पतिव्रताख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
ततो विज्ञाय निपुणो राजकन्याविचेष्टितम् ।
चक्रे विदितवृत्तान्तं नृपं यौगंधरायणः ॥५१४॥
कलिङ्गसेना केनापि वृता विद्याधरेण सा ।
इति वासवदत्तां च मन्त्री गूढमहर्षयत् ॥५१५॥
क्रोधशोकस्मराक्रान्तो गत्वा वत्सेश्वरः स्वयम् ।
कलिङ्गसेनां निःशङ्कां ददर्शाक्रान्त््कथाम् ॥५१६॥
सा वत्सराजमालोक्य संभ्रमाद्गलितांशुका ।
स्तनद्वयं विदधती धरोल्लिखितमाबभौ ॥५१७॥
दृष्ट्वाभिनवसंभोगसंभावितमनोभवाम् ।
सौभाग्यविभ्रमोद्भिन्नां तां लतामिव पुष्पिताम् ॥५१८॥
वत्सराजो नियम्यान्तः कोपमन्मथविक्रियाम् ।
प्राह केनापि पापेन वञ्चितासीति निःश्वसन् ॥५१९॥
कलिङ्गसेना तच्छ्रुत्वा सद्यश्छिन्नमनोरथा ।
नेदानीं त्वं सपत्नी मे क्ष्मामितीव व्यलोकयत् ॥५२०॥
ततो वत्सेश्वरे याते साक्षाद्विद्याधरेश्वरम् ।
वरं मदनवेगं सा ददर्श स्मरविभ्रम म् ॥५२१॥
कुलाभिजनमावेद्य साक्षिता तेन मानिनी ।
नोवाच किंचिन्मनसा बबन्ध वसुनिर्वृतिम् ॥५२२॥
अथ वत्सेश्वरः स्वैरं स्मरानुशयतापितः ।
विद्याधरेन्द्ररहितां राजपुत्रीं समाययौ ॥५२३॥
स तामेत्यावदल्लज्जानाललोचनकान्तिभिः ।
आगुल्फामिव बिभ्राणां नीलोत्पलदलस्रजम् ॥५२४॥
प्राप्ता मदर्थमेवासि भज मां सुभ्रु नास्ति ते ।
दोषो विशुद्धभावायाः प्रमाणं चात्र मे मनः ॥५२५॥
इति राजवचः श्रुत्वा साब्रवीत्साश्रुलोचना ।
दुर्निमित्तं विलोक्यैवं सख्याहं वारिता पुरा ॥५२६॥
सोमप्रभावचः पथ्यमकृत्वा संशयं गता ।
प्रजापाल तवेदानीमगम्याहं पराङ्गना ॥५२७॥
इन्द्रदत्ताभिधो राजा चेदीनामभवत्पुरा ।
पापसूदनतीर्थे च चक्रे सुरालयम् ॥५२८॥
स कदाचिद्वणिग्जायां तत्तीर्थं स्नातुमागताम् ।
ददर्श कान्तिकल्लोलप्लाव्यमानामिवाभितः ॥५२९॥
तामन्विष्य स्वयं राजा समेत्य विजने निशि ।
भजस्वेत्यवदत्को हि कामेन न खलीकृतः ॥५३०॥
स्पृष्टा वह्निं विशामीति सा समाभाष्य भूपतिम् ।
तत्याज दयिता प्राणान्विषमं हि सतीव्रतम् ॥५३१॥
भूपतेरपि तत्तीव्रपापसंकुचितायुषः ।
मन्ये तस्य कथास्पर्शाज्जिह्वेयं लज्जतीव मे ॥५३२॥
इति पतिव्रताख्यायिका ॥२०॥
N/A
References : N/A
Last Updated : October 12, 2017
TOP