हरिवंश पर्व - षष्ठोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
पृथोरुपाख्यानम् - पृथोः दुहिता भूत्वा पृथिव्या अनेक प्रकाराणां दुग्धानां दानं, अनेक पात्राणां एवं दोग्धॄणां वर्णनम्
पृथुरुवाच
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा ।
बहून् वै प्राणिनो लोके भवेत् तस्येह पातकम्॥१॥
सुखमेधन्ति बहवो यस्मिंस्तु निहतेऽशुभे ।
तस्मिन्नास्ति हते भद्रे पातकं चोपपातकम् ॥२॥
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेम तत्र पुण्यप्रदो वधः ॥३॥
सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुंधरे ।
यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥४
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाहं प्रजा धारयिता चिरम् ॥५॥
सा त्वं शासनमास्थाय मम धर्मभृतां वरे ।
संजीवय प्रजाः सर्वाः समर्था ह्यसि धारणे ॥६॥
दुहितृत्वं च मे गच्छ तत एनमहं शरम् ।
नियच्छेयं त्वद्वधार्थमुद्यतं घोरदर्शनम् ॥७॥
पृथिव्युवाच
सर्वमेतदहं वीर विधास्यामि न संशयः ।
ण समारब्धाः सर्वे द्वि ॥८॥
उपायं पश्य येन त्वं धारयेथाः प्रजा इमाः ।
वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥९॥
समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर ।
यथा विस्पन्दमान्ं मे क्षीरं सर्वत्र भावयेत् ॥१०॥
वैशम्पायन उवाच
तत उत्सारयामास शैलाञ्छतसहस्रशः ।
धनुष्कोट्या तदा वैन्यस्तेन शैला विवर्द्धिताः ॥११
इत्थं वैन्यस्तदा राजा महीं चक्रे समां ततः ।
मन्वन्तरेष्वतीतेषु विषमासीद् वसुंधरा ॥१२॥
स्वभावेनाभवन् ह्यस्याः समानि विषमाणि च ।
चाक्षुषस्यान्तरे पूर्वमासीदेव तदा किल ॥१३॥
न हि पूर्वविसर्गे वै विषमे पृथिवीतले ।
प्रविभागः पुराणां च ग्रामाणां वा तदाभवत् ॥१४॥
न सस्यानि न गोरक्षा न कृषिर्न वणिक्पथः ।
नैव सत्यानृतं तत्र न लोभो न च मत्सरः ॥१५॥
वैवस्वतेऽन्तरे चास्मिन् साम्प्रतं समुपस्थिते ।
वैन्यात् प्रभृति राजेन्द्र सर्वस्यैतस्य सम्भवः ॥१६॥
यत्र यत्र समं त्वस्या भूमेरासीदिहानघ ।
तत्र तत्र प्रजाः सर्वाः संवासं समरोचयन् ॥१७॥
आहारः फलमूलानि प्रजानामभवत् तदा ।
कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम ॥१८॥
संकल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् ।
स्वपाणौ पुरुषश्रेष्ठ दुदोह पृथिवीं ततः ।
सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रतापवान् ॥१९॥
तेनान्नेन प्रजास्तात वर्तन्तेऽद्यापि नित्यशः ।
ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा ॥२०॥
वत्सः सोमोऽभवत्तेषां दोग्धा चाङ्गिरसः सुतः ।
बृहस्पतिर्महातेजाः पात्रं छन्दांसि भारत ।
क्षीरमासीदनुपमं तपो ब्रह्म च शाश्वतम् ॥२१॥
पुनर्देवगणैः सर्वैः पुरंदरपुरोगमैः ।
काञ्चनं पात्रमादाय दुग्धेयं श्रूयते मही ॥२२॥
वत्सस्तु मघवानासीद्दोग्धा च सविता प्रभुः ।
क्षीरमूर्जस्करं चैव वर्तन्ते येन देवताः ॥२३॥
पितृभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा ।
राजतं पात्रमादाय स्वधाममितविक्रमैः॥२४॥
यमो वैवस्वतस्तेषामासीद् वत्सः प्रतापवान् ।
अन्तकश्चाभवद् दोग्धा कालो लोकप्रकालनः ॥२५॥
नागैश्च श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ।
अलाबुं पात्रमादाय विषं क्षीरं नरोत्तम ॥२६॥
तेषामैरावतो दोग्धा धृतराष्ट्रः प्रतापवान् ।
नागानां भरतश्रेष्ठ सर्पाणां च महीपते ॥२७॥
तेनैव वर्तयन्त्युग्रा महाकाया विषोल्बणाः ।
तदाहारास्तदाचारास्तद्वीर्यास्तदुपाश्रयाः ॥२८॥
असुरैः श्रूयते चापि पुनर्दुग्धा वसुंधरा ।
आयसं पात्रमादाय मायां शत्रुनिबर्हिणीम् ॥२९॥
विरोचनस्तु प्राह्रादिर्वत्सस्तेषामभूत् तदा ।
ऋत्विग्द्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः ॥३०॥
तथैते माययाद्यापि सर्वे मायाविनोऽसुराः ।
वर्तयन्त्यमितप्रज्ञास्तदेवाममितं बलम् ॥३१॥
यक्षैश्च श्रूयते तात पुनर्दुग्धा वसुंधरा ।
आमपात्रे महाराज पुरान्तर्द्धानमक्षयम् ॥३२॥
वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तदा ।
दोग्धा रजतनाभस्तु पिता मणिवरस्य यः ॥३३॥
यक्षानुजो महातेजास्त्रिशीर्षः सुमहातपाः ।
तेन ते वर्तयन्तीति परमर्षिरुवाच ह ॥३४॥
राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुंधरा ।
शावं कपालमादाय प्रजा भोक्तुं नरर्षभ ॥३५॥
दोग्धा रजतनाभस्तु तेषामासीत् कुरूद्वह ।
वत्सः सुमाली कौरव्य क्षीरं रुधिरमेव च ॥३६॥
तेन क्षीरेण यक्षाश्च राक्षसाश्चामरोपमाः ।
वर्तयन्ति पिशाचाश्च भूतसंघास्तथैव च ॥३७॥
पद्मपत्रे पुनर्दुग्धा गन्धर्वैः साप्सरोगणैः ।
वत्सं चित्ररथं कृत्वा शुचीन् गन्धान्नरर्षभ ॥३८॥
तेषां च सुरुचिस्त्वासीद्दोग्धा भरतसत्तम ।
गन्धर्वराजोऽतिबलो महात्मा सूर्यसंनिभः ॥३९॥
शैलैश्च श्रूयते राजन् पुनर्दुग्धा वसुंधरा ।
औषधीर्वै मूर्तिमती रत्नानि विविधानि च ॥४०॥
वत्सस्तु हिमवानासीन्मेरुदोंग्धा महागिरिः ।
पात्रं तु शैलमेवासीत्तेन शैला विवर्धिताः ॥४१॥
वीरुद्भिः श्रूयते राजन् पुनर्दुग्धा वसुंधरा ।
पालाशं पात्रमादाय दग्धच्छिन्नप्ररोहणम् ॥४२॥
दुदोह पुष्पितः सालो वत्सः प्लक्षोरऽभवत्तदा ।
सेयं धात्री विधात्री च पावनी च वसुंधरा ॥४३॥
चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ।
सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहिणी ॥४४॥
आसीदियं समुद्रान्ता मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना मेदसाभिपरिप्लुता ।
तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः॥४५॥
ततोऽभ्युपगमाद् राज्ञः पृथोर्वैन्यस्य भारत ।
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ।
पृथुना प्रविभक्ता च शोधिता च वसुंधरा ॥४६॥
सस्याकरवती स्फीता पुरपत्तनमालिनी ।
एवंप्रभावो वैन्यः स राजासीद् राजसत्तमः ॥४७
नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ।
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ॥४८॥
पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ।
पार्थिवैश्च महाभागैः पार्थिवत्वमभीप्सुभिः ॥४९॥
आदिराजो नमस्कार्यः पृथुर्वैन्यः पृप्रवेभ्यः प्रतापवान् ।
योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि ।
पृथुरेव नमस्कार्यो योधानां प्रथमो नृपः ॥५०॥
यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् ।
स घोररूपान् संग्रामान् क्षेमी तरति कीर्तिमान् ॥५१॥
वैश्यैरपि च वित्ताख्यैः पण्यवृत्तिमनुष्ठितैः ।
पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥५२॥
तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः ।
आदिराजो नमस्कार्यः श्रेयः परमभीप्सुभिः ॥५३॥
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च ।
पात्राणि च मयोक्तानि किं भूयो वर्णयामि ते ॥५४॥
य इदं शृणुयान्नित्यं पृथोश्चरितमादितः ।
पुत्रपौत्रसमायुक्तो मोदते सुचिरं भुवि ॥५५॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पृथूपाख्याने षष्ठोऽध्यायः ॥६॥
N/A
References : N/A
Last Updated : July 11, 2018
TOP