संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| हरिशर्माख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो हरिशर्माख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत हरिशर्माख्यायिका Translation - भाषांतर कलिङ्गसेनतनया निशम्येति सखीवचः । सतीचरितमाश्चर्यं प्रदध्यौ मनसा सती ॥२६४॥ ततोऽह्नि तनुतां याते वयस्यां गन्तुमुद्यताम् । कलिङ्गसेना प्रोवाच सखि दर्शय मे निजम् ॥२६५॥ सुतं धनाधिनाथस्य भर्तारं नलकूबरम् । इति सोमप्रभा श्रुत्वा राजपुत्रीमभाषत ॥२६६॥ त्वं यौवनवती कान्ता स युवास्ति विश्रृङ्खलः । परस्परविरुद्धं हि दर्शनं तव तस्य च ॥२६७॥इर्ष्याकोषेन नौ तत्र सौहार्दं नङ्क्ष्यति ध्रुवम् । नदीकूलद्रुमस्येव स्नेहस्ते नो विपत्तये ॥२६८॥ उक्त्वेति प्रययौ दिक्षु तन्वाना कान्तिकौमुदीम् । हर्म्ये कलिङ्गसेना च तस्थौ व्योमावलोकिनी ॥२६९॥ ततो यदृच्छयायातो विद्याधरधराधिपः । युवा मन्दरवेगाख्यस्तां ददर्श नभोगतिः ॥२७०॥ तां वीक्ष्य स्मरसौन्दर्यविभ्रमाणां समागम म् । अमृताहरणे शौरेः शिष्यां कान्ताकृतामिव ॥२७१॥सोऽभवन्मन्मथशरासारजर्जरितस्मृतिः । तया दृष्टिविषेणेव भुजङ्ग्या मुहुरर्दितः ॥२७२॥ स धैर्यं क्षिप्रमास्थाय कथं विद्याधरस्य मे । मानुषी मोहयेच्चित्तमिति ध्यानपरोऽभवत् ॥२७३॥ ततो विवेद प्रज्ञप्तिविद्यया गुलिकाधरः । स तामप्सरसः शापादवतीर्णां शतक्रतोः ॥२७४॥ कृत्वेति तद्व्रतमना कालंजरगिरौ निजाम् । राजधानीं समभेत्य तस्थौ सुखपराङ्मुखः ॥२७५॥ स हेमकदलीकुञ्जे किन्नरीगीतनादिनि । तां राजतनयां ध्यायन लेभे तत्र निर्वृतिम् ॥२७६॥ चिन्तयंस्तन्मुखाम्भोजं भेजे नान्तःपुरे रतिम् । मन्दारमालामालोक्य मालत्यां को हि सादरः ॥२७७॥ रावणस्येव तस्याभूच्छापः स्त्रीहरेण बलात् । यन्त्रितस्तेन सहसा कर्तुं तां नाकरोन्मतिम् ॥२७८॥ सोऽभवद्विरहायासपाण्डुरः खण्डिताशयः । पौर्णमासीविरहितः शशीव क्षामविग्रहः ॥२७९॥ किं विद्याधरराज्येन कान्तारसदृशेन मे । यत्र नेत्रामृतं कान्ता न सा कण्ठावलम्बिनी ॥२८०॥ तपसा वरदं देवमाराध्य गिरिजापतिम् । ध्रुवं कान्तामवाप्स्यामि तामायाविलोचनाम् ॥२८१॥ अनुकूलः सुहृद्दानमानिताश्रीः सितं यशः । मनोरमा च दयिता नातुष्टे पार्वतीपतौ ॥२८२॥ इति ध्यात्वा हरं देवं त्र्यम्बकं तपसे ययौ । संकल्पकल्पविटपी कस्य नाम न शंकरः ॥२८३॥ अथ तस्य गिरेः श्रृङ्गे तपसा तस्य धूर्जटिः । तुष्टः प्रोवाच तं कन्यां तामवाप्स्यसि युक्तितः ॥२८४॥ कलिङ्गसेनतनया वत्सराजं स्वयंवरे । यावन्नैति पुरं गत्वा तद्रूपेण त्वमाप्नुहि ॥२८५॥ इत्यवाप्य वरं शंभोर्विद्याधरपतिर्ययौ । तत्संगमाशया क्षिप्रं सुधयेव परिप्लुतः ॥२८६॥ अत्रान्तरे नृपतयस्तनयां रूपशालिनीम् । कलिङ्गदत्तं नृपतिं दूतैः सर्वे ययाचिरे ॥२८७॥ ततो विचार्य नृपतिः कुलाचारगुणैर्नृपान् । अमन्यत वरं योग्यं पुत्र्याः सेनाजितं नृपम् ॥२८८॥ रहः कलिङ्गसेनाथ प्राह सोमप्रभां सखीम् । श्येनजिन्नाम भूपालः पितुर्मेऽभिमतो वरः ॥२८९॥ मयपुत्री निशम्येति प्राह साश्रुविलोचना । अहो नु दग्धविधिना न योग्यः संगमः कृतः ॥२९०॥ त्रैलोक्यसुन्दरीः सुभ्रूः प्रवयास्त्वथ पार्थिवः । मधुपोऽर्हति न प्रष्टुं बालां कल्पलतामिव ॥२९१॥ वत्सेशोदयनो नाम कौशाम्ब्यामस्ति भूपतिः । स ते समुचितः कान्तवरो गौर्या इवेश्वरः ॥२९२॥तस्य वासवदत्तास्ति दयिता रूपशालिनी । सा लेभे तनयं तस्माद्भावि विद्याधरेश्वरम् ॥२९३॥ इत्युक्ता वत्सराजस्य वंशवृत्तान्तविक्रमान् । निवेद्य निखिलं सख्यै पुनराह नृपात्मजाम् ॥२९४॥ त्वां वीक्ष्य व त्सराजोऽसौ ध्रुवं तां त्यक्ष्यति प्रियाम् । कमलाकमलं दृष्ट्वा नान्यदब्जं स्पृशत्यलिः ॥२९५॥ उषाया चित्रलेखासौ बाणपुत्र्या यथा पुरा । प्रद्युम्नि संगमं चक्रे करिष्यामि तथाद्य ते ॥२९६॥ इत्याकर्ण्य सखीवाक्यं राजपुत्री जगाद ताम् । अन्याभिः सखि भूपालः कान्ताभिः स निषेव्यते ॥२९७॥ महासेनसुतासक्तो दुर्लभोऽन्यजनस्य तु । अकामकामाः कामिन्यः सखि गच्छन्ति हास्यताम् ॥२९८॥राजपुत्र्या निशम्येति प्राह सोमप्रभा पुनः । यत्नमत्र विधास्यामि दैवायत्तास्तु सिद्धयः ॥२९९॥ स्वयं श्येनजितं पूर्वं वीक्ष्यगौडमहीपतिम् । सत्प्रभावोदितारातिः प्रेक्षस्वोदयने पुनः ॥३००॥ लावण्यस्यास्य ते सुभ्रु सौभाग्यस्य कुलस्य च । ध्रुवं समुचितं सर्वं चन्द्रचूडः करिष्यति ॥३०१॥ राज्ञो विक्रमसेनस्य सुता तेजोवती पुरा । कंचिद्युवानमालोक्य बभूव स्मरतापिता ॥३०२॥ सख्या देवगृहे तेन कृत्वा संगमसंविदम् । निर्ययौ राजपुत्री सा स्तोकमूकविभूषणा ॥३०३॥ अत्रान्तरे राजपुत्रः स गोत्रवलभीं पुनः । राजसंश्रयकामस्तद्देवायतनमभ्यगात् ॥३०४॥ अवाप तत्र तां दैवात्स राजतनयं युवा । अधन्यैराहृतं नाम कल्याणीभिरवाप्यते ॥३०५॥ सा तमासाद्य दयितं तोषमध्यधिकं ययौ । भृङ्गी चम्पककामेव पारिजातसमागता ॥३०६॥ तत्संभोगसुधासिक्तः स राजानमवाप्य तम् । प्रातः समुचितां पूजां प्रपेदे गूढकामुकः ॥३०७॥ सुतां समुचितां दातुं तस्मै रतिरभूद्दृढा । कन्यावृतं च तत्सर्वं विवेद नृपतिः शनैः ॥३०८॥ तद्विज्ञाय क्षितिपतिर्निजामात्यानभाषत । सोमदत्ताय कन्येयं मनसा कल्पिता मया ॥३०९॥ स्वयं गान्धर्वविधिना पूर्वमेव वृतोऽनया । विधिरेव समाधानं यातं सदृशसिद्धये ॥३१०॥ राज्ञः श्रुत्वेति वचनं प्रत्यभाषन्त मन्त्रिणः । दिष्ट्या सदृशयोगेन योच्येयं न तवात्मजा ॥३११॥ स्वयं वृतोऽनया श्रीमान्राजपुत्रः कुलोचितः । देव दैवेन लिखितं प्रमार्ष्टुं कस्य कः क्षमः ॥३१२॥ हरिशर्मा पुरा विप्रो दारिद्र्याद्दासतां गतः । कुटुम्बिनो धनवतः सभार्यः सहपुत्रकः ॥३१३॥ गृहे कुटुम्बिनस्तस्य वैवाहितकमोत्सवे । भक्ष्ये भोज्ये प्रविस्तीर्णे स न््द स्पृहाकुलः ॥३१४॥ दिनान्ते भोजनव्यग्रे सर्वस्मिञ्जनमण्डले । विस्मृतः क्षुत्परिक्षामः प्रदध्यौ दुःखितः क्षणम् ॥३१५॥ अवमानावधूतस्य दारिद्र्योपरतत्विषः । कथमादरमाधत्ते प्रसिद्धशरणो जनः ॥३१६॥ अहो विद्याविहीनोऽयं निर्ह्दनः शोच्यतां गतः । दीपपात्रमिवादीपालोकं दग्धदशाश्रयात् ॥३१७॥ क्षणं स चिन्तयित्वेति निजजायामभाषत । विस्मृतं पश्य मां दीनमस्मिन्नुत्सवभोजने ॥३१८॥ इति दूरतरं नीत्वा जनस्येवास्य घोटकम् । छन्नं स्थापय विज्ञानी भविष्यामि तमर्पयन् ॥३१९॥ कूटज्ञानी हयप्रपत्या प्रसिद्धिं परमां गतः । भावमानमवाप्स्यामि कल्पवल्ली हि धूर्तता ॥३२०॥ इति भर्तृवचः श्रुत्वा नीत्वा सा तुरगं निशि । बबन्ध विजने धीरा जने मधुविमोहिते ॥३२१॥ हारितोऽश्व इति प्रातर्जने कोलाहलाकुले । ब्राह्मणी प्राह भर्ता मे हरिशर्मा प्रणष्टवित् ॥३२२॥ ततः कुटुम्बिनाभ्येत्य प्रार्थितः प्राह स द्विजः । कृतकग्रहविज्ञानात्स्वाङ्गुलीगणनापरः ॥३२३॥ नातिदूरे स्थितः सोऽश्वश्चौरैर्विरहितो वने । इति तद्वचसा लब्धे हये ख्यातो बभूव सः ॥३२४॥ ततः कदाचिद्द्रविणे हरिते राजवेश्मनि । प्रसिद्धः स समाहूतो मूर्खोऽस्मीति भयाकुलः ॥३२५॥ प्रावर्तक्तास्मि संचिन्त्य समाभाश्येति भूपतिम् । निर्जने मन्दिरं तस्थौ स विप्रो ध्याननिश्चलः ॥३२६॥ अत्रान्तरे नरपतेर्जिह्वाख्या गर्भवाटिकाम् । तच्चौरी शङ्किता गत्वा तमपश्यदलक्षिता ॥३२७॥ सोऽपि दुःखाकुलः प्राह राजभीत्या वृथा मतिः । धिग्जिह्वे त्वां यया प्राणसंशयः स्वयमाहृतः ॥३२८॥ निजजिह्वामिति मुहुस्तस्य भर्त्सयतो वचः । श्रुत्वा सा चेटिका तूर्णं पादयोरततद्भयात् ॥३२९॥ विज्ञाता भवता पापा साहं जिह्वैव तस्करी । इत्युक्तवाक्यतो ज्ञात्वा स दम्भमधिकं व्यधात् ॥३३०॥ ततो राजानमभ्येत्य कृतकज्ञानगर्वितः । मुहुरावलितैकभ्रूर्दृश्टाङ्गुलितलो मुहुः । चकार प्रकटं सर्वं धनं राज्ञाथ पूजितः ॥३३१॥ ख्यातिपूजासमुन्नद्धे तस्मिन्नभ्येत्य मन्त्रिणः । धूर्तोऽय चौरसंकेती मूर्ख इत्यूचिरे नृपम् ॥३३२॥ राजाथ तत्परीक्षायै मण्डूकं पिहिते घटे । निधायास्मिन्किमस्तीति प्राह तं मन्त्रिसंसदि ॥३३३॥ पुनः स दुःखितश्चिन्ताध्याननिश्चललोचनः । हा मण्डूक हतोऽसीति जगादोच्चैर्भयाहतः ॥३३४॥ मण्डूकेत्यभिधा तस्य बाल्ये मात्रा कृताभवत् । ज्ञातं ज्ञातमिति प्राहुर्जनास्तं विस्मयाकुलः ॥३३५॥ ततो नरपतिस्मस्मै यथेष्टं विभवं ददौ । इत्येवं दैवविहितं स्वयं भवति सिद्धये ॥३३६॥ इति हरिशर्माख्यायिका ॥१२॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP