संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| द्विपञ्चाशत्तमोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - द्विपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्विपञ्चाशत्तमोऽध्यायः Translation - भाषांतर भगवतः विष्णोः सर्वैः देवेभिः सह मेरुपर्वतस्य दिव्यां सभायां उपस्थानम्, तत्र पृथिव्या भगवन्तं भारस्य उद्धरणाय प्रार्थनम्वैशम्पायन उवाचबाढमित्येव सह तैर्दुर्दिनाम्भोदनिःस्वनः ।प्रतस्थे दुर्दिनाकारः सदुर्दिन इवाचलः ॥१॥समुक्तामणिविद्योतं सचन्द्राम्भोदवर्चसम् ।सजटामण्डलं कृत्स्नं स बिभ्रच्छ्रीधरो हरिः ॥२॥स चास्योरसि विस्तीर्णे रोमाञ्चोद्गतराजिमान् ।श्रीवत्सो राजते श्रीमांस्तनद्वयमुखाञ्चितः ॥३॥पीते वसानो वसने लोकानां गुरुरव्ययः ।हरिः सोऽभवदालक्ष्यः स संध्याभ्र इवाचलः ॥४॥तं व्रजन्तं सुपर्णेन पद्मयोनिगतानुगम् ।अनुजग्मुः सुराः सर्वे तद्गतासक्तचक्षुषः ॥५॥नातिदीर्घेण कालेन सम्प्राप्ता रत्नपर्वतम् ।दडशुर्देवतास्तत्र तां सभां कामरूपिणीम् ॥६॥मेरोः शिखरविन्यस्तां संयुक्तां सूर्यवर्चसा ।काञ्चनस्तम्भरचितां वज्रसंधानतोरणाम् ॥७॥मनोनिर्माणचित्राढ्यां विमानशतमालिनीम् ।रत्नजालान्तरवतीं कामगां रत्नभूषिताम् ॥८॥क्लृप्तरत्नसमाकीर्णां सर्वर्तुकुसुमोत्कटाम् ।देवमायाधरां दिव्यां विहितां विश्वकर्मणा ॥९॥तां हृष्टमनसः सर्वे यथास्थानं यथाविधि ।यथानिदेशं त्रिदशा विविशुस्ते सभां शुभाम् ॥१०॥ते निषेदुर्यथोक्तेषु विमानेष्वासनेषु च ।भद्रासनेषु पीठेषु कुथास्वास्तरणेषु च ॥११॥ततः प्रभञ्जनो वायुर्ब्रह्मणा साधु चोदितः ।मा शब्दमिति सर्वत्र प्रचक्रामाथ तां सभाम् ॥१२॥निःशब्दस्तिमिते तस्मिन्समाजे त्रिदिवौकसाम् ।बभाषे धरणी वाक्यं खेदात् करुणभाषिणी ॥१३॥धरण्युवाचत्वया धार्या त्वहं दैव त्वया वै धार्यते जगत् ।त्वं धारयसि भूतानि भुवनानि बिभर्षि च ॥१४॥यत् त्वया धार्यते किञ्चित्तेजसा च बलेन च ।ततस्तव प्रसादेन मया यत्नाच्च धार्यते ॥१५॥त्वया धृतं धारयामि नाधृतं धारयाम्यहम् ।न हि तद् विद्यते भूतं यत् त्वया नानुधार्यते ॥१६॥त्वमेव कुरुषे देव नारायण युगे युगे ।मम भारावतरणं जगतो हितकाम्यया ॥१७॥तवैव तेजसाऽऽक्रान्तां रसातलतलं गताम् ।त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम् ॥१८॥दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः ।त्वामेव शरणं नित्यमुपयास्ये सनातनम् ॥१९॥तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् ।शरणं यामि मनसा शतशो ह्युपलक्षये ॥२०॥अहमादौ पुराणस्य संक्षिप्ता पद्मयोनिना ।मां च बद्ध्वा कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ ॥२१॥कर्णस्रोतोद्भबौ तौ हि विष्णोरस्य महात्मनः ।महार्णवे प्रस्वपतः काष्ठकुण्ड्यसमौ स्थितौ ॥२२॥तौ विवेश स्वयं वायुर्ब्रह्मणा साधु चोदितः ।दिवं प्रच्छादयन्तौ तु ववृधाते महासुरौ ॥२३॥वायुप्राणौ तु तौ गृह्य ब्रह्मा पर्यमृशच्छनैः ।एकं मृदुतरं मेने कठिनं वेद चापरम् ॥२४॥नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः ।मृदुस्त्वयं मधुर्नाम कठिनः कैटभोऽभवत् ॥२५॥तौ दैत्यौ कृतनामानौ चेरतुर्बलदर्पिंतौ ।सर्वमेकार्णवं लोकं योद्धुकामौ सुदुर्जयौ ॥२६॥तावागतौ समालोक्य ब्रह्मा लोकपितामहः ।एकार्णवाम्बुनिचये तत्रैवान्तरधीयत ॥२७॥स पद्मे पद्मनाभस्य नाभिमध्यात् समुत्थिते ।रोचयामास वसतिं गुह्यां ब्रह्मा चतुर्मुखः ॥२८॥तावुभौ जलगर्भस्थौ नारायणपितामहौ ।बहून् वर्षगणानप्सु शयानौ न चकम्पतुः ॥२९॥अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ ।आजग्मतुस्तमुद्देशं यत्र ब्रह्मा व्यवस्थितः ॥३०॥दृष्ट्वा तावसुरौ घोरौ महाकायौ दुरासदौ ।ब्रह्मणा ताडितो विष्णुः पद्मनालेन वै तदा ।उत्पपाताथ शयनात् पद्मनाभो महाद्युतिः ॥३१॥तद् युद्धमभवद् घोरं तयोस्तस्य च वै तदा ।एकार्णवे तदा लोके त्रैलोक्ये जलतां गते ॥३२॥तदाभूत् तुमुलं युद्धं वर्षसंख्या सहस्रशः ।न च तावसुरौ युद्धे तदा श्रममवापतुः ॥३३॥अथातो दीर्घकालस्य तौ दैत्यौ युद्धदुर्मदौ ।ऊचतुः प्रीतमनसौ देवं नारायणं हरिम् ॥३४॥प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः ।आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥३५॥हतौ च तव पुत्रत्वं प्राप्नुयावः सुरोत्तम ।यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ ॥३६॥स तु गृह्य मृधे दोर्भ्यां दैत्यौ तावभ्यपीडयत् ।जग्मतुर्निधनं चापि तावुभौ मधुकैटभौ ॥३७॥तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ ।मेदो मुमुचतुर्दैत्यौ मथ्यमानौ जलोर्मिभिः ॥३८॥मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे ततः ।नारायणश्च भगवानसृजत् स पुनः प्रजाः ॥३९॥दैत्ययोर्मेदसाच्छना मेदिनीति ततः स्मृता ।प्रभावात्पद्मनाभस्य शाश्वती जगती कृता ॥४०॥वराहेण पुरा भूत्वा मार्कण्डेयस्य पश्यतः ।विषाणेनाहमेकेन तोयमध्यात् समुद्धृता ॥४१॥हृताहं क्रमता भूयस्तदा युष्माकमग्रतः ।बलेः सकाशाद्दैत्यस्य विष्णुना प्रभविष्णुना ॥४२॥साम्प्रतं खिद्यमानाहमेनमेव गदाधरम् ।अनाथा जगतो नाथ शरण्यं शरणं गता ॥४३॥अग्निः सुवर्णस्य गुरुर्गवां सूर्यो गुरुः स्मृतः ।नक्षत्राणां गुरुः सोमो मम नारायणो गुरुः ॥४४॥यदहं धारयाम्येका जगत् स्थावरजङ्गमम् ।मया धृतं धारयते सर्वमेतद् गदाधरः ॥४५॥जामदग्न्येन रामेण भारावतरणेप्सया ।रोषात् त्रिःसप्तकृत्वोऽहं क्षत्रियैर्विप्रयोजिता ॥४६॥सास्मि वेद्यां समारोप्य तर्पिता नृपशोणितैः ।भार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता ॥४७॥मांसमेदोऽस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः ।रजस्वलेव युवतिः कश्यपं समुपस्थिता ॥४८॥स मां ब्रह्मर्षिरप्याह किमुर्वि त्वमवाङ्मुखी ।वीरपत्नीव्रतमिदं धारयन्ती विषीदसि ॥४९॥साहं विज्ञापितवती कश्यपं लोकभावनम् ।पतयो मे हता ब्रह्मन् भार्गवेण महात्मना ॥५०॥साहं विहीना विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः ।विधवा शून्यनगरा न धारयितुमुत्सहे ॥५१॥तन्मह्यं दीयतां भर्ता भगवंस्त्वत्समो नृपः ।रक्षेत् सग्रामनगरां यो मां सागरमालिनीम् ॥५२॥स श्रुत्वा भगवान्वाक्यं बाढमित्यब्रवीत्प्रभुः ।ततो मां मानवेन्द्राय मनवे स प्रदत्तवान् ॥५३॥सा मनुप्रभवं दिव्यं प्राप्येक्ष्वाकुकुलं नृपम् ।विपुलेनास्मि कालेन पार्थिवात् पार्थिवं गता ॥५४॥एवं दत्तास्मि मनवे मानवेन्द्राय धीमते ।भुक्ता राजसहस्रैश्च महर्षिकुलसम्मितैः ॥५५॥बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः ।ते च कालवशं प्राप्य मय्येव प्रलयं गताः ॥५६॥मत्कृते विग्रहा लोके वृत्ता वर्तन्त एव च ।क्षत्रियाणां बलवतां संग्रामेष्वनिवर्तिनाम् ॥५७॥एतद् युष्मत्प्रवृत्तेन दैवेन परिपाल्यते ।जगद्धितार्थं कुरुत राज्ञां हेतुं रणक्षये ॥५८॥यद्यस्ति मयि कारुण्यं भारशैथिल्यकारणात् ।एकश्चक्रधरः श्रीमानभयं मे प्रयच्छतु ॥५९॥यमहं भारसंतप्ता सम्प्राप्ता शरणार्थिनी ।भारो यद्यवरोप्तव्यो विष्णुरेष ब्रवीतु माम् ॥६०॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि धरणीवाक्ये द्विपञ्चाशत्तमोऽध्यायः ॥५२॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP