प्रसेनजिदाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
इति बुद्धिमतां नीतिर्निगूढा कार्यसिद्धये ।
चित्तं हि नयनं प्राज्ञो पापस्यात्मनि संभृतम् ॥४९७॥
पुरा प्रसेनजिन्नाम श्रावस्त्यां वसुधाधिपः ।
सभायां ब्राह्मणोऽभ्येत्य विज्ञप्तः शास्त्रचक्षुषा ॥४९८॥
दुःखार्जितं धनं देव हारितं त्वयि शास्तरि ।
वने नागबलावल्लीमूले विनिहितं मया ॥४९९॥
श्रुत्वेति राजा संचिन्त्य वैद्यानाहूय सर्वतः ।
अपृच्छदातुरेष्वद्य प्रयुक्तं किं किमौषधम् ॥५००॥
इति पृष्टेषु वैद्येषु प्राहैको वणिजो मया ।
दत्तो नागबलाक्काथः प्रमाणमधुना नृपः ॥५०१॥
इत्याकर्ण्य तमन्विष्य खानिता येन सा लता ।
भेषजायाब्रवीद्राजा ब्राह्मणस्वं हृतं त्वया ॥५०२॥
इति वेत्रधराहूतः श्रुत्वा कम्पाकुलो नरः ।
राजभीतस्तथेत्युक्त्वा स विप्राय ददौ धनम् ॥५०३॥
इति राज्ञा स्वबुद्ध्यैव विप्रस्वं नष्टमाहृतम् ।
को हि नाम स संकल्पो धीमतां यो न सिद्ध्यति ॥५०४॥
इति प्रसेनजिदाख्यायिका ॥१८॥
N/A
References : N/A
Last Updated : October 12, 2017
TOP