पिशाचाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
कलिङ्गदत्ततनया निशम्येति सखीवचः ।
उवाच सत्यमेवैते कृतघ्नाः सखि भूमिपाः ॥१६८॥
शून्याशयाः प्रिया घोरा दुःखसाध्या विकारिणः ।
मित्त्रविद्वेषिणो ज्ञेया पिशाचा इव भीषणाः ॥१६९॥
कथां श्रृणु पिशाचानां राजपुत्रानुकारिणाम् ।
पुरा यज्ञस्थलग्रामे ब्राह्मणोऽल्पधनोऽभवत् ॥१७०॥
कदाचित्स कुठारेण भिन्दन्काष्ठाग्रमक्षमः ।
अपाटयन्निजां जङ्घां तेनाभूत्परमातुरः ॥१७१॥
सर्वोपायपरिक्षीणैः स(त)तत्स्यक्तश्चिकित्सकैः ।
नाडिव्रणार्तो मित्रस्य स वाक्याव्द्यक्तिमाप्तवान् ॥१७२॥
पिशाचं साधयेत्येवं मित्रवाक्यार्थतत्परः ।
अतोषयन्निशि महापिशाचं बलिपुष्पदः ॥१७३॥
ततो वरात्पिशाचस्य तद्दत्तैरौषधिव्रजैः ।
स्वस्थः स्वच्छन्दसंचारो विजहार सुखं द्विजः ॥१७४॥
रूढनाडीव्रणं काले तमुवाच पिशाचकः ।
रोहत्येवं मया दृष्टं द्वितीयं दर्शय व्रणम् ॥१७५॥
अपरं चेद्व्रणं विप्र न मे दर्शयसि स्फुटम् ।
मया क्रोधानलाज्यत्वं नीतो नैव भविष्यसि ॥१७६॥
पिप्शाचवाचं श्रुत्वेति पुनश्चिन्ताग्नितापितः ।
प्रदध्यौ स्वगृहं गत्वा निश्वासग्लपिताधरः ॥१७७॥
ग्रस्त एवास्मि पापेन कुतो नाडिव्रणी जनः ।
इति ध्यायन्स सुतया दृष्टो नष्टधृतिस्मॄतिः ॥१७८॥
दृष्ट्वा विज्ञाय वृत्तान्तं सा चण्डि निखिलं पितुः ।
नाडिव्रणं पिशाचाय दर्शयामीत्यभाषत ॥१७९॥
स पिशाचः समाहूतो हृष्टेनाथ द्विजन्मना ।
विदग्धां विजने प्राप तत्सुतां दुर्ग्रहाकुलः ॥१८०॥
वराङ्गः विवृतं कृत्वा सा पिशाचमभाषत ।
सखे नाडीव्रणस्यास्य संनद्धो भव रोहणे ॥१८१॥
इति श्रुत्वा पिशाचोऽसौ मुग्धस्तद्वचनं मृदु ।
यत्नाहृतौषधव्रातैस्तत्परः कृशतां ययौ ॥१८२॥
प्रभवन्ति यतो लोकाः प्रलयं यान्ति येन च ।
संसारचक्रं विभ्रान्तः कः पिधातुं तदीश्वरः ॥१८३॥
ततः पिशाचः सविग्नश्चिरात्कुण्ठक्रियाक्रमः ।
भयात्पलाय्य प्रययौ गर्हयन्निजदुर्ग्रहम् ॥१८४॥
इत्येवं दुर्ग्रहात्मानः पिशाचा राजयोनयः ।
सदा कलुषचित्ताश्च राजपुत्रास्ततोऽधिकाः ॥१८५॥
मुहूर्तबद्धसौहार्दा विलज्जा बहु सेविताः ।
लुब्धा नृपाश्च वेशाश्च दूरस्था एव शोभनाः ॥१८६॥
इति पिशाचाख्यायिका ॥९॥
N/A
References : N/A
Last Updated : October 11, 2017
TOP