संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
चतुश्चत्वारिंशत्तमोऽध्यायः

प्रथम खण्डः - चतुश्चत्वारिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच  ॥
एवमुक्तस्तदा साल्वो राहुणा भीमविक्रमः ॥
जगाद भ्रातरं वाक्यं सारभूतमहेतुमत् ॥१॥
साल्व उवाच ॥
असारे ग्रह संसारे नित्ये सततयायिनि ॥
भवक्षये मतिः कार्या रुजोपकरणेषु वा ॥
जन्तवस्त्रिविधा लोके त्रिधा येषां विचेष्टितम् ॥२॥
तामसाराजसाश्चैव सात्त्विकाश्च ग्रहेश्वर ॥
भवक्षये ये विमुखा भवोपकरणेषु च ॥३॥
लोकद्वितयविभ्रष्टास्तामसास्ते प्रकीतिताः ॥
भवक्षयमतिभ्रष्टा भवोपकरणे स्थिताः ॥४॥
राजसास्ते विनिर्दिष्टा मध्यस्थाः सर्वजन्तुषु ॥
भवोपकरणे दैत्य मतियेर्षां न विद्यते ॥५॥
भवक्षये मतिर्येषां सात्त्विकास्ते प्रकीर्तिताः ॥
तामसत्वान्मया दैत्य मतिः पूर्वं भवक्षये ॥६॥
न कृता तेन तप्यामि राज्यतन्त्रमनुष्ठितम् ॥
मन्वन्तरेऽपि सम्पूर्णे मृतिर्येषां ग्रहोत्तम ॥७॥
उद्विजन्त्येव ते मृत्योर्महन्मृत्युकृतं भयम् ॥
अवश्यं दैत्य मर्त्तव्यं सर्वेणेह शरीरिणा ॥८॥
सोऽहं मोक्षपरिभ्रष्टः कामये केशवाद्वधम् ॥
इष्टं यज्ञैस्तपस्तप्तं रिपूणां मूर्धनि स्थितम् ॥९॥
मर्त्तव्ये च ध्रुवे गमान्मरणं कामयाम्यहम् ॥
संप्राप्य केशवान्मृत्युं गतिं प्राप्स्याम्यनुत्तमाम् ॥१०॥
भूयो राज्यमवाप्स्यामि नाकभ्रष्टो ग्रहोत्तम ॥
विवास्य वासवं स्वर्गात्परिभूय पुनःपुनः ॥११॥
कथं सन्धिं करिष्यामि तेनाऽहं जीवितप्रियः ॥
प्रणामं देव राजस्य केशवान्मरणं वरम् ॥१२॥
समीक्ष्य साधु पश्यामि केशवान्मरणं रणे ॥
शक्रेण कृतसन्धानं पातालनिलयं तथा ॥१३॥
त्यक्षन्ति मां दैत्यगणा वृद्धं पतिमिवाऽङ्गनाः ॥
दिवि भूमौ तथा स्वर्गे पाताले गगने जले ॥१४॥
देहिनां मृत्युरभ्येति तस्य नाऽस्ति पलायनम् ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः॥१५॥
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥
अवश्यभाविन्यर्थेऽस्मिन्सर्वेषां ग्रह सर्वदा ॥१६॥
पुण्यभाजो हि मरणं संग्रामे यदि जायते ॥
सोऽहं क्षत्रियधर्मेण संपूज्य समरे हरिम् ॥१७॥
तस्मान्मृत्युमनुप्राप्य गतिं प्राप्स्यामि शोभनाम् ॥
नैवेद्यैः पुप्पधूपाद्यैर्न तथा पूजितो हरिः ॥१८॥
तोषमायाति दैत्येन्द्र स धर्मेण यथा नृणाम् ॥
भ्रात्रा ज्येष्ठेन यद्वाच्यं सुहृदा हितमिच्छता ॥१९॥
तदुक्तोऽस्मि त्वया नाथ देवात्तन्मे न रोचते ॥
स त्वं गच्छ महाभाग दिविद्रष्टासि मां पुनः ॥२०॥
देहान्तरमनुप्राप्तं ग्रह दिव्येन चक्षुषा ॥
॥मार्कण्डेय उवाच॥
इत्येव साल्वस्य निशम्य वाक्यं कालानुरूपं च तथा विदित्वा ॥
न किञ्चिदुक्त्वैव जगाम राहुर्दिवं महात्मा जगतां प्रधानः ॥२१॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्ववाक्यं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP