हरिवंश पर्व - त्रयोविंशतितमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
हंसानां काम्पिल्यनगरे ब्रह्मदत्तादिरूपेषु उत्पत्तिः, चतुर्णां हंसानां स्वपितृतः अनुज्ञां प्राप्त्वा मोक्षप्रापणम्
मार्कण्डेय उवाच
ते योगधर्मनिरताः सप्त मानसचारिणः ।
पद्मगर्भोऽरविन्दाक्षः क्षीरगर्भः सुलोचनः ॥१॥
उरुबिन्दुः सुबिन्दुश्च हैमगर्भस्तु सप्तमः ।
वाय्वम्बुभक्षाः सततं शरीराण्युपशोषयन् ॥२॥
राजा विभ्राजमानस्तु वपुषा तद् वनं तदा ।
चचारान्तःपुरवृतो नन्दनं मघवानिव ॥३॥
स तानपश्यत्खचरान् योगधर्मात्मकान् नृप ।
निर्वेदाच्च तमेवार्थमनुध्यायन् पुरं ययौ ॥४॥
अणुहो नाम तस्याऽऽसीत्पुत्रः परमधार्मिकः ।
अणुधर्मरतिर्नित्यमणुं सोऽभ्यगमत्पदम् ॥५॥
प्रादात्कन्यां शुकस्तस्मै कृत्वीं पूजिललक्षणाम्॥
सत्यशीलगुणोपेतां योगधर्मरतां सदा ॥६॥
सा ह्युद्दिष्टा पुरा भीष्म पितृकन्या मनीषिणी ।
सनत्कुमारेण तदा संनिधौ मम शोभना ॥७॥
सत्यधर्मभृतां श्रेष्ठा दुर्विज्ञेया कृतात्मभिः ।
योगा च योगपत्नी च योगमाता तथैव च ॥८॥
यथा ते कथितं पूर्वं पितृकल्पेषु वै मया ।
विभ्राजस्त्वणुहं राज्ये स्थापयित्वा नरेश्वरः ॥९॥
आमन्त्र्य पौरान्प्रीतात्मा ब्राह्मणान् स्वस्ति वाच्य च ।
प्रायात् सरस्तपश्चर्तुं यत्र ते सहचारिणः ॥१०॥
स वै तत्र निराहारो वायुभक्षो महातपाः ।
त्यक्त्वा कामांस्तपस्तेपे सरसस्तस्य पार्श्वतः ॥११॥
तस्य संकल्प आसीच्च तेषामेकतरस्य वै ।
पुत्रत्वं प्राप्य योगेन युज्येयमिति भारत ॥१२॥
कृत्वाभिसन्धिं तपसा महता स समन्वितः ।
महातपाः स विभ्राजो विरराजांशुमानिव ॥१३॥
ततो विभ्राजितं तेन वैभ्राजं नाम तद्वनम् ।
सरस्तच्च कुरुश्रेष्ठ वैभ्राजमिति संज्ञितम् ॥१४॥
तत्र ते शकुना राजंश्चत्वारो योगधर्मिणः ।
योगभ्रष्टास्त्रयश्चैव देहन्यासकृतोऽभवन् ॥१५॥
काम्पिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ।
जाताः सप्त महात्मानः सर्वे विगतकल्मषाः ॥१६॥
ज्ञानध्यानतपःपूजावेदवेदाङ्गपारगाः
स्मृतिमन्तोऽत्र चत्वारस्त्रयस्तु परिमोहिताः ॥१७॥
स्वतन्त्रस्त्वणुहाज्जज्ञे ब्रह्मदत्तो महायशाः ।
यथा ह्यासीत्पक्षिभावे संकल्पः पूर्वचिन्तितः ।
ज्ञानध्यानतपःपूतो वेदवेदाङ्गपारगः ॥१८॥
छिद्रदर्शी सुनेत्रश्च तथा बाभ्रव्यवत्सयोः ।
जातौ श्रोत्रियदायादौ वेदवेदाङ्गपारगौ ॥१९॥
सहायौ ब्रह्मदत्तस्य पूर्वजातिसहोषितौ ।
पाञ्चालः पाञ्चिकश्चैव कण्डरीकस्तथापरः ॥२०॥
पाञ्चालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह ।
द्विवेदः कण्डरीकस्तु छन्दोगोऽध्वर्युरेव च ॥२१॥
सर्वसत्त्वरुतज्ञस्तु राजाऽऽसीदणुहात्मजः ।
पाञ्चालकण्डरीकाभ्यां तस्य सख्यमभूत्तदा ॥२२॥
ते ग्राम्यधर्माभिरताः कामस्य वशवर्तिनः ।
पूर्वजातिकृतेनासन् धर्मकामार्थकोविदाः ॥२३॥
अणुहस्तु नृपश्रेष्ठो ब्रह्मदत्तमकल्मषम् ।
राज्येऽभिषिच्य योगात्मा परां गतिमवाप्तवान् ॥२४॥
ब्रह्मदत्तस्य भार्या तु देवलस्यात्मजाभवत् ।
असितस्य हि दुर्धर्षा संनतिर्नाम नामतः ॥२५॥
तामेकभावसम्पन्नां लेभे कन्यामनुत्तमाम् ।
संनतिं संनतिमतीं देवलाद् योगधर्मिणीम् ॥२६॥
पञ्चमः पाञ्चिकस्तत्र सप्तजातिषु भारत ।
षष्ठस्तु कण्डरीकोऽभूद् ब्रह्मदत्तश्च सप्तमः ॥२७॥
शेषा विहङ्गमा ये वै काम्पिल्यं सहचारिणः ।
ते जाताः श्रोत्रियकुले सुदरिद्रे सहोदराः ॥२८॥
धृतिमान् सुमना विद्वांस्तत्त्वदर्शी च नामतः ।
वेदाध्ययनसम्पन्नाश्चत्वारश्छिद्रदर्शिनः ॥२९॥
तेषां संवित्तथोत्पन्ना पूर्वजातिकृता तदा ।
ये योगनिरताः सिद्धाः प्रस्थिताः सर्व एव हि ॥३०॥
आमन्त्र्य पितरं तात पिता तानब्रवीत् तदा ।
अधर्मं एव युष्माकं यन्मां त्यक्त्वा गमिष्यथ ॥३१॥
दारिद्रयमनपाकृत्य पुत्रार्थांश्चैव पुष्कलान् ।
शुश्रूषामप्रयुज्यैव कथं वै गन्तुमर्हथ ॥३२॥
ते तमूचुर्द्विजाः सर्वे पितरं पुनरेव च ।
करिष्यामो विधानं ते येन त्वं वर्तयिष्यसि ॥३३॥
इमं श्लोकं महार्थं त्वं राजानं सहमन्त्रिणम् ।
श्रावयेथाः समागम्य ब्रह्मदत्तमकल्मषम् ॥३४॥
प्रीतात्मा दास्यति स ते ग्रामान् भोगांश्च पुष्कलान् ।
यथेप्सितांश्च सर्वार्थान् गच्छ तात यथेप्सितम् ॥३५॥
एतावदुक्त्वा ते सर्वे पूजयित्वा च तं गुरुम् ।
योगधर्ममनुप्राप्य परां निर्वृतिमाययुः ॥३६॥
इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे त्रयोविंशोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : July 12, 2018
TOP