाथ! ॥३०॥
संप्लाविते भस्मनि राजपुत्रा गङ्गाजलौघेन दिवं प्रयाताः ॥
स्वर्लोकमासाद्य तथाऽक्षयं ते वसन्ति हृष्टास्त्रिदशैः समेताः ॥३१॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सगरोपाख्यानं नामाष्टादशोऽध्यायः ॥१८॥
N/A
References : N/A
Last Updated : July 23, 2018
TOP