संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|संस्कृतकाव्यानि| श्रीकाशीक्षेत्रस्थप्रार्थना संस्कृतकाव्यानि मंत्ररामायणम् महत्वाचे अनुक्रमणी रामनामाष्टोत्तरशतरामायणम् रामस्तुतिः रामनाममहिमा प्रथमम् द्वितीयम् रामप्रार्थना अम्लानपंकजमालाबंधपंचकम् मुक्तामाला श्रीकृष्णस्तवनम् रामकृष्णस्तुतिः प्रथमम् द्वितीयम् तृतीयम् चतुर्थम् पंचमम् शंकरस्तोत्रम् हरिहरप्रार्थना श्रीकाशीक्षेत्रस्थप्रार्थना गंगाविज्ञप्तिः मनःप्रार्थनाष्टकम् दशमस्कंधमुख्यार्तगीतिः पद्यानि १ पद्यानि २ पद्यानि ३ पद्यानि ४ पद्यानि ५ गणेशार्तिक्यम् जगदंबार्तिक्यम् श्रीकृष्णार्तिक्यम् शिवार्तिक्यम् दिनकरार्तिक्यम् नृसिंहार्तिक्यम् श्रीरामचंद्रार्तिक्यम् श्रीविठ्ठलार्तिक्यम् श्रीदत्तार्तिक्यम् शिवार्तिक्यम् शिवार्याशतकम् शिवाष्टोत्तरशतनामावलिः श्रीराधानामावलिः श्रीकृष्णनामावलिः पद्यपरिशिष्टम् स्फुटश्लोकाः श्रीकाशीक्षेत्रस्थप्रार्थना महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’ Tags : mayurramramayanमयूररामरामायणसंस्कृत श्रीकाशीक्षेत्रस्थप्रार्थना Translation - भाषांतर विश्वेश्वर महादेव देवदेव दयानिधे ! दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥१॥अन्नपूर्णे जगन्मातः कृपाम्रुततरंगिणि ! दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥२॥बिंदुमाधव विष्णो त्वं करुणावरुणालयःदैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥३॥कालभैरव देव त्वं ममासि कुलदैवतम्दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥४॥त्रिलोचन दयासिंधो शरणागतवतसल ! दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥५॥वीरेश्वर त्रिलोकेश प्रणतानां सुरद्रुम दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥६॥श्रीगंगे करुणामूर्ते भागीरथि नमोस्तु तेदैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥७॥काशीनिवासिनो देवा भदद्भ्योस्तु नमो नमः कुरुध्वं करुणां दीने मयि स्वशरणागते, ॥८॥विश्वेश्वरप्रिये काशि राशिस्त्वं यशसा मुदाम्दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥९॥ये वेदशास्त्रतत्वज्ञा विप्राः काशीनिवासिनः धन्याः संन्यासिनः शांतास्तेभ्यो मेऽस्तु नमो नमः. ॥१०॥कीर्तयन्ति हरिं प्रेम्णा हरं चाभेददर्शिनः भक्ताः पुण्यकथासक्ता नमस्तेभ्योस्तु सर्वदा. ॥११॥भागीरथीस्नाननिष्ठा ये पुमांसः स्त्रियश्च याः तेभ्यस्ताभ्यश्च साधुभ्यः साध्वीभ्योस्तु नमो नमः ॥१२॥शिवप्रसादभाजस्ते जीवाः काशीनिवासिनः पशवः पक्षिणः सर्वे तेभ्यो नित्यं नमो नमः ॥१३॥प्राणिनो ये वसंत्यत्र अपि कीटाः पिपीलिकाः नमोस्तु तेभ्यो यत्पात्रं महेशानुग्रहस्य ते ॥१४॥काश्यां ये जंगमाः सन्ति प्राणिनो येऽप्यजंगमाः नमोस्तु तेभ्यो मुक्तेभ्यो महेशितुरनुग्रहात्. ॥१५॥काश्यां वसंति ये केचित्पिशाचा ब्रह्मराक्षसाः तेभ्यो नमोस्तु सर्वेभ्यः शवेभ्योपि नमो नमः. ॥१६॥गंगायां यानि यादांसि बकाः काकाश्च ये तटे नमोस्तेभ्योऽतिपुण्येभ्यो भेकेभ्योऽस्तु नमो नमः. ॥१७॥अविमुक्तेश्वरस्वामिन्नहं त्वां शरणं गतः देहि मे मरणं काश्यां वरमन्यं न कामये. ॥१८॥वक्रतुंड गणेशान प्रत्यूहप्रशमाभिध पाहि मां प्रणतं दीनं ब्राह्मणं शरणागतम्. ॥१९॥वरुणे पाहि मां मातस्त्वमसि प्रतिपालय मंदाकिनि नमस्तुभ्यं नमस्ते मणिकर्णिके. ॥२०॥नमामि करुणासिंधो तुभ्यं साक्षिविनायक मां तारय भवांभोधौ प्रणतं शरणागतम्. ॥२१॥इति काशीक्षेत्रस्थप्रार्थना । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP