हरिवंश पर्व - षोडशोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
श्राद्धकल्पः - जनमेजयेन द्वारा पितुः श्राद्धं एवं पितृस्वरूपनिर्णयसम्बन्धी प्रश्नं, शन्तनुना स्वश्राद्धे भीष्मात् पिण्डप्राप्त्यर्थं स्वहस्तप्रसारणम्
जनमेजय उवाच
कथं वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ।
श्रोतुमिच्छामि विप्राग्र्य श्राद्धस्य च परं विधिम् ॥१॥
पितॄणामादिसर्गं च क एते पितरः स्मृताः ।
एवं च श्रुतमस्माभिः कथ्यमानं द्विजातिभिः ॥२॥
स्वर्गस्थाः पितरो ये च देवानामपि देवताः ।
इति वेदविदः प्राहुरेतदिच्छामि वेदितुम् ॥३॥
ये च तेषां गणाः प्रोक्ता यच्च तेषां बलं परम् ।
यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥४॥
प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ।
एवं वेदितुमिच्छामि पितॄणां सर्गमुत्तमम् ॥५॥
वैशम्पायन उवाच
हन्त ते कथयिष्यामि पितॄणां सर्गमुत्तमम् ।
यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ।
प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ॥६॥
मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ।
अपृच्छद् धर्मराजो हि शरतल्पगतं पुरा ।
एवमेव पुरा प्रश्नं यन्मां त्वं परिपृच्छसि ॥७॥
तत् तेऽनुपूर्व्या वक्ष्यामि भीष्मेणोदाहृतं यथा ।
गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥८॥
युधिष्ठिर उवाच
पुष्टिकामेन धर्मज्ञ कथं पुष्टिरवाप्यते ।
एतद्वै श्रोतुमिच्छामि किं कुर्वाणो न शोचति ॥९॥
भीष्म उवाच
श्राद्धैः प्रीणाति हि पितॄन् सर्वकामफलैस्तु यः ।
तत्परः प्रयतः श्राद्धी प्रेत्य चेह च मोदते ॥१०॥
पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ।
पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर ॥११॥
युधिष्ठिर उवाच
वर्तन्ते पितरः स्वर्गे केषांचिन्नरके पुनः ।
प्राणिनां नियतं वापि कर्मजं फलमुच्यते ॥१२॥
श्राद्धानि चैव कुर्वन्ति फलकामा सदा नराः ।
अभिसंधाय पितरं पितुश्च पितरं तथा ॥१३॥
पितुः पितामहं चैव त्रिषु पिण्डेषु नित्यशः ।
तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ॥१४॥
कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः ।
के वा ते पितरोऽन्ये स्म कान् यजामो वयं पुनः ॥१५॥
देवा अपि पितॄन्स्वर्गे यजन्तीति च नः श्रुतम् ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥१६॥
स भवान् कथयत्वेतां कथाममितबुद्धिमान् ।
यथा दत्तं पितॄणां वै तारणायेह कल्पते ॥१७॥
भीष्म उवाच
अत्र ते कीर्तयिष्यामि यथाश्रुतमरिंदम ।
ये च ते पितरोऽन्ये स्म यान्यजामो वयं पुनः ।
पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥१८॥
श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः ।
तं पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥१९॥
हस्ताभरणपूर्णेन केयूराभरणेन च ।
रक्ताङ्गुलितलेनाथ यथा दृष्टः पुरा मया ॥२०॥
नैष कल्पे विधिर्दृष्ट इति संचिन्त्य चान्यहम् ।
कुशेष्वेव ततः पिण्डं दत्तवानविचारयन् ॥२१॥
ततः पिता मे सुप्रीतो वाचा मधुरया तदा ।
उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ ॥२२॥
त्वया दायादवानस्मि कृतार्थोऽमुत्र चेह च ।
सत्पुत्रेण त्वया पुत्र धर्मज्ञेन विपश्चिता ॥२३॥
मया तु तव जिज्ञासा प्रयुक्तैषा दृढव्रत ।
व्यवस्थानं तु धर्मेषु कर्तुं लोकस्य चानघ ॥२४॥
यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।
पापस्य हि तथा मूढः फलं प्राप्नोत्यरक्षिता ॥२५॥
प्रमाणं यद्धि कुरुते धर्माचारेषु पार्थिवः ।
प्रजास्तदनुवर्तन्ते प्रमाणाचरितं सदा ॥२६॥
त्वया च भरतश्रेष्ठ वेदधर्माश्च शाश्वताः ।
कृताः प्रमाणं प्रीतिश्च मम निर्वर्तितातुला ॥२७॥
तस्मात् तवाहं सुप्रीतः प्रीत्या च वरमुत्तमम् ।
ददामि तं प्रतीच्छ त्वं त्रिषु लोकेषु दुर्लभम् ॥२८॥
न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ।
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य मृत्युः प्रभविता तव ॥२९॥
किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ।
तद् ब्रूहि भरतश्रेष्ठ यत् ते मनसि वर्तते ॥३०॥
इत्युक्तवन्तं तमहमभिवाद्य कृताञ्जलिः ।
अब्रवं कृतकृत्योऽहं प्रसन्ने त्वयि सत्तम ॥३१॥
यदि त्वनुग्रहं भूयस्त्वत्तोऽर्हामि महाद्युते ।
प्रश्नमिच्छामि वै किंचिद् व्याहृतं भवता स्वयम् ॥३२॥
स मामुवाच धर्मात्मा ब्रूहि भीष्म यदिच्छसि ।
छेत्तास्मि संशयं सर्वं यन्मां पृच्छसि भारत ॥३३॥
अपृच्छं तमहं तातं तत्रान्तर्हितमेव च ।
गतं सुकृतिनां लोकं कौतूहलसमन्वितः ॥३४॥
भीष्म उवाच
श्रूयन्ते पितरो देवा देवानामपि देवताः ।
वाश्च पितरोऽन्ये वा कान् यजामो वयं पुनः ॥३५॥
कथं च दत्तमस्माभिः श्राद्धं प्रीणात्यथो पितॄन् ।
लोकान्तरगतांस्तात किन्नु श्राद्धस्य वा फलम् ॥३६॥
न् यजन्ति स्म लोका वै सदेवनरदानवाः ।
सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः ॥३७॥
अत्र मे संशयस्तीव्रः कौतूहलमतीव च ।
तद् ब्रूहि मम धर्मज्ञ सर्वज्ञौ ह्यसि मे मतः ।
एतच्छ्रुत्वा वचस्तस्य भीष्मस्योवाच वै पिता ॥३८॥
शन्तनुरुवाच
संक्षेपेणैव ते वक्ष्ये यन्मां पृच्छसि भारत ।
पितरश्च यथोद्भूताः फलं दत्तस्य चानघ ॥३९॥
पितॄणां कारणं श्राद्धे शृणु सर्वै समाहितः ।
दिदेवसुतास्तात पितरो दिवि देवताः ॥४०॥
तान् यजन्ति स्म वै लोका सदैवासुरमानुषाः ।
सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः ॥४१॥
आप्यायिताश्च ते श्राद्धे पुनराप्याययन्ति च ।
जगत् सदेवगन्धर्वमिति ब्रह्मानुशासनम् ॥४२॥
तान् यजस्व महाभाग श्राद्धैरग्र्यैरतन्द्रितः ।
ते ते श्रेयो विधास्यन्ति सर्वकामफलप्रदाः ॥४३॥
त्वया चाराध्यमानास्ते नामगोत्रादिकीर्तनैः ।
अस्मानाप्याययिष्यन्ति स्वर्गस्थानपि भारत ॥४४॥
मार्कण्डेयस्तु ते शेषमेतत् सर्वं प्रवक्ष्यति ।
एष वै पितृभक्तश्च विदितात्मा च भारत ॥४५॥
उपस्थितश्च श्राद्धेऽद्य ममैवानुग्रहाय वै ।
एनं पृच्छ महाभागमित्युक्त्वान्तरधीयत ॥४६॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि श्राद्धकल्पप्रसङ्गो नाम षोडशोऽध्यायः ॥१६॥
N/A
References : N/A
Last Updated : July 11, 2018
TOP