संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| षट्चत्वारिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - षट्चत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षट्चत्वारिंशोऽध्यायः Translation - भाषांतर इन्द्रेण चन्द्रमसः स्तुतिः, चन्द्रेण एवं वरुणेन दैत्यसैन्यस्य संहारः, मयदानवेन मायायाः प्रयोगः, दैत्यसैन्येन सह पवनस्य एवं अग्निदेवस्य संग्रामम्, कालनेमिनः रणे आगमनम् ।वैशम्पायन उवाचएवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्द्धनः ।संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् ॥१॥शक्र उवाचगच्छ सोम सहायत्वं कुरु पाशधरस्य वै ।असुराणां विनाशाय जयाय च दिवौकसाम् ॥२॥त्वमप्रतिमवीर्यश्च ज्योतिषां चेश्वरेश्वरः ।त्वन्मयं सर्वलोकानां रसं रसविदो विदुः ॥३॥क्षयवृद्धी तवाव्यक्ते सागरस्येव मण्डले ।परिवर्तस्यहोरात्रं कालं जगति योजयन् ॥४॥लोकच्छायामयं लक्ष्म तवाङ्के शशसंशितम् ।न विदुः सोमदेवाऽपि ये च नक्षत्रयोगिनः ॥५॥त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः ।तमश्चोत्सार्य वपुषा भासयस्यखिलं जगत् ॥६॥श्वेतभानुर्हिमतनुर्ज्योतिषामधिपः शशी ।अब्दकृत्कालयोगात्मा ईज्यो यज्ञ्ररसोऽव्ययः ॥७॥ओषधीशः क्रियायोनिरम्भोयोनिरनुष्णभाक् ।शीतांशुरमृताधारश्चपलः श्वेतवाहनः ॥८॥त्वं कान्तिः कान्तवपुषां त्वं सोमः सोमवृत्तिनाम् ।सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट् ॥९॥तद् गच्छ त्वं सहानेन वरुणेन वरूथिना ।शमयस्वासुरीं मायां यया दह्याम संगरे ॥१०॥सोम उवाचयन्मां वदसि युद्धार्थे देवराज जगत्पते ।एष वर्षामि शिशिरं दैत्यमायापकर्षणम् ॥११॥एतान्मच्छीतनिर्दग्धान्पश्य त्वं हिमवेष्टितान् ।विमायान् विमदांश्चैव दानवांस्त्वं महामृधे ॥१२॥वैशम्पायन उवाचततो हिमकरोत्सृष्टाः सबाष्पा हिमवृष्टयः ।वेष्टयन्ति स्म तान्घोरान्दैत्यान् मेघगणा इव ॥१३॥तौ पाशशुक्लांशुधरौ वरुणेन्दू महारणे ।जघ्नतुर्हिमपातैश्च पाशघातैश्च दानवान् ॥१४॥द्वावम्बुनाथौ समरे तौ पाशहिमयोधिनौ ।मृधे चेरतुरम्भोभिः क्षुब्धाविव महार्णवौ ॥१५॥ताभ्यामाप्लावितं सैन्यं तद् दानवमदृश्यत ।जगत् संवर्तकाम्भोदैः प्रवृष्टैरिव संवृतम् ॥१६॥तावुद्यतांशुपाशौ द्वौ शशाङ्कवरुणौ रणे ।शमयामासतुर्मायां देवौ दैतेयनिर्मिताम् ॥१७॥शीतांशुजयनिर्दग्धाः पाशैश्च प्रसिता रणे ।न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः ॥१८॥शीतांशुनिहतास्ते तु पेतुर्दैत्या हिमार्दिताः ।हिमप्रावृतसर्वाङ्गा निरूष्माण इवाग्नयः ॥१९॥तेषां तु दिवि दैत्यानां विपरीतप्रभाणि च ।विमानानि विचित्राणि निपतन्त्युत्पतन्ति च ॥२०॥तान् पाशहस्तग्रथिताञ्च्छादितान्हिमरश्मिना ।मयो ददर्श मायावी दानवान् दिवि दानवः ॥२१॥स शिलाजालविततां गण्डशैलाट्टहासिनीम् ।पादपोत्कटकूटाग्रां कन्दराकीर्णकाननाम् ॥२२॥सिंहव्याघ्रगजाकीर्णां नदन्तीमिव यूथपैः ।ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम् ॥२३॥निर्मितां स्वेन पुत्रेण क्रौञ्चेन दिविकामगाम् ।प्रथितां पार्वतीं मायां ससृजे दानवोत्तमः ॥२४॥सास्मशब्दैः शिलावर्षैः सम्पतद्भिश्च पादपैः ।निजघ्ने देवसंघांस्तान् दानवांश्चाप्यजीवयत् ॥२५॥नैशाकरी वारुणी च मायेऽन्तर्दधतस्ततः ।अश्मभिश्चायसघनैः कीर्णा देवगणा रणे ॥२६॥साश्मसंघातविषमा द्रुमपर्वतसंकटा ।अभवद् घोरसंचारा पृथिवी पर्वतैरिव ॥२७॥नानाहतोऽश्मभिः कश्चिच्छिलाभिश्चाप्यताडितः ।नानिरुद्धो द्रुमगणैर्देवोऽदृश्यत संयुगे ॥२८॥तदपभ्रष्टधनुषं भग्नप्रहरणाविलम् ।निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरम् ॥२९॥स हि युद्धगतः श्रीमानीशो न स्म व्यकम्पत ।सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः ॥३०॥कालज्ञः कालमेघाभः समैक्षत् कालमाहवे ।देवासुरविमर्दं स द्रष्टुकामो जनार्दनः ॥३१॥ततो भगवताऽऽदिष्टौ रणे पावकमारुतौ ।शमनार्थं प्रवृद्धाया मायाया मयसृष्टया ॥३२॥ततः प्रवृद्धावन्योन्यं प्रबुद्धौ ज्वालवाहिनौ ।चोदितौ विष्णुवाक्येन तां मायां व्यपकर्षताम् ॥३३॥ताभ्यामुद्भ्रान्तवेगाभ्यां प्रवृद्धाभ्यां महाहवे ।दग्धा सा पार्वती माया भस्मीभूता ननाश ह ॥३४॥सोऽनिलोऽनलसंयुक्तः सोऽनलश्चानिलाकुलः ।दैत्यसेनां ददहतुर्युगान्तेष्विव मूच्छितौ ॥३५॥वायुः प्रधावितस्तत्र पश्चादग्निश्च मारुतात् ।चेरतुर्दानवानीके क्रीडन्तावनलानिलौ ॥३६॥भस्मावयवभूतेषु प्रपतच्छपतत्सु च ।दानवेषु विनष्टेषु कृतकर्मणि पावके ॥३७॥वातस्कन्धापविद्धेषु विमानेषु समन्ततः ।मायाबन्धे विनिर्वृत्ते स्तूयमाने गदाधरे ॥३८॥निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबन्धने ।सम्प्रहृष्टेषु देवेषु साधु साध्विति सर्वशः ॥३९॥जये दशशताक्षस्य मयस्य च पराजये ।दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मसंस्तरे ॥४०॥अपावृत्ते चन्द्रपथे अयनस्थे दिवाकरे ।प्रकृतिस्थेषु लोकेषु नृषु चारित्रबन्धुषु ॥४१॥अभिन्नबन्धने मृत्यौ हूयमाने हुताशने ।यज्ञभागिषु देवेषु स्वर्गार्थं दर्शयत्सु च ॥४२॥लोकपालेषु सर्वेषु दिक्षु संयानवर्तिषु ।भावे तपसि शुद्धानामभावे दुष्टकर्मणाम् ॥४३॥देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति ।त्रिपादविग्रहे धर्मे अधर्मे पादविग्रहे ॥४४॥अपावृतमहाद्वारे वर्तमाने च सत्पथे ।स्वधर्मस्थेषु वर्णेषु लोकेऽल्मिन्नाश्रमेषु च ॥४५॥प्रजारक्षणयुक्तेषु भ्राजमानेषु राजसु ।गीयमानासु गाथासु देवसंस्तवनादिषु ॥४६॥प्रशान्तकलुषे लोके शान्ते तपसि दारुणे ।अग्निमारुतयोस्तस्मिन् वृत्ते संग्रामकर्मणि ।तन्मया विमलालोकास्ताभ्यां जयकृतप्रियाः ॥४७॥पूर्वदेवभयं श्रुत्वा मारुताग्निकृतं महत् ।कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यत ॥४८॥भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः ।मन्दराचलसंकाशो महारजतसंवृतः ॥४९॥शतप्रहरणोदग्रः शतबाहुः शताननः ।शतशीर्षा स्थितः श्रीमाञ्छतशृङ्ग इवाचलः ॥५०॥कक्षे महति संवृद्धो हिमान्त इव पावकः ॥५१॥धूम्रकेशो हरिच्छ्मश्रुर्दंष्ट्रालोष्ठपुटाननः ।त्रैलोक्यान्तरविस्तारो धारयन् विपुलं वपुः ॥५२॥बाहुभिस्तुलयन् व्योम क्षिपन्पद्भ्यां महीधरान् ।ईरयन् मुखनिःश्वासैर्वृष्टिमन्तो बलाहकान् ॥५३॥तिर्यगायतरक्ताक्षं मन्दरोश्ग्रवर्चसम् ।दिधक्षन्तमिवायान्तं सर्वान् देवगणान्मृधे ॥५४॥तर्जयन्तं सुरगणांश्छादयन्तं दिशो दश ।संवर्तकाले क्षुधितं दृप्तं मृत्युमिवोत्थितम् ॥५५॥सुतलेनोच्छ्रितवता विपुलाङ्गुलिपर्वणा ।माल्याभरणपूर्णेन किञ्चिच्चलितवर्मणा ॥५६॥उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता ।दानवान् देवनिहतानुत्तिष्ठध्वमिति ब्रुवन् ॥५७॥तं कालनेमिं समरे द्विषतां कालसंनिभम् ।वीक्षन्ति स्म सुराः सर्वे भयविक्लवमानसाः ॥५८॥तं स्म वीक्षन्ति भूतानि क्रमन्तं कालनेमिनम् ।त्रिविक्रमं विक्रमन्तं नारायणमिवापरम् ॥५९॥सोच्छ्रयन् प्रथमं पादं मारुताघूर्णिताम्बरः ।प्राक्रामदसुरो युद्धे त्रासयन् सर्वदेवताः ॥६०॥स मयेनासुरेन्द्रेण परिष्वक्तः क्रमन् रणे ।कालनेमिर्बभौ दैत्यः विष्णुनेव पुरंदरः ॥६१॥अथ विव्यथिरे देवाः सर्वे शक्रपुरोगमाः ।दृष्ट्वा कालमिवायान्तं कालनेमिं भयावहम् ॥६२॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि कालनेमिप्रक्रमणे षट्चत्वारिंशोऽध्यायः ॥४६॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP