संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| मूर्खाख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो मूर्खाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत मूर्खाख्यायिका Translation - भाषांतर अथार्चयित्वा श्रीकण्ठं विधिना पार्वतीपतिम् । नभसा जग्मतुः सख्यौ ते विमानेन भास्वता ॥३३९॥ वृद्धवर्षधरोपेता राजपुत्री मनोजवम् । यन्त्रचक्रविमानं तद्भेजे दोलाविलासवत् ॥३४०॥ नृपं श्येनजित द्रष्टुं वत्सराजं च सुन्दरी । प्रस्थिता गमनं चक्रे राजपुत्री सुधामयम् ॥३४१॥ श्रावन्तीं नगरीं प्राप्य विमानादधिरुह्य सा । सख्या श्येनजितं दूराद्दर्शितं नाभ्यमन्यत ॥३४२॥ श्रीमानपि स राजेन्द्रस्तसा नाभिमतोऽभवत् । पद्माकर इवोत्फुल्लसरत्पूर्णशशित्विषः ॥३४३॥ अलक्षिता तमालोक्य प्राह सोमप्रभां ततः । सखि वत्सेश्वरं द्रष्टुं त्वरते मम मानसम् ॥३४४॥ इत्युक्त्वा यन्त्ररचितं विमानमधिरुह्य सा । क्षणादेवाप कौशाम्बीं विलाससदनं श्रियः ॥३४५॥ अवतीर्य वरोद्याने तत्र सख्या सहोचिते । तस्थाअलिकुलालोललताजालतिरोहिता ॥३४६॥ अत्रान्तरे नवोद्याने विलासरसतत्परः । वत्सेश्वरः समभ्यायात्तं देशमतुलद्युतिम् ॥३४७॥ तमालुलोके सानन्दं कम्पमानघनस्तनी । कलिङ्गसेना स्वेदाम्बुक्शाल्यमानविशेषका ॥३४८॥ स तस्या मानसोल्लासपूर्णचन्द्रोदयो नृपः । चकारोत्कलिकालोललहरीकेलिताण्डवम् ॥३४९॥ सहसा तद्गतमतिर्बभूव लिखितेव सा । पुरुषोत्तममालोक्य कमलेव नवोदिता ॥३५०॥ गम्भीरधीरललितं तं विलोक्य जहर्ष सा । धृतक्षत्रोचिताकारं हरवैरादिव स्मरम् ॥३५१॥ सोमप्रभा सखीं दृष्ट्वा नरेन्द्रगतमानसाम् । उवाच सखि तिष्ठेह पुनर्मत्संगमावधिम् ॥३५२॥ स्यन्दमानमिदं चक्षुर्नेष्टमाशंसतीव मे । धियैव तत्समाख्यातं कर्तव्या नाधृतिस्त्वया ॥३५३॥ यौगंधरायणगिरं विमानाय नरेश्वरः । स तयानुगतो नित्यमभीष्टेऽतिप्रवर्तते ॥३५४॥ तस्माद्यत्नाद्विधास्यामि तव वत्सेश संगतिम् । गच्छामि त्वमविज्ञाता विलम्बस्वेह सुन्दरि ॥३५५॥ इत्युक्त्वा दैत्यतनया प्रययौ व्योमगामिनी । तस्थौ कलिङ्गसेनाथ वत्सराजाभिलाषिणी ॥३५६॥ ताम्यन्ती मन्मथाक्रान्ता ततः कञ्चुकिनं निजम् । प्राहिणोद्वत्सराजाय दूतं सा वाञ्छिताप्तये ॥३५७॥ राजन्विराजमानं त्वां वरयत्री महीपतिम् । सुता कलिङ्गदत्तस्य प्राप्तेत्याह स भूपतिम् ॥३५८॥ श्रुत्वा विश्रुतलावण्यां स्वयंप्राप्तां नृपात्मजाम् । हर्षादमन्यतात्मानं धन्योऽस्मीति नरेश्वरः ॥३५९॥ ततो रहः समाहूय हृष्टो यौगंधरायणम् । राजेन्द्रचन्द्रः प्रोवाच विकिरन्दन्तचन्द्रिकाम् ॥३६०॥ राज्ञः कलिङ्गदत्तस्य तनया रूपविश्रुता । वरयित्री स्वयं प्राप्ता मामद्य मदनावनिः ॥३६१॥ विधीयतां समारम्भस्तद्विवाहमहोत्सवे । तूर्णं दुर्लभलाभेषु बहुविघ्ना हि सिद्धयः ॥३६२॥ श्रुत्वेति भूपतिवचः प्रदध्यौ मन्त्रिकुञ्जरः । अभेषजेऽस्मिन्व्यसने भूपतिर्मा पतत्विति ॥३६३॥ को ह्यसामान्यसौन्दर्यलावण्यतरलभ्रुवाम् । मुच्येत वशमासाद्य स्वभावरसिको जनः ॥३६४॥ अमात्यश्चिन्तयित्वेति नीतिज्ञो गणकैर्व्यधात् । विवाहलग्नव्याजेन कालहारं महीपतेः ॥३६५॥ नृपोऽथ रत्नरुचिरं वरोद्यानमुदारधीः । ददौ कलिङ्गसेनायै गृहं परिणयोत्सुकः ॥३६६॥ यौगंधरायणोऽप्यस्य सार्धं वासवदत्तया । पद्मावत्या च संमन्त्र्य कालहारमचिन्तयत् ॥३६७॥ सोऽब्रवीद्देवि संस्तम्भ्य कोपमीर्ष्यासमुत्थितम् । कुर्वाथां भूपतिपुरः कृतकः स्वस्थमानसम् ॥३६८॥ नवोद्वाहे नरपतेर्वर्तते भृशमादरम् । स धर्तुं प्रातिकूल्येन शक्यः केनानिलोपमः ॥३६९॥ जडा विपर्ययायैव विषमेषु तरङ्गिताः । संनद्धा विनिवर्तन्ते नदीवेगा इवेश्वराः ॥३७०॥ आनुकूल्येन युक्त्यैव सेविता यान्ति मार्दवम् । वेगोत्सृष्टा हि शाम्यन्ति ज्वराकाला इवेश्वराः ॥३७१॥ कालहारेण नहुषो वञ्चितः प्रार्थनापरः । शच्या चारित्ररक्षायै शक्रे विप्रोषिते पुरा ॥३७२॥ इति संविदमाधाय मन्त्री वासवदत्तया । मित्रं सस्मार कार्यार्थं यौगेशं ब्रह्मराक्षसम् ॥३७३॥ तं ध्यातमात्रमायातं वृत्तं ज्ञातुं न्यवेशयत् । गूढं कलिङ्गसेनाया मन्दिरे युक्तिकोविदः ॥३७४॥ अत्रान्तरे मयसुता समभ्येत्य विहायसा । कलिङ्गसेनां सोत्कण्ठं कण्ठे जग्राह सादरम् ॥३७५॥ चिरायाता सखीवृत्तं विज्ञाय ज्ञानचक्षुषा । प्राह सोमप्रभा सोमप्रभावयवशालिनी ॥३७६॥ स्वयं मयि प्रयातायां किमात्मा वत्सभूपतेः । त्वया प्रकाशितः सत्यमधीरं ललनामनः ॥३७७॥ मन्मतं समतिक्रम्य रभसा हतसाहसम् । कृतं सुष्ठु त्वया मौग्ध्यान्मूर्खाः साधुमतद्विषः ॥३७८॥ अन्तर्वेद्यां द्विजग्रामे वसुदत्तसुतो द्विजः । विष्णुदत्तोऽभवद्विद्यावधूविभ्रमदर्पणः ॥३७९॥ स मित्रैः सप्तभिर्मूखैः सह गन्तुं भृशोत्थितः । बलिभिस्त्वरयाविष्टैरनक्षत्रे विनिर्ययौ ॥३८०॥ दुर्निमित्तं समालोच्य तेन ते स्थातुमर्थिताः । अज्ञानदुर्ग्रहग्रस्ता न व्यलम्बन्त सत्वराः ॥३८१॥ अपि यत्नेन शक्यन्ते धर्तुं प्रलयमारुताः । विवृद्धाश्च नदीवेगा न तु मूर्खा हितद्विषाः ॥३८२॥ स गत्वा सह तैर्दूरं वध्व शपथसंविदम् । निशि प्रतिश्रयाकाङ्क्षी विवेश पुरमन्दिरम् ॥३८३॥ भुक्त्वा श्रमार्तास्ते तत्र मूर्खास्तस्यानुयायिनः । भृशं समाययुर्निद्रां स च जाग्रद्विचारधीः ॥३८४॥ महानिद्रा महाकोपा महामोहा महाशनाः । मूर्खाः पशूनां वा शिष्या मूर्खाणां पशवोऽथवा ॥३८५॥ स विनिद्रस्ततोऽपश्यन्निशि तद्गृहयोषितम् । निम्नगामिव तारुण्यमहावेगतरङ्गिताम् ॥३८६॥ प्रच्छन्नकामिनी यूना केनापि रतिसंगता । सकम्पाकुलनिःश्वासो विदधे तस्य कौतुकम् ॥३८७॥ रतिनिद्रापरीतायां तस्यां स्वगृहमाविशत् । गृहस्वामी समायातो विसृज्य निजसेवकान् ॥३८८॥ स राजवंश्यः स्ववधूं दृष्ट्वा केनापि संगताम् । शिरश्चिच्चेद सुप्तस्य प्रियाचारित्रहारिणः ॥३८९॥ खङ्गं तद्रक्तसंसिक्तं दीप्तं बिभ्रत्स पाणिना । तान्प्राह पान्थान्निर्गत्य जलमानीयतामिति ॥३९०॥ विष्णुदत्तो विनिर्दोऽथ समुत्थाय ससंभ्रम म् । जलं तस्मै ददौ पाणिस्थितखङ्गाय वारणम् ॥३९१॥ पाणि प्रक्षाल्य राजन्ये मोहान्निद्रामुपागते । प्रबुद्धा छिन्नशिरसं सापश्यन्नरमङ्गना ॥३९२॥ मनःप्रियं तमादाय निहतं लघुचारिणी । भस्मकूटे सुपिहितं रथ्योपान्ते न्यवेशयत् ॥३९३॥ तं निधाय प्रविश्याशु पत्युः सुप्तस्य मस्तकम् । चिच्छेदाकृष्य निस्त्रिंशं घोरं हि स्त्रीविचेष्टितम् ॥३९४॥ ततश्चुक्रोश सा तारमयं प्राणपतिर्मम । दस्युभिर्निहतो रात्रौ तच्छ्रुत्वा विविशुर्जनाः ॥३९५॥ तैर्गृहीतांशुकाः पान्थास्ते भृशं वेषविह्वलाः । चौरा इति वधूवाक्यान्मूर्खा नो किंचिदूचिरे ॥३९६॥ यथावृत्तं यथादृष्टं विष्णुदत्तस्ततोऽब्रवीत् । भस्मकूटान्तरधृतं तत्संदृश्य कलेवरम् ॥३९७॥ प्रत्यायातैस्तथा मुक्तो दुर्निमित्तविनिर्गतान् । निन्दन्वयस्यान्प्रययौ विष्णुदत्तः स्वमन्दिरम् ॥३९८॥ इत्येवमनिमित्तानि मूर्खैरगणितान्यपि । फलन्ति भेषजं तेषां साधुविद्वत्समागमः ॥३९९॥ इति मूर्खाख्यायिका ॥१४॥ N/A References : N/A Last Updated : October 12, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP