संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| रत्नदत्ताख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो रत्नदत्ताख्यायिका षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत रत्नदत्ताख्यायिका Translation - भाषांतर प्रथमो गुच्छः । भ्रूलेखाधनुरानतं विचलितो लीलाकटाक्षः शरो हासस्तत्सितपुङ्खपक्षरचना मौर्वी च पक्षच्छविः । क्रेंकारः कलपञ्चमाश्रयिवचो यस्येत्थमासूत्र्यते जैवं तन्त्रमनारतं युवतिभिः कामाय तस्मै नमः ॥१॥ सूर्यप्रभकथां श्रुत्वा वत्सराजः प्रियासखः । पुत्रप्रभावं कलयन्बभूवानन्दनिर्भरः ॥२॥ अत्रान्तरे स्मरं ज्ञात्वा नरवाहनरूपिणम् । अवतीर्णं वराच्छंभोर्भुवं रतिरवातरत् ॥३॥ दयितानुव्रता साथ तपसा पार्वतीवरात् । कान्ता यत्र यथा जाता तदिदानीमिहोच्यते ॥४॥ अस्ति संतोषजननी निर्विकारसुखस्थितिः । वितस्ता मोक्षवीथीव सिद्धसेव्या महानदी ॥५॥ आस्तुषारनिकरस्मरशीकरमारुतैः । पुंसां ( भवन्मरुभ्द्रान्ति )तपापाये च का कथा ॥६॥ तस्यास्तक्षशिला नाम तीरेऽस्ति रुचिरा पुरी । यात्सौधकान्तिभिर्व्योम्नि जायते दिनकौमुदी ॥७॥ तस्यां कलिङ्गदत्तोऽभूद्भूपालो धर्मभूषणः । त्रिजगव्द्यापिनी यस्य पुण्या कीर्तिसरस्वती ॥८॥ शशिप्र्रभापराभिख्यः स विहारशतैर्भुवम् । लोकनाथः प्रविदधे परामिव सुखावतीम् (?) ॥९॥ करुणापूर्णहृदयो नानायुक्तिनिदर्शनैः । संदेशनाभिश्च जनं व्यधात्सुगतभाजनम् ॥१०॥ वितस्तादत्ततनयस्तस्य राज्ञः पुरे वणिक् । बभूव रत्नदत्ताख्यो विमुखो जिनशासने ॥११॥ भिक्षुभ्यः प्रणतं नित्यं दातारं पितरं युवा । सोऽवदद्वेदवाक्यानां धिक्त्वां निपतितं वशे ॥१२॥ जात्याचारविहीनानां दम्भमीलितचक्षुषाम् । भिक्षूणां धूर्तधुर्याणां धीमान्को नाम विश्वसेत् ॥१३॥ इति पुत्रवचः श्रुत्वा दुःखितो नृपतिं ययौ । सन्मार्गे मत्सुतं देव स्थापयेत्यब्रवीद्वचः ॥१४॥ नृपोऽप्याहूय तत्पुत्रं स प्रत्यक्षनिदर्शनैः । लोकलोकोत्तरान्धर्मानुपदेष्टुं प्रचक्रमे ॥१५॥ तदादेशश्रुतिपरो न बभूव वणिक्ततः । भ्रूभङ्गभीषणक्रोधस्तमुवाच महीपतिः । अयं नराधमः क्षिप्रं हन्यतां हन्यतामिति ॥१६॥ ततः स भ्रान्तहृदयो वेपमानः कृताञ्जलिः । भीतः प्रसादयामास जनकस्तस्य भूपतिम् ॥१७॥ तद्वाक्यान्नृपतिस्तस्य चक्रे मासद्वयावधिम् । वधे तद्वासरारम्भमुहूर्तगणनायुषः ॥१८॥ भयाद्विगतनिद्रोऽथ विवर्णो निःसुखः कृशः । मरणं प्रत्यहं द्य्ह्यायन्सोऽकम्पत वणिक्सुतः ॥१९॥ कङ्काल इव निर्मासः सोऽस्थिशेषतया नरः । जाते मासद्वये मेने कृतान्तं शिरसि स्थितम् ॥२०॥ ततो राज्ञा समाहूतो वधायावधिवासरे । दृष्टश्चिन्ताज्वरग्रस्तः स भीतो वणिजः सुतः ॥२१॥ तमाह राजा चकितं कृशोऽसि बत निष्प्रभः । दृश्यसे स्नायुशेषाङ्गो ध्यायन्मरणजं भयम् ॥२२॥ मासद्वयावधेर्भीतो मूर्ख किं परितप्यसे । मरणस्यावधिर्नास्ति मुहूर्तमपि देहिनाम् ॥२३॥ एवंविधं भयं नॄणां सर्वदैवोपपद्यत । को हि निद्रां समायाति मृत्युदन्तान्तरे स्थितः ॥२४॥ ज्ञात्वेति धर्मपन्थानं श्रय दुःखैघशान्तये । धर्म एव प्लवः पुंसां संसारमकराकरे ॥२५॥ श्रुत्वेति वणिजा पृष्टः कथं मुक्तिरिति प्रभुः । प्राह लोकोत्तरं धर्मं वक्ष्यामीति नरेश्वरः ॥२६॥ ततस्तृतीयेऽह्नि पुनर्भूमिपालस्तमभ्यधात् । आदायोत्सवयात्रायां संपूर्णं तैलभाजनम् ॥२७॥ प्रदक्षिणीकुरु पुरीं बिन्दुमात्रमपातयन् । पतेद्यदि ततो बिन्दुर्हन्यसे खङ्गपाणिभिः ॥२८॥ मत्प्रदिष्टैरिति श्रुत्वा पात्रहस्तो ययौ वणिक् ।समुद्यतासिभिर्भीमैः पात्रपातप्रहारिभिः ॥२९॥ तैलभाजनमादाय बभ्राम निखिलां पुरीम् । भ्रान्त्वा नृपान्तिकं प्राप भयादच्युतभाजनः ॥३०॥ हृष्टः प्रोवाच राजानं देवादेशः कृतो मया । न दृष्टं न श्रुतं किंचिदुत्सवेऽस्मिन्महाजने ॥३१॥ ध्यानैकाग्रेण पात्राग्रे न्यस्तं नेत्रद्वयं मया । निशम्येत्यवदद्राजा मोक्षवर्त्मैतदेव यत् ॥३२॥ सर्वतो विनिवृत्तस्य ध्यानैकाग्रे मनोगतः(म्) । इत्याग्रहेण वणिजश्चकारानुग्रहं नृपः ॥३३॥ इति रत्नदत्ताख्यायिका ॥१॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP