मनःप्रार्थनाष्टकम्
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
( सारंगवृत्तम् )
कामेन मूढः स्वकामेक्षणोत्कोऽत्र कामेतिनार्तिं न धामेह मोदाय
मा मे मनो ! वाचमामेति मन्यस्व रामे त्रिलोकीललामे रमस्वाशु. ॥१॥
सव्यं करं यस्य भव्यं श्रितं धन्वदक्षे द्विषन्नाशदक्षेषुयुग्मं च
क्षत्रेश्वरं पद्मपत्रेक्षणं राममेकं जभ स्वांत ! के कं परार्थाय. ॥२॥
धामात्मजद्रव्यरामादिकं चित्त ! कामामयायैव मा मा श्वसिह्यत्र
क्ष्मामावरात्त्वं सतामाश्रयाद्धंत रामादृते यासि कामात्मसिद्धिं नु. ॥३॥
लंकावरारिं कलंकापहं भूम्यलंकारमिच्छाबलं कामदं चित्त !
साकेतपं हेतुना केन नो यासि नाकेऽपि नम्रा मुदा केन तं हंत. ॥४॥
ये वासवेशादिदेवा भजंत्येनमेवाधिपं पादसेवारताः साधु
सीताधवं दत्तभीताभयं चित्तवीताऽगुणं मेदिनीतारकं प्रैहि. ॥५॥
पापक्षयेऽहं स्वतापघ्रमीशानमापद्मजाधारमापद्धरं मंक्षु
शोकापहं सर्वलोकाधिपं याहि भो का वदांबा न तोकासुखं हंति. ॥६॥
कर्तास्य विश्वस्य भर्तापि चांते स हर्ता श्रियः प्राणभर्ता शृनु स्वांत !
माता पिता सैव दाताविता को नु धाता परोऽस्माद्विधातायमेवांग ! ॥७॥
श्रुत्या पदं यस्य नुत्या वृतं यः प्रकृत्या मृदुः साधकृत्याश्रयश्चित्त !
व्यासादिभिः सद्भिरासादितं सर्वदासाप्त ! मे ह्यप्रयासाय मोदाय. ॥८॥
इति मयूरकृतं मनःप्रार्थनाष्टकम् ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP