संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

सुलोचनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


कलिङ्गदत्तः श्रुत्वेति बुद्धः सद्धर्मदेशनम् ।
अशृणोद्ब्राह्मणवचः कन्यकाजन्मदुःखितः ॥१११॥
कुमारीजन्मना राजन्किं वृथा परितप्यसे ।
पुत्रैरशक्यं यत्कर्तुं तत्सुताभिरवाप्यते ॥११२॥
सुषेण इति भूपालश्चित्रकूटाचलेऽभवत् ।
कर्पूरकर्णपूरोऽभूद्यद्यशः सुरयोषिताम् ॥११३॥
कान्तावर्गसमारम्भः प्रिया त्वस्य गुणाधिका ।
न विना चन्द्रिकां लक्ष्मीश्चन्द्रे कान्ते प्रसीदति ॥११४॥
स निर्ममे नवोद्यानं विमानमिव गां गतम् ।
संकेतसद्म कामस्य वसन्तमिव कल्पितम् ॥११५॥
रममाणः सदा तस्मिन्स नानाकुसुमोज्ज्वले ।
न््द नन्दनगतः शतक्रतुरिवापरः ॥११६॥
कदाचिन्नयनानन्दनिस्यन्दमधुवाहिनी ।
गीर्वाणनर्तकी रम्भा तं ददर्शाथ तां च सः ॥११७॥
सा तं विलोक्य सच्छायं श्रृङ्गारसुरपादपम् ।
सर्वातिशायिनिर्माणपुण्याहमिव वेधसः ॥११८॥
स च तां वीक्ष्य पूर्णेन्दुनवलावण्यचन्द्रिकाम् ।
कौशिकीरसिकस्येव कामस्य रतिभूमिकाम् ॥११९॥
बभूवतुः स्मरशरासारसंनिभमानसौ ।
तत्पक्षपवनेनेव सरोमोद्गमवेपथू ॥१२०॥
सा मानुषतनुर्भूत्वा तमुपेत्य घनस्तनी ।
गङ्गेव शंतनुं भेजे सुषेणं नाककामिनी ॥१२१॥
कासीति प्रच्छनीयाहं न राजन्निति संविदा ।
तां प्राप्य भूमिपालोऽभूत्स्मरसाम्राज्यदीक्षितः ॥१२२॥
रममाणः सह तया रतिमानिव मन्मथः ।
मधुमास इव श्रीमान्नवोद्यानमभूषयत् ॥१२३॥
ततः सा गर्भमासाद्य कालेन वसुधाधिपात् ।
असूत तनयां कान्तिसंतानजितचन्द्रिकाम् ॥१२४॥
सावदन्नृपतिं नाथ स्वस्ति गच्छाम्यहं दिवम् ।
रम्भामवैहि मां देव देवीं देवविलासिनीम् ॥१२५॥
सुताप्रसवपर्यन्तं संगमो मे भुवि त्वया ।
पुनः पुत्र्याः प्रभावान्मे भविता संगमस्त्वया ॥१२६॥
इत्युक्त्वा प्रययौ व्योम्ना तडित्स्फुरितविश्रमा ।
कृत्वा भुजङ्गी नृपतिं वियोगविषमूर्च्छितम् ॥१२७॥
ततः सुलोचना नाम सा कन्या विभ्रमा विधिः ।
प्रियासमागमायैव ववृघे नृपतेः शनैः ॥१२८॥
तां यौवनवसन्तेन संगतां स्तबकस्तनीम् ।
श्यामामपश्यद्द्युतिमान्काश्यपो मुनिपुत्रकः ॥१२९॥
अभिलाषवतीं दृष्ट्वा स तां हरिणलोचनाम् ।
युवा ययाचे नृपतिं स्मरतप्तः सुलोचनाम् ॥१३०॥
याचितो मुनिना सोऽथ प्रोवाच वसुधाधिपः ।
रम्भावृत्तान्तमावेद्य शनैर्विरहनिःसहः ॥१३१॥
समागमे मे रम्भायास्तनया संभविष्यति ।
अनीश्वरोऽस्मि दानेऽस्या मुने तत्संगमावधि ॥१३२॥
श्रुत्वेति वचनं राज्ञो बभाषे मुनिपुत्रकः ।
अहं स्वतपसोऽ शेन सशरीरस्य ते दिवि ।
रम्भासमागमं कर्ता देहि राजन्सुलोचनाम् ॥१३३॥
पुरा प्रमद्वरां जायां भृगुवंशभवो गुरुः ।
आयुषोऽर्धेन दुष्टाहिदष्टामेवमजीवयत् ॥१३४॥
इत्युक्त्वा संगमं राज्ञो विदधे रम्भया दिवि ।
सुलोचनां मुनिः प्राप स्मरामृततरङ्गिणीम् ॥१३५॥
इति कन्याप्रभावेण प्राप्नुवन्तीप्सितं नराः ।
शापादिकारणाद्देव्यो मर्त्येष्ववतरन्ति च ॥१३६॥
इति सुलोचनाख्यायिका ॥७॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP