संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| विक्रमसिंहाख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो विक्रमसिंहाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत विक्रमसिंहाख्यायिका Translation - भाषांतर इति सत्त्वविशुद्धानां सतामायान्ति संपदः । त्यजन्ति सत्त्वहीनां स्तु दारा अपि निरादराः ॥६२॥ अस्ति गौरीव नगरी चन्द्रचूडस्य वल्लभा । श्रीमत्युज्जयिनी नाम जननी जनसंपदाम् ॥६३॥ तस्यां विक्रमसिंहोऽभूद्भूमिपालो महाबलः । निःशेषविजितारातिर्यस्य युद्धे मनोरथः ॥६४॥ दर्पकण्डूलदोर्दण्डं तं युद्धगतमानसम् । उवाचामरगुप्ताख्यः कदाचिन्मन्त्रिपुंगवः ॥६५॥ देव बाणोऽसुरः पूर्वं सहस्रभुजदुर्मदः । ययाचे त्रिपुरारातिं योद्धा मे दीयतामिति ॥६६॥ ततो नियुद्धसंबन्धयुद्धसंनद्धचेतसा । माधवेन निकृत्तास्य चक्रेण भुजमण्डली ॥६७॥ अभिमानोऽवमानाय दृप्तानामिह भूभुजाम् । युद्धप्रतिनिधिर्देव मृगयास्ति नृपोचिता ॥६८॥ मुनीनां प्रातिकूल्येन प्रमादाद्वरवाजिनाम् । राज्ञामतिप्रसङ्गाच्च मृगया दुःखदायिनी । तस्मान्मृगरणक्रीडां भज व्यसनवर्जितः ॥६९॥ इति मन्त्रिगिरा राजा सानुगः प्रययौ वनम् । कुञ्जरक्रोडशरभद्वीपिकेसरिसंकुलम् ॥७०॥ ततः कृतश्रमोऽभ्येत्य लीलाहतवनेचरः । विनिवृत्तो ददर्शाग्रे कथासक्तौ मिथो नरौ ॥७१॥ एकान्ते चिरसंलापौ तौ दृष्ट्वा शङ्कितो नृपः । चौराविति तदाह्वाने प्रतीहारमचोदयत् ॥७२॥ प्रतीहारसमाहूतौ सर्वास्थानं महीपतेः । ततस्तौ ब्राह्मणौ प्रातः प्रविष्टौ भयकम्पितौ ॥७३॥ दत्ताभये नरपतौ स्ववृत्तं कथ्यतामिति । तयोरेकोऽब्रवीद्राजन्श्रूयतां नौ विचेष्टितम् ॥७४॥ पितृभ्यां विप्रयुक्तोऽहं बालो विप्रः पुरा नृप । नियुद्धशस्त्रकुशलो द्यूतकृद्दुर्मदोऽभवम् ॥७५॥ याति काले नवोद्वाहामपश्यं पथि योषितम् । युग्याधिरूढां प्रत्यग्रमङ्गलाबद्धकङ्कणाम् ॥७६॥ अत्रान्तरे महावेगः स्फोटितालानश्रृङ्खलः । तां विवाहमहावाद्यकुपितः कुञ्जरोऽभ्ययात् ॥७७॥ त्यक्त्वा तां द्विरदत्रासात्प्रयातेष्वनुयायिषु । गजो जिघृक्षुस्तां प्राप मुखाब्जां नलिनीमिव ॥७८॥ दृष्ट्वाहमतिकारुण्यान्नादेनाहूय वारणम् । वञ्चयित्वा श्रमाभ्यासाद्विह्वलां ताममोचयम् ॥७९॥ तस्मान्महाभयान्मुकता सावदन्मां सुलोचना । वल्लभस्त्वं जनस्यास्य प्राणानामधुना विभुः ॥८०॥ त्यक्तास्मि येन संत्रासाद्धिग्धिक्तं कातरं नरम् । नाहं संदूषिता तेन न च स्प्रक्ष्यामि तं जडम् । प्रच्छन्नानुगतस्त्वं मामचिरात्समवाप्स्यसि ॥८१॥इति मे संविदं कृत्वा संगता स्वजनेन सा । ययौ भर्तृगृहं तन्वी मय्येवार्पितमानसा ॥८२॥ तामेवानुप्रयातोऽहं प्रेमपाशवशीकृतः । प्रच्छन्नवृत्तिर्बद्धाशः शून्यदेवगृहे स्थितः ॥८३॥ तत्रापश्यमिमं विप्रमहं प्रच्छन्नकामुकम् । तस्या भर्तुः स्वसुर्गूढरूढरागैकभाजनम् ॥८४॥ अनेन जातसौहार्द्रस्ततस्तां कामिनीमहम् । कृत्वा गूढमयं प्राप्तस्तापनिर्वापणौषधिमम ॥८५॥ जामिं च तस्याः प्राप्यायं सुहृन्मे निर्वृतोऽभवत् । तदर्थं देव संलापः शून्येऽभूच्चिरमावयोः ॥८६॥ श्रुत्वेति तद्वचो राजा तुष्टः सत्यनिवेदनात् । ताभ्यां वसु ददौ को हि सद्भावेन न तुष्यति ॥८७॥ इत्येवं सत्त्वसारेण प्राप्ता कान्ता द्विजन्मना । क्लीबेन सत्त्वहीनेन कातरेण तु हारिता ॥८८॥ इति विक्रमसिंहाख्यायिका ॥४॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP