संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| चतुस्त्रिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - चतुस्त्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुस्त्रिंशोऽध्यायः Translation - भाषांतर वृष्णिवंशस्य वर्णनम् – अक्रूर, वसुदेव, कुन्ती, सात्यकि, उद्धव, चारुदेष्ण, एकलव्यादीनां परिचयम्वैशम्पायन उवाचगान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः ।गान्धारी जनयामास अनमित्रं महाबलम् ॥१॥माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् ।तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥२॥माद्र्याः पुत्रस्य जज्ञाते सुतौ वृष्ण्यन्धकावुभौ ।जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥३॥श्वफल्कस्तु महाराज धर्मात्मा यत्र वर्तते ।नास्ति व्याधिभयं तत्र नावर्षभयमप्युत ॥४॥कदाचित् काशिराजस्य विभोर्भरतसत्तम ।त्रीणि वर्षाणि विषये नावर्षत् पाकशासनः ॥५॥स तत्र वासयामास श्वफल्कं परमार्चितम् ।श्वफल्कपरिवर्ते चं ववर्ष हरिवाहनः ॥६॥श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।गान्दिनीं नाम सा गां तु ददौ विप्रेषु नित्यशः ॥७॥सा मातुरुदरस्था तु बहून् वर्षगणान् किल ।निवसन्ती न वै जज्ञे गर्भस्थां तां पिताब्रवीत् ॥८॥जायस्व शीघ्रं भद्रं ते किमर्थमिह तिष्ठसि ।प्रोवाच चैनं गर्भस्था कन्या गां च दिने दिने ॥९॥यदि दद्यां ततोऽद्याहं जाययिष्यामि तां पिता ।तथेत्युवाच तं चास्याः पिता काममपूरयत् ॥१०॥दाता यज्वा च धीरश्च श्रुतवानतिथिप्रियः ।अक्रूरः सुषुवे तस्माच्छ्वफल्काद्भूरिदक्षिणः ॥११॥उपासङ्गस्तथा मद्गुर्मृदुरश्चारिमेजयः ।अविक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्दनः ॥१२॥धर्मधृग्यतिधर्मा च गृध्रो भोजोऽन्धकस्तथा ।आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥१३॥अक्रूरेणोग्रसेनायां सुगात्र्यां कुरुनन्दन ।प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥१४॥चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ।अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ॥१५॥अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत्तथा ।सुवाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥१६॥अश्मक्यां जनयामास शूरं वै देवमीढुषः ।महिष्यां जज्ञिरे शूराद् भोज्यायां पुरुषा दश ॥१७॥वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥१८॥आकानां च संह्रादः सुमहानभवद् दिवि ।पपात पुष्पवर्षं च शूरस्य भवने महत् ॥१९॥मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥२०॥देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः ।अनाधृष्टिः कनवको वत्सावानथ गृञ्जिमः ॥२१॥श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः ।पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवाः ॥२२॥राजाधिदेवी च तथा पञ्चैता वीरमातरः ।पृथां दुहितरं वव्रे कुन्तिस्तां कुरुनन्दन ॥२३॥शूरः पूज्याय वृद्धाय कुन्तिभोजाय तां ददौ ।तस्मात्कुन्तीति विख्याता कुन्तिभोजात्मजा पृथा ॥२४॥अन्त्यस्य श्रुतदेवायां जगृहुः सुषुवे सुतः ।श्रुतश्रवायां चैद्यस्य शिशुपालो महाबलः ॥२५॥हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्पुरा ।पृथुकीर्त्यां तु तनयः संजज्ञे वृद्धशर्मणः ॥२६॥करूषाधिपतिर्वीरो दन्तवक्रो महाबलः ।पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥२७॥यस्यां स धर्मविद् राजा धर्माज्जज्ञे युधिष्ठिरः ।भीमसेनस्तथा वातादिन्द्राच्चैव धनंजयः ॥२८॥लोकेऽप्रतिरथो वीरः शक्रतुल्यपराक्रमः ।अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥२९॥शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः ।असङ्गो युयुधानस्य भूमिस्तस्याभवत्सुतः ॥३०॥भूमेर्युगधरः पुत्र इति वंशः समाप्यते ।उद्धवो देवभागस्य महाभागः सुतोऽभवत् ।पण्डितानां परं प्राहुर्देवश्रवसमुद्धवम् ॥३१॥अश्मक्यां प्राप्तवान् पुत्रमनाधृष्टिर्यशस्विनम् ।निवृत्तशत्रुं शत्रुघ्नं देवश्रवा व्यजायत ॥३२॥देवश्रवाः प्रजातस्तु नैषादिर्यः प्रतिश्रुतः ।एकलव्यो महाराज निषादैः परिवर्धितः ॥३३॥वत्सावते त्वपुत्राय वसुदेवः प्रतापवान् ।अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥३४॥गण्डूषाय त्वपुत्राय विष्वक्सेनो ददौ सुतान् ।चारुदेष्णं सुचारुं च पञ्चालं कृतलक्षणम् ॥३५॥असंग्रामेण यो चीरो नावर्तत कदाचन ।रौक्मिणेयो महाबाहुः कनीयान् पुरुषर्षभ ॥३६॥वायसानां सहस्राणि यं यान्तं पृष्ठतोऽन्वयुः ।चारुमांसानि भोक्ष्यामश्चारुदेष्णहतानि तु ॥३७॥तन्द्रिजस्तन्द्रिपालश्च सुतौ कनवकस्य तु ।वीरश्चाश्वहनश्चैव वीरौ तावथ गृञ्जिमौ ॥३८॥श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् ।जुगुप्समानौ भोजत्वाद् राजसूयमवाप सः ।अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः ॥३९॥वसुदेवसुतान्वीरान्कीर्तयिष्यामि ताञ्छृणु ॥४०॥वृष्णेस्त्रिविधमेतत् तु बहुशाखं महौजसम् ।धारयन् विपुलं वंशं नानर्थैरिह युज्यते ॥४१॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि वृष्णिवंशकीर्तनं नाम चतुस्त्रिंशोऽध्यायः ॥३४॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP