संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| एकादशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - एकादशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकादशोऽध्यायः Translation - भाषांतर धुन्धुमारस्य कथाजनमेजय उवाचकथं बहुयुगे काले समतीते द्विजोत्तम ।न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥१॥मेरुं गतस्य वा तस्य शार्यातेः संततिः कथम् ।स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ॥२॥वैशम्पायन उवाचन जरा क्षुत्पिपासे वा न मृत्युर्भरतर्षभ ।ऋतुचक्रं न भवति ब्रह्मलोके सदानघ ॥३॥ककुद्मिनस्तु तं लोकं रैवतस्य गतस्य ह ।हता पुण्यजनैस्तात राक्षसैः सा कुशस्थली ॥४॥तस्य भ्रातृशतं चासीद्धार्मिकस्य महात्मनः ।तद् वध्यमानं रक्षोभिर्दिशः प्राद्रवदच्युतम् ॥५॥विद्रुतस्य तु राजेन्द्र तस्य भ्रातृशतस्य वै ।तेषां तु ते भयाक्रान्ताः क्षत्रियास्तत्र तत्र ह ॥६॥अन्ववायस्तु सुमहांस्तत्र तत्र विशाम्पते ।येषामेते महाराज शार्याता इति विश्रुताः ॥७॥क्षत्रिया भरतश्रेष्ठ दिक्षु सर्वासु धार्मिकाः ।सर्वशः पर्वतगणान् प्रविष्टाः कुरुनन्दन ॥८॥नाभागारिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ ।करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥९॥प्रांशोरेकोऽभवत् पुत्रः प्रजातिरिति नः श्रुतम् ।पृषध्रो हिंसयित्वा तु गुरोर्गाम जनमेजय ॥१०॥शापाच्छूद्रत्वमापन्नो नवैते परिकीर्तिताः ।वैवस्वतस्य तनया मनोर्वै भरतर्षभ ॥११॥क्षुवतश्च मनोस्तात इक्ष्वाकुरभवत् सुतः ।तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥१२॥तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वादयोधताम् ।प्राप्तः परमधर्मज्ञः सोऽयोध्याधिपतिः प्रभुः ॥१३॥शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशदुत्तमाः ।उत्तरापथदेशस्था रक्षितारो महीपते ॥१४॥चत्वारिंशदथाष्टौ च दक्षिणस्यां तथा दिशि ।शशादप्रमुखाश्चान्ये रक्षितारो विशाम्पते ॥१५॥इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् ।मांसमानय श्राद्धार्थं मृगान् हत्वा महाबलः ॥१६॥श्राद्धकर्मणि चोद्दिष्टमकृते श्राद्धकर्मणि ।भक्षयित्वा शशं तात शशादो मृगयागतः ॥१७॥इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात्प्रभुः ।इक्ष्वाकौ संस्थिते तात शशादः पुरमावसत् ॥१८॥शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ।इन्द्रस्य वृषभूतस्य ककुत्स्थोऽजयतासुरान् ॥१९॥पूर्वं देवासुरे युद्धे ककुत्स्थस्तेन हि स्मृतः ।अनेनास्तु ककुत्स्थस्य पृथुरानेनसः स्मृतः ॥२०॥विष्टराश्वः पृथोः पुत्रस्तस्मादार्द्रस्त्वजायत ।आर्द्रस्य युवनाश्वस्तु श्रावस्तस्य तु चात्मजः ॥२१॥जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥२२॥कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः ।यः स धुन्धुवधाद् राजा धुन्धुमारत्वमागतः ॥२३॥जनमेजय उवाचधुन्धोर्वधमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।यदर्थं कुवलाश्वः सन् धुन्धुमारत्वमागतः ॥२४॥वैशम्पायन उवाचकुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ।सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥२५॥बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः ।कुवलाश्वं सुतं राज्ये बृहदश्वो न्ययोजयत् ॥२६॥पुत्रसंक्रामितश्रीस्तु वनं राजा समाविशत् ।तमुत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥२७॥उत्तङ्क उवाचभवता रक्षणं कार्यं तत् तावत् कर्तुमर्हसि ।निरुद्विग्नस्तपश्चर्तुं न हि शक्नोषि पार्थिव ॥२८॥त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥२९॥पालने हि महान् धर्मः प्रजानामिह दृश्यते ।न तथा दृश्यतेऽरण्ये मा ते भूद् बुद्धिरीदृशी ॥३०॥ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते ।प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः ।रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ॥३१॥ममाश्रमसमीपे हि समेषु मरुधन्वसु ।समुद्रो वालुकापूर्णं उज्जानक इति श्रुतः ।देवतानामवध्यश्च महाकायो महाबलः ॥३२॥अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ।राक्षसस्य मधोः पुत्रो धुन्धुनामा महासुरः ।शेते लोकविनाशाय तप आस्थाय दारुणम् ॥३३॥संवत्सरस्य पर्यन्ते स निःश्वासं प्रमुञ्चति ।यदा तदा भूश्चलति सशैलवनकानना ॥३४॥तस्य निःश्वासवातेन रज उद्धूयते महत् ।आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥३५॥सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् ।तेन तात न शक्नोमि तस्मिन् स्थातुं स्वकाश्रमे ॥३६॥तं मारय महाकायं लोकानां हितकाम्यया ।लोकाः स्वस्थाभवन्त्वद्य तस्मिन्विनिहतेऽसुरे ॥३७॥त्वं हि तस्य वधायैकः समर्थः पृथिवीपते ।विष्णुना च वरो दत्तो मह्यं पूर्वयुगेऽनघ ॥३८॥यस्त्वं महासुरं रौद्रं हनिष्यसि महाबलम् ।तस्य त्वं वरदानेन तेज आप्याययिष्यसि ॥३९॥न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते ।निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ।वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम् ॥४०॥स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना ।कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिवारणे ॥४१॥बृहदश्व उवाचभगवन् न्यस्तशस्त्रोऽहमयं तु तनयो मम ।भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥४२॥स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे ।जगाम पर्वतायैव तपसे संशितव्रतः ॥४३॥कुवलाश्वस्तु पुत्राणां शतेन सह पार्थिवः ।प्रायादुत्तङ्कसहितो धुन्धोस्तस्य विनिग्रहे ॥४४॥तमाविशत् तदा विष्णुर्भगवांस्तेजसा प्रभुः ।उत्तङ्कस्य नियोगाद् वै लोकस्य हितकाम्यया ॥४५॥तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ।एष श्रीमानवध्योऽद्य धुन्धुमारो भविष्यति ॥४६॥दिव्यैर्माल्यैश्च तं देवाः समन्तात् समवाकिरन् ।देवदुन्दुभयश्चापि प्रणेदुर्भरतर्षभ ॥४७॥स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् ।समुद्रं खानयामास वालुकार्णवमव्ययम् ॥४८॥नारायणेन कौरव्य तेजसाऽऽप्यायितः स वै ।बभूव स महातेजा भूयो बलसमन्वितः ॥४९॥तस्य पुत्रैः खनद्भिस्तु वालुकान्तर्हितस्तदा ।धुन्धुरासादितो राजन्दिशमावृत्य पश्चिमाम् ॥५०॥मुखजेनाग्निना क्रोधाल्लोकानुद्वर्तयन्निव ।वारि सुस्राव वेगेन महोदधिरिवोदये ॥५१॥सोमस्य भरतश्रेष्ठ धारोर्मिकलिलं महत् ।तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा ॥५२॥ततः स राजा कौरव्य राक्षसं तं महाबलम् ।आससाद महातेजा धुन्धुं धुन्धुनिबर्हणः ॥५३॥तस्य वारिमयं वेगमापीय स नराधिपः ।योगी योगेन वह्निं च शमयामास वारिणा ॥५४॥निहत्य तं महाकायं बलेनोदकराक्षसम् ।उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ॥५५॥उत्तङ्कस्तु वरं प्रादात् तस्मै राज्ञे महात्मने ।ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजयम् ॥५६॥धर्मे रतिं च सततं स्वर्गवासं तथाक्षयम् ।पुत्राणां चाक्षयाँल्लोकान् स्वर्गे ये रक्षसाहताः ॥५७॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि धुन्धुवधे एकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : July 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP