संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| चतुश्चत्वारिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - चतुश्चत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुश्चत्वारिंशोऽध्यायः Translation - भाषांतर आश्चर्यमये तारकामयसंग्रामे देवसेनायाः युद्धाय उद्यमम्वैशम्पायन उवाचश्रुतस्ते दैत्यसैन्यस्य विस्तरस्तात विग्रहे ।सुराणां सर्वसैन्यस्य विस्तरं वैष्णवं शृणु ॥१॥आदित्या वसवो रुद्रा अश्विनौ च महाबलौ ।सबलाः सानुगाश्चैव संनह्यन्त यथाबलम् ॥२॥पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् ।ग्रामणीः सर्वदेवानामारुरोह सुरद्विपम् ॥३॥सव्ये चास्य रथः पार्श्वे पक्षिप्रवरवेगवान् ।सुचारुचक्रचरणो हेमवज्रपरिष्कृतः ॥४॥देवगन्धर्वयक्षौघैरनुयातः सहस्रशः ।दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ॥५॥वज्रविस्फूर्जितोद्धूतैर्विद्युदिन्द्रायुधान्वितैः ।गुप्तो बलाहकगणैः कामगैरिव पर्वतैः ॥६॥समारूढः स भगवान् पर्येति मघवा गजम् ।हविर्धानेषु गायन्ति विप्राः सोममखे स्थिताः ॥७॥स्वर्गे शक्रानुयानेषु देवतूर्यनिनादिषु ।इन्द्रं समुपनृत्यन्ति शतशो ह्यप्सरोगणाः ॥८॥केतुना वंशजातेन राजमानो यथा रविः ।युक्तो हरिसहस्रेण मनोमारुतरंहसा ॥९॥स स्यन्दनवरो भाति युक्तो मातलिना तदा ।कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा ॥१०॥यमस्तु दण्डमुद्यम्य कालयुक्तं च मुद्गरम् ।तस्थौ सुरगणानीके दैत्यान् नादेन भीषयन् ॥११॥चतुर्भिः सागरैर्गुप्तो लेलिहानैश्च पन्नगैः ।शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः ॥१२॥कालपाशं समाविध्य हयैः शशिकरोपमैः ।वाय्वीरितजलोद्गारैः कुर्वंल्लीलाः सहस्रशः ॥१३॥पाण्डुरोद्धूतवसनः प्रवालरुचिराधरः ।मणिश्यामोत्तमवपुर्हारभारार्पितोदरः ॥१४॥वरुणः पाशभृन्मध्ये देवानीकस्य तस्थिवान् ।युद्धवेलामभिलषत् भिन्नवेल इवार्णवः ॥१५॥यक्षराक्षससैन्येन गुह्यकानां गणैरपि ।मणिश्यामोत्तमवपुः कुबेरो नरवाहनः ॥१६॥युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ।राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत ॥१७॥विमानयोधी धनदो विमाने पुष्पके स्थितः ।स राजराजः शुशुभे युद्धार्थी नरवाहनः ।प्रेक्ष्यमाणः शिवसखः साक्षादिव शिवः स्वयम् ॥१८॥पूर्वं पक्षं सहस्राक्षः पितृराजस्तु दक्षिणम् ।वरुणः पश्चिमं पक्षमुत्तरं नरवाहनः ॥१९॥चतुर्षु युक्ताश्चत्वारो लोकपाला बलोत्कटाः ।स्वासु दिक्ष्वभ्यरक्षन् वै तस्य देवबलस्य ह ॥२०॥सूर्यः सप्ताश्वयुक्तेन रथेनाम्बरगामिना ।श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ॥२१॥उदयास्तमयं चक्रे मेरुपर्यन्तगामिना ।त्रिदिवद्वारचक्रेण तपता लोकमव्ययम् ॥२२॥सहस्ररश्मियुक्तेन भ्राजमानः स्वतेजसा ।चचार मध्ये देवानां द्वादशात्मा दिनेश्वरः ॥२३॥सोमः श्वेतहयैर्भाति स्यन्दने शीतरश्मिवान् ।हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत् ॥२४॥तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम् ।जगच्छायाङ्किततनुं नैशस्य तमसः क्षयम् ॥२५॥ज्योतिषामीश्वरं व्योम्नि रसानां रसनं प्रभुम् ।ओषधीनां परित्राणं निधानममृतस्य च ॥२६॥जगतः प्रथमं भागं सौम्यं शीतमयं रसम ।ददृशुर्दानवाः सोमं हिमप्रहरणस्थितम् ॥२७यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु ।सप्तस्कन्धगतो लोकांस्त्रीन्दधार चराचरान् ॥२८॥यमाहुरग्नेर्यन्तारं सर्वप्रभवमीश्वरम् ।सप्तस्वरगता यस्य योनिर्गीतिरुदीर्यते ॥२९॥यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम् ।यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम् ॥३०॥स वायुः सर्वभूतायुरुद्भूतः स्वेन तेजसा ।ववौ प्रव्यथयन् दैत्यान् प्रतिलोमः सतोयदः ॥३१॥मरुतो देवगन्धर्वा विद्याधरगणैः सह ।चिक्रीडुरसिभिः शुभ्रैर्निर्मुक्तैरिव पन्नगैः ॥३२॥सृजन्तः सर्पपतयस्तीव्रं रोषमयं विषम् ।शरभूताः सुरेन्द्राणां चेरुर्व्यात्तमुखा दिवि ॥३३॥पर्वतास्तु शिलाशृङ्गैः शतशाखैश्च पादपैः ।उपतस्थुः सुरगणान् प्रहर्तुं दानवं बलम् ॥३४॥यः स देवो इषीकेशः पद्मनाभस्त्रिविक्रमः ।कृष्णवर्त्मा युगान्ताभो विश्वस्य जगतः प्रभुः ॥३५॥समुद्रयोनिर्मधुहा हव्यभुक्क्रतुसत्कृतः ।भूरापोव्योमभूतात्मा समः शान्तिकरोऽरिहा ॥३६॥जगद्योनिर्जगद्बीजो जगद्गुरुरुदारधीः ।सोऽर्कमग्निमिवोद्यन्तमुद्यम्योत्तमतेजसम् ॥३७॥अरिघ्नममरानीके चक्रं चक्रगदाधरः ।सपरीवेषमुद्यन्तं सवितुर्मण्डलं यथा ॥३८॥सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् ।करेण कालीं वपुषा शत्रुकालप्रदां गदाम् ॥३९॥शेषैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः ।दधारायुधजालानि शार्ङ्गादीनि महायशाः ॥४०॥स कश्यपस्यात्मभवं द्विजं भुजगभोजनम् ।पवनाधिकसम्पातं गगनक्षोभणं खगम् ।भुजगेन्द्रेण वदने निविष्टेन विराजितम् ॥४१॥अमृतारम्भनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् ।देवासुरविमर्देषु शतशो दृष्टविक्रमम् ॥४२॥महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणम् ।शिखिनं चूडिनं चैव तप्तकुण्डलभूषणम् ।विचित्रपक्षवसनं धातुमन्तमिवाचलम् ॥४३॥स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा ।भोगिभोगावसक्तेन मणिरत्नेन भास्वता ॥४४॥पक्षाभ्यां चारुचित्राभ्यामावृत्य दिवि लीलया ।युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् ॥४५॥नीललोहितपीताभिः पताकाभिरलंकृतम् ।केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥४६॥अरुणावरजं श्रीमानारुह्य समरे हरिः ।सुवर्णं स्वेन वपुषा सुपर्णं खेचरोत्तमम् ॥४७॥तमन्वयुर्देवगणा मुनयश्च तपोधनाः ।गीर्भिः परममन्त्राभिस्तुष्टुवुश्च गदाधरम् ॥४८॥तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरस्सरम् ।वारिराजपरिक्षिप्तं देवराजविराजितम् ॥४९॥चन्द्रप्रभाभिर्विमलं युद्धाय समुपस्थितम् ।पवनाबद्धनिर्घोषं सम्प्रदीप्तहुताशनम् ॥५०॥विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसा वृतम् ।बलं बलवदुद्भूतं युद्धाय समवर्तत ॥५१॥स्वस्त्यस्तु देवेभ्य इति स्तुत्वा तत्राङ्गिराऽब्रवीत् ।स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे ॥५२॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP