संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
त्रयोदशोऽध्यायः

हरिवंश पर्व - त्रयोदशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


त्रिशङ्कोः चरित्रवर्णनं एवं तस्य वंशे हरिश्चन्द्रादीनां उत्पत्तिः

वैशम्पायन उवाच
सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं तद् बभार विनये स्थितः ॥१॥
हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् ।
विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध सः ॥२॥
उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।
पितुर्नियोगादवसत् तस्मिन् वनगते नृपे ॥३॥
अयोध्यां चैव राष्ट्रं च तथैवान्तःपुरं मुनिः ।
याज्योपाध्यायसम्बन्धाद् वसिष्ठः पर्यरक्षत ॥४॥
सत्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वा बलात् ।
वसिष्ठेऽभ्यधिकं मन्युं धारयामास वै तदा ॥५॥
पित्रा तु तं तदा राष्ट्रात् त्यज्यमानं स्वमात्मजम् ।
न वारयामास मुनिर्वसिष्ठः कारणेन ह ॥६॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे ।
न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥७॥
जानन् धर्मं वसिष्ठस्तु न मां त्रातीति भारत ।
सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥८॥
गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तथा ।
न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥९॥
तस्मिन्नपरितोषो यः पितुरासीन्महात्मनः ।
तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥१०॥
तेन त्विदानीं वहता दीक्षां तां दुर्वहां भुवि ।
कुलस्य निष्कृतिस्तात कृता सा वै भवेदिति ॥११॥
न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत्
अभिषेक्ष्याम्यहं पुत्रमस्येत्येवं मतिर्मुनेः ॥१२॥
स तु द्वादशवर्षाणि दीक्षां तामुद्वहद् बली ।
उपांशुव्रतमास्थाय महत् सत्यव्रतो नृप ॥१३॥
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ।
सर्वकामदुघां दोग्ध्रीं ददर्श स नृपात्मजः ॥१४॥
तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधार्दितः ।
दशधर्मान् गतो राजा जघान जनमेजय ॥१५॥
तच्च मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ।
भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे ।
क्रुद्धस्तु भगवान् वाक्यमिदमाह नृपात्मजम् ॥१६॥
वसिष्ठ उवाच
पातयेयमहं क्रूर तव शङ्कुमसंशयम् ।
यदि ते द्वाविमौ शङकू न स्यातां वै कृतौ पुनः ॥१७॥
पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥१८॥
वैशम्पायन उवाच
एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः ।
त्रिशङ्कुरिति होवाच त्रिशङ्कुरिति स स्मृतः ॥१९॥
विश्वामित्रस्तु दाराणामागतो भरणे कृते ।
स तु तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे ॥२०॥
छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः ।
सशरीरो व्रजे स्वर्गमित्येवं याचितो मुनिः ॥२१॥
अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ।
राज्येऽभिषिच्य पित्र्ये तु याजयामास तं मुनिः ॥२२॥
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
सशरीरं तदा तं तु दिवमारोपयत् प्रभुः ॥२२॥
तस्य सत्यरथा नाम भार्या कैकयवंशजा ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥२४॥
स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः ।
आहर्ता राजसूयस्य स सम्राडिति विश्रुतः ॥२५॥
हरिश्चन्द्रस्य पुत्रोऽभूद्रोहितो नाम वीर्यवान् ।
येनेदं रोहितपुरं कारितं राज्यसिद्धये ॥२६॥
कृत्वा राज्यं स राजर्षिः पालयित्वा त्वथ प्रजाः ।
संसारासारतां ज्ञात्वा द्विजेभ्यस्तत्पुरं ददौ ॥२७॥
हरितो रोहितस्याथ चञ्चुर्हारीत उच्यते ।
विजयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः ॥२८॥
जेता क्षत्त्रस्य सर्वस्य विजयस्तेन संस्मृतः ।
रुरुकस्तनयस्तस्य राजधर्मार्थकोविदः ॥२९॥
रुरुकस्य वृकः पुत्रो वृकाद् बाहुस्तु जज्ञिवान् ।
शकैर्यवनकाम्बोजैः पारदैः पह्लवैः सह ॥३०॥
हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् ।
नात्यर्थं धार्मिकस्तात स हि धर्मयुगेऽभवत् ॥३१॥
सगरस्तु सुतो बाहोर्जज्ञे सह गरेण च ।
और्वस्याश्रममागम्य भार्गवेणाभिरक्षितः ॥३२॥
आग्नेयमस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः ।
जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् ॥३३॥
शकानां पह्लवानां च धर्मं निरसदच्युतः ।
क्षत्रियाणां कुरुश्रेष्ठ पारदानां स धर्मवित् ॥३४॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि त्रिशङ्कुचरितकथनं नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : July 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP