संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| स्वयंप्रभासमागमः मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो स्वयंप्रभासमागमः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत स्वयंप्रभासमागमः Translation - भाषांतर वचः कलिङ्गसेनायाः श्रुत्वेत्यसुरकन्यका । उवाच चन्द्रवदना वीक्ष्य संध्यारुणं नभः ॥१८७॥ अयं कमलिनीकान्तः प्राप्तोऽस्ताचलमौलिताम् । गच्छामि पुनरेष्यामि पन्था मे षष्टियोजनः ॥१८८॥ इत्युक्त्वाकाशमाविश्य तूर्णं सोमप्रभा ययौ । विधाय वदनोद्योतैर्बहु सोमप्रभं नभः ॥१८९॥ ततः सख्यां प्रयातायां राजपुत्री व्यचिन्तयत् । केयं विद्यादह्री देवी भुजङ्गी वा सखी मम ॥१९०॥ श्रूयते मानुषैः सख्यं भजन्ति किल देवताः । पृथ्वीपतेः पृथोः पूर्वं पुत्र्या सख्यमरुन्धती ॥१९१॥ भेजे नयनमार्गेण प्रीतिर्हि विशति स्वयम् । वासिष्ठधेनुं तद्वाक्यादानिनाय च भूतलम् ॥१९२॥ अमृतं तत्पयो दिव्यं ददौ तस्यै सुदुर्लभम् । गावोऽवतीर्णा लोकेऽस्मिंस्तत्प्रभृत्येव पावनाः ॥१९३॥ तदेषा कापि मे देवी सखी पुण्यैः समागता ।कलिङ्गसेना ध्यात्वेति निनाय रजनीं शनैः ॥१९४॥ अथापरेद्युरादाय विचित्रा यन्त्रपुत्रिकाः । सखीं समभ्ययात्तूर्णं सोत्कण्ठा मयपुत्रिका ॥१९५॥ सा बभाषे तया पृष्टा सुताहमसुरप्रभोः । मयस्य मायावैचित्र्यधाम्नः सोमप्रभाभिधा ॥१९६॥ स्वयंप्रभा मे भगिनी सास्ते पातालमन्दिरे । हनूमत्प्रमुखैर्दृष्टा सीतान्वेषगतैः पुरा ॥१९७॥ कुबेरतनयः श्रीमान्भर्ता मे नलकूबरः । यच्छापात्स दशास्योऽपि नाभूत्परवधूविभुः ॥१९८॥ इत्युक्त्वा यन्त्रवैचित्र्यात्सजीवा यन्त्रपुत्रिका । करण्डिकां समुद्धाट्य ददौ सख्यै प्रिया यतः ॥१९९॥ ततो गूढसखीस्क्तां त्यक्ताहारां सुतां नृपः । अस्वस्थां मन्यमानस्तां वैद्यं पप्रच्छ दुःखितः ॥२००॥ वैद्योऽवदद्राजपुत्र्या राजन्व्याधिर्न लक्ष्यते । प्रेमातिहर्षसंपूर्णा नाभिनन्दति भोजनम् ॥२०१॥ ततो विज्ञाय वृत्तान्त दुहितुस्तां च तत्सखीम् । कलिङ्गदत्तो देवी च परां मुदमवापतुः ॥२०२॥ पित्रा विदितवृत्तेन दत्तानुज्ञा च सा तदा । सोमप्रभां सविश्रम्भमियेष प्रकटां सखीम् ॥२०३॥ सा तत्र राजभवने पूजिता तेन भूभुजा । विजहार समं सख्या विहारे तारहारिणी ॥२०४॥ सा यन्त्रपुत्रिकानीतदिव्यकाञ्चनपङ्कजैः । विहारपूजनं चक्रे ततोऽभूद्विस्मितो नृपः ॥२०५॥ अनुज्ञाता ततः पित्रा सहान्तःपुररक्षिभिः । मायायन्त्रविमानेन तां निनाय मयात्मजा ॥२०६॥ नीता स्वयंप्रभां द्रष्टुं ज्येष्ठां स्वभगिनीं तया । पुरं ददर्श वैचित्र्यचित्रकर्मेव वेधसः ॥२०७॥ तत्रापश्यज्जटापुञ्जविराजिवदनां वधूम् । नलिनीमिव शैवालजटालोत्फुल्लपङ्कजाम् ॥२०८॥ स्फाटिकेनाक्षसूत्रेण विराजितकराम्बुजाम् । करप्रस्रुतलावण्यबिन्दुमालाङ्कितामिव ॥२०९॥ उच्छूनकुचपर्यङ्क(न्त)पर्यस्तधवलांशुकाम् । चक्रवाकयुगन्यस्तफेनवेगामिवापगाम् ॥२१०॥ विलोक्य तां राजपुत्रीं प्रणनाम नताननाम् । भ्रस्य(श्य)त्कर्णोत्पलरजोरेखासंवलितस्तनीम् ॥२११॥ स्वयंप्रभा राजपुत्रीं तां विलोक्य सुलोचनाम् । नामभिजनमाक्र्ण्य फलान्यस्यै स्वयं ददौ ॥२१२॥जरानिवारणान्याशु भुक्त्वा तानि फलानि सा । बभूव बाला पीयूषक्षालितेवाधिकद्युतिः ॥२१३॥ ततो विचित्रमुद्यानं दिव्याभिप्रायनिर्मितम् । वापीं च काञ्चनाम्भोजां दृष्ट्वा प्रीतिमवाप सा ॥२१४॥ स्वयंप्रभामथामन्त्र्य सा सोमप्रभया सह । ययौ यन्त्रविमानेन पितुस्तक्षशिलां पुरीम् ॥२१५॥ अन्तःपुरगता तत्र कदाचिदश्रृणोद्वचः । सोमप्रभाया विश्रम्भकथासु मृगलोचना ॥२१६॥ सखि मन्ये यदा कश्चिद्वरस्त्वां परिणेष्यति । तदा नौ सहवासोऽयं ध्रुवं दूरीभविष्यति ॥२१७॥ प्रवेक्ष्यामि कथं स्वैरं सखि भर्तृगृहं तव। जामिश्वश्रूजनायत्तं विषमं भर्तृमन्दिरम् ॥२१८॥ इति स्वयंप्रभासमागमः ॥१०॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP