संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| त्रिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - त्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रिंशोऽध्यायः Translation - भाषांतर नहुष एवं ययातेः वंशस्य वर्णनम्, ययातेः चरित्रम्वैशम्पायन उवाचउत्पन्नाः पितृकन्यायां विरजायां महौजसः ।नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥१॥यतिर्ययातिः संयातिरायातिः पाञ्चिको भवः ।सुयातिः षष्ठस्तेषां वै ययातिः पार्थिवोऽभवत् ।यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥२॥ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः ।यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ॥३॥तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् ।देवयानीमुशनसः सुतां भार्यामवाप सः ।शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥४॥यदुं च तुर्वसुं चैव देवयानी व्यजायत ।द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥५॥तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ।असङ्गं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः ॥६॥युक्तं मनोजवैः शुभ्रैर्येन भार्यामुवाह सः ।स तेन रथमुख्येन षड्रात्रेनाजयन्महीम् ।ययातिर्युधि दुर्धर्षस्तथा देवान् सदानवान् ॥७॥स रथः पौरवाणां तु सर्वेषामभवत् तदा ।यावत्तु वसुनाम्नो वै कौरवाज्जनमेजय ॥८॥कुरोः पुत्रस्य राजेन्द्र राज्ञः पारीक्षितस्य ह ।जगाम स रथो नाशं शापाद् गार्ग्यस्य धीमतः ॥९॥गार्ग्यस्य हि सुतं बालं स राजा जनमेजयः ।वाक्छूरं हिंसयामास ब्रह्महत्यामवाप सः ॥१०॥स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ।पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥११॥ततः स दुःखसंतप्तो नालभत्संविदं क्वचित् ।इन्द्रोतः शौनकं राजा शरणं प्रत्यपद्यत ॥१२॥याजयामास चेन्द्रोतं शौनको जनमेजयम् ।अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः ॥१३॥स लोहगन्धो व्यनशत् तस्यावभृथमेत्य ह ।स च दिव्यो रथो राजन् वसोश्चेदिपतेस्तदा ।दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः ॥१४॥बृहद्रथात्क्रमेणैव गतो बार्हद्रथं नृपम् ।ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ॥१५॥प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ।सप्तद्वीपां ययातिस्तु जित्वा पृध्वी ससागराम् ॥१६॥व्यभजत् पञ्चधा राजन् पुत्राणां नाहुषस्तदा ।दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः ॥१७॥प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च नाहुषः ।दिशि पूर्वोत्तरस्यां वै यदुं ज्येष्ठं न्ययोजयत् ॥१८॥मध्ये पूरुं च राजानमभ्यषिञ्चत नाहुषः ।तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥१९॥यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ।प्रणास्तेषां पुरस्तात्तु वक्ष्यामि नृपसत्तम ॥२०॥धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः ।जरावानभवद् राजा भारमावेश्य बन्धुषु ॥२१॥निःक्षिप्तशस्त्रः पृथिवीं निरीक्ष्य पृथिवीपतिः ।प्रीतिमानभवद् राजा ययातिरपराजितः ।एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् ॥२२॥जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ।तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥२३॥अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ॥२४॥जरायां बहवो दोषाः पानभोजनकारिताः ।तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ॥२५॥सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥२६॥स एवमुक्तो यदुना राजा कोपसमन्वितः ।उवाच वदतां श्रेष्ठो ययातिर्गर्हयन् सुतम् ॥२७॥क आश्रयस्तवान्योऽस्ति को वा धर्मो विधीयते ।मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥२८॥एवमुक्त्वा यदुं तात शशापैनं स मन्युमान् ।अराज्ञ्या ते प्रजा मूढ भवित्रीति नराधम ॥२९॥स तुर्वसुं च द्रुह्युं चाप्यनुं च भरतर्षभ ।एवमेवाब्रवीद् राजा प्रत्याख्यातश्च तैरपि ॥३०॥शशाप तानतिक्रुद्धो ययातिरपराजितः ।यथा ते कथितं पूर्वं मया राजर्षिसत्तमः ॥३१॥एवं शप्त्वा सुतान् सर्वांश्चतुरः पूरुपूर्वजान् ।तदेव वचनं राजा पूरुमप्याह भारत ॥३२॥तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।जरां त्वयि समाधाय त्वं पूरो यदि मन्यसे ॥३३॥स जरां प्रतिजग्राह पितुः पूरुः प्रतापवान् ।ययातिरपि रूपेण पूरोः पर्यचरन्महीम् ॥३४॥स मार्गमाणः कामानामन्तं भरतसत्तम ।विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥३५॥यदावितृष्णः कामानां भोगेषु स नराधिपः ।तदा पूरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत ॥३६॥तत्र गाथा महाराज शृणु गीता ययातिना ।याभिः प्रत्याहरेत्कामान् सर्वतोऽङ्गानि कूर्मवत् ॥३७॥न जातु कामः कामानामुपभोगेन शाम्यति ।हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥३८॥यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।नालमेकस्य तत् सर्वमिति पश्यन्न मुह्यति ॥३९॥यदा भावं न कुरुते सर्वभूतेषु पापकम् ।कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥४०॥यदानेभ्यो न बिभ्येत यदाचास्मान्न बिभ्यति ।यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥४१॥या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥४२॥जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥४३॥यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥४४॥एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् ।कालेन महता वापि चचार विपुलं तपः ॥४५॥भृगुतुङ्गे तपस्तप्त्वा तपसोऽन्ते महातपाः ।अनश्नन् देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥४६॥तस्य वंशे महाराज पञ्च राजर्षिसत्तमाः ।यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥४७॥यदोस्तु शृणु राजर्षेर्वंशं राजर्षिसत्कृतम् ।यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥४८॥धन्यः प्रजावानायुष्मान् कीर्तिमांश्च भवेन्नरः ।ययातेश्चरितं पुण्यं पठञ्छृण्वन् नराधिप ॥४९॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि ययातिचरिते त्रिंशोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP