हरिवंश पर्व - एकविंशोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
पितृकल्पः - मार्कण्डेयेन श्राद्धस्य महिमा वर्णनं, श्राद्धफलेन कौशिकपुत्रेभ्यः उत्तमजन्मप्राप्तिः
मार्कण्डेय उवाच
श्राद्धे प्रतिष्ठितो लोकः श्राद्धे योगः प्रवर्तते ।
हन्त ते वर्तयिष्यामि श्राद्धस्य फलमुत्तमम् ॥१॥
ब्रह्मदत्तेन यत् प्राप्तं सप्तजातिषु भारत ।
त एव हि धर्मस्य बुद्धिर्निर्वर्तते शनैः ॥२॥
पीडयाप्यथ धर्मस्य कृते श्राद्धे परानघ ।
यत् प्राप्तं ब्राह्मणैः पूर्वं तन्निबोध महामते ॥३॥
ततोऽहं तानधर्मिष्ठान् कुरुक्षेत्रे पितृव्रतान् ।
सनत्कुमारनिर्दिष्टानपश्यं सप्त वै द्विजान् ॥४॥
दिव्येन चक्षुषा तेन यानुवाच पुरा विभुः ।
वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।
खसृमः पितृवर्ती च नामभिः कर्मभिस्तथा ॥५॥
कौशिकस्य सुतास्तात शिष्या गार्ग्यस्य भारत ।
पितर्युपरते सर्वे व्रतवन्तस्तदाभवन् ॥६॥
विनियोगाद् गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।
समानवत्सां कपिलां सर्वे न्यायागतां तदा ॥७॥
तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।
क्रूरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा ॥८॥
तान् कविः खसृमश्चैव याचेते नेति वै तदा ।
न चाशक्यन्त ते ताभ्यां तदा वारयितुं द्विजाः ॥९॥
पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ।
स सर्वानब्रवीद् भ्रातॄन् कोपाद्धर्मे समाहितः ॥१०॥
यद्यवश्यं प्रहन्तव्या पितॄनुद्दिश्य साध्विमाम् ।
प्रकुर्वीमहि गां सम्यक् सर्व एव समाहिताः ॥११॥
एवमेषापि गौर्धर्मे प्राप्स्यते नात्र संशयः ।
पितॄनभ्यर्च्य धर्मेण नाधर्मोऽस्मान् भविष्यति ॥१२॥
तथेत्युक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः ।
पितृभ्यः कल्पयित्वैनामुपायुञ्जन्त भारत ॥१३॥
उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ।
शार्दूलेन हता धेनुर्वत्सोऽयं गृह्यतामिति ॥१४॥
आर्जवात् स तु तं वत्सं प्रतिजग्राह वै द्विजः ।
मिथ्योपचर्य ते तं तु गुरुमन्यायतो द्विजाः ।
कालेन समयुज्यन्त सर्व एवायुषः क्षये ॥१५॥
ते वै क्रूरतया हिंस्रा अनार्यत्वाद् गुरौ तथा ।
उग्रा हिंसाविहाराश्च सप्ताजायन्त सोदराः ॥१६॥
लुब्धकस्यात्मजास्तात बलवन्तो मनस्विनः ।
पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गां तदा ॥१७॥
स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत् ।
जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ॥१८॥
स्वकर्मनिरताः सर्वे लोभानृतविवर्जिताः ।
तावन्मात्रं प्रकुर्वन्ति यावता प्राणधारणम् ॥१९॥
शेषं ध्यानपराः कालमनुध्यायन्ति कर्म तत् ।
नामधेयानि चाप्येषामिमान्यासन्नराधिप ॥२०॥
निर्वैरो निर्वृतिः शान्तो निर्मन्युः कृतिरेव च ।
वैधसो मातृवर्ती च व्याधाः परमधार्मिकाः ॥२१॥
तैरवमुषितैस्तात हिंसाधर्मरतैः सदा ।
माता च पूजिता वृद्धा पिता च परितोषितः ॥२२॥
यदा माता पिता चैव संयुक्तौ कालधर्मणा ।
तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन् ॥२३॥
शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः ।
त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ ॥२४॥
उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः ।
पण्डितो घस्मरो नादी नामतस्तेऽभवन् मृगाः ॥२५॥
तमेवार्थमनुध्यान्तो जातिस्मरणसम्भवम् ।
आसन् वनचराः क्षान्ता निर्द्वन्द्वा निष्परिग्रहाः ॥२६॥
ते सर्वे शुभकर्माणः सधर्माणो वनेचराः ।
योगधर्ममनुप्राप्ता विहरन्ति स्म तत्र ह ॥२७॥
जहुः प्राणान्मरुं साध्य लघ्वाहारास्तपस्विनः ।
तेषां मरुं साधयतां पदस्थानानि भारत ।
तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप ॥२८॥
कर्मणा तेन ते तात शुभेनाशुभवर्जिताः ।
शुभाच्छुभतरां योनिं चक्रवाकत्वमागताः ॥२९॥
शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ।
त्यक्त्वा सहचरीधर्मं मुनयो ब्रह्मचारिणः ॥३०॥
निःस्पृहो निर्ममः क्षान्तो निर्द्वन्द्वो निष्परिग्रहः ।
निर्वृत्तिर्निभृतश्चैव शकुना नामतः स्मृताः ॥३१॥
ते तत्र पक्षिणः सर्वे शकुना धर्मचारिणः ।
निराहारा जहुः प्राणांस्तपोयुक्ताः सरित्तटे ॥३२॥
अथ ते सोदरा जाता हंसा मानसचारिणः ।
जातिस्मराः सुसंयुक्ताः सप्तैव ब्रह्मचारिणः ॥३३॥
विप्रयोनौ यतो मोहान्मिथ्योपचरितो गुरुः ।
तिर्यग्योनौ ततो जाताः संसारे परिबभ्रमुः ॥३४॥
यतश्च पितृवाक्यार्थः कृतः स्वार्थे व्यवस्थितैः ।
ततो ज्ञानं च जातिं च ते हि प्रापुर्गुणोत्तराम् ॥३५॥
सुमनाः शुचिवाक्छुद्धः पञ्चमश्छिद्रदर्शनः ।
सुनेत्रश्च स्वतन्त्रश्च शकुना नामतः स्मृताः ॥३६॥
पञ्चमः पाञ्चिकस्तत्र सप्तजातिष्वजायत ।
षष्ठस्तु कण्डरीकोऽभूद् ब्रह्मदत्तस्तु सप्तमः ॥३७॥
तेषां तु तपसा तेन सप्तजातिकृतेन वै ।
योगस्य चापि निर्वृत्या प्रतिभानाच्च शोभनात् ॥३८॥
पूर्वजातिषु यद् ब्रह्म श्रुतं गुरुकुलेषु वै ।
तथैवावस्थिता बुद्धिः संसारेष्वपि वर्तताम् ॥३९॥
ते ब्रह्मचारिणः सर्वे विहङ्गा ब्रह्मवादिनः ।
योगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह ॥४०॥
तेषां तत्र विहङ्गानां चरतां सहचारिणाम् ।
नीपानामीश्वरो राजा विभ्राजः पौरवान्वयः ॥४१॥
विभ्राजमानो वपुषा प्रभावेन समन्वितः ।
श्रीमानन्तःपुरवृतो वनं तत्प्रविवेश ह ॥४२॥
स्वतन्त्रश्च विहङ्गोऽसौ स्पृहयामास तं नृपम् ।
दृष्ट्वाऽऽयान्तं श्रियोपेतं भवेयमहमीदृशः ॥४३॥
यद्यस्ति सुकृतं किञ्चित्तपो वा नियमोऽपि वा ।
खिन्नोऽऽस्मि ह्युपवासेन तपसा निष्फलेन च ॥४४॥
इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे एकविंशोऽध्यायः ॥२१॥
N/A
References : N/A
Last Updated : July 11, 2018
TOP