वैराग्यावदानम्
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
कुर्मायः सप्त रूपिण्यो भूपालस्य हुकेः सुताः ।
ययुः श्मशानं वैराग्यात्त्यक्तसंसारवासनाः ॥१०२॥
स्वजनेनार्थिताः प्राहुस्ताः शरीरमिदं हि नः ।
अस्थिमांसशिराचर्मसंवीतमपि कुत्सितम् ॥१०३॥
अस्मिन्काये श्मशाने च को विशेषः प्रदृश्यते ।
पच्यन्ते सततं यत्र वह्निना सप्त धातवः ॥१०४॥
विरक्तो राजपुत्रः प्राङ्नियतो भिक्षुकव्रतः ।
दृष्टः प्रविष्टो भिक्षायै कयाचिद्वरयोषिता ॥१०५॥
तं रूपमिव रूपस्य यौवनस्येव यौवनम् ।
विलोक्य कामवशगा भिक्षादानोद्यताभवत् ॥१०६॥
अहो सुभग रूपं ते मानसामृतदीधितेः ।
वर्षतीवामृतं दृष्टिस्तव राजीवलोचन ॥१०७॥
इति लोचनसौन्दर्यविचाराधिकसस्पृहाम् ।
तां वीक्ष्य निजमुत्पाट्य लोचनाब्जमुवाच सः ॥१०८॥
चर्मावनद्धं पश्येदं वारि स्तोकं न लोचनम् ।
अस्मिन्मनोहरं मातः किं कुत्सितशरीरके ॥१०९॥
इति तस्य गिरा सापि विरक्ता जिनसाध(शास)नम् ।
प्रपेदे जन्मसंतापजरामरणवारणम् ॥११०॥
इति वैराग्यावदानम् ॥६॥
N/A
References : N/A
Last Updated : October 11, 2017
TOP