पांडुरंगस्तोत्रम् - चतुर्थम्
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
( स्रग्धरावृत्तम् )
श्रीजाने ! पांडुरंग ! त्वमिह कलियुगे दर्शनात्पासि पापा -
नित्याख्यातं दयार्द्रैः सुमतिभिरसकृत्त्वज्जनैः सत्यसंधैः,
तत्सत्यं मन्यमानोऽहमपि तव विभो ! ऽपश्यमेवांग्र्हिपद्मं
निष्पापोऽस्मीति मन्ये, तदपि खलु कुतोऽद्यापि नो तापशांतिः ? ॥१॥
वैराग्यः नो न भक्तिर्न च परिचरणं सज्जनानां बतास्मा -
द्धेतोस्तापोपशांतिर्भ मम यदि विभो ! सत्यमंगीकृतं मे;
को ब्रूयात्साक्षिणस्ते पुर इह वितथं देव ! किंत्वत्र किंचित्
पृच्छासि त्वां नमस्यन्ननु कलुषहते तानि किं संति पूर्वम् ॥२॥
नाम्नो माहात्म्यतस्ते बहव इह कलौ विठ्ठल ! प्रापुरग्र्यां
शांतिं भक्तिं विरक्तिं गतिमभिलषितां योगिभिर्नारदाद्यैः,
तत्ते नाम श्रुतं मेऽसकृदपि च विभो ! गीतमुच्चैस्त्वदीयै -
र्हा कष्टं नष्टमद्याप्यतिगुरु न कथं जालमाः संशयानाम् ? ॥३॥
त्वं तु स्वामिन् ! स एव स्वयमसि तमसि स्वाश्रितानां प्रदीप -
स्त्राता योंऽतेवसायिप्रभृतिमलधियां कीर्तनादेव नाम्नाम्,
विप्रेष्वत्यादरस्तेऽवसि यदि शरणं तान्स्वपादाब्जमाप्तान्
किं चित्रं विठ्ठलायं द्विजकुलज इति त्राहि मां दीनमद्य. ॥४॥
पापोऽहं पापकर्मेति च सततमहं स्नानकाले ब्रवीमि,
कृत्वा पापं कथं मे कृतमिति बहुशश्चापि तप्तो भवामि ?
स्वामिन् ! रक्ष क्षमस्वेत्थसकृदपि विभो ! प्रार्थनां ते करोमि,
ब्रूह्यन्यत्किं करोमि प्रभुवर ! ? चरणौ तेऽर्तिशांत्यै स्मरामि. ॥५॥
दीनोऽहं दीनबंधुस्त्वमहमघनिधिः पावनस्त्वं प्रसिद्धो
भीतोऽहं कालदंडाच्छरणमुपगतस्त्वामसि त्वं शरण्यः
दाता त्वं सद्वराणां वरदगुरुरहं याचकस्त्वं दयावा.
नार्तोऽहं त्वं क्षमावानहमपि विनतः पादयोः सापराधः. ॥६॥
मां कामक्रोधलोभादिभिररिभिररं चेतसा मोहितेन
ग्रस्तं किं नाथ ! दुष्टोऽयमिति परवशं मन्यसे मे न दोषः ?
यातो दैवेन दीनः प्रबलखलवशं निर्दयैः पीडयमान -
स्त्वां स्मर्तुं नालमन्यत्किमथ कथय ते कोऽत्र सेवावकाशः ? ॥७॥
साक्षी पश्यस्यपि त्वं स्वयमनयकृतोऽरीन्षडुग्रान्समर्थो
हुंकारेणापि दुष्टानसि भुवनपते ! भस्मसात्कर्तुमेतान्,
हुंकारेणालमात्मा प्रभुवर ! भवतो मास्त्विहायासपात्रं
दृष्ट्या किं न स्युरेते भसितमयि विभो ! मय्युपेक्षैव नूनम् ? ॥८॥
दीनोपेक्षां न कर्ता त्वमहमिति विभो ! वेद्मि तत्तोक्तमर्त्या
मर्त्यानां देवतानामपि खलु न हि भो त्वां विनान्योऽवितास्ति.
श्रांतः प्राप्तोऽसि निद्रां ननु किमयि विभो ! तिष्ठतापीष्टकायां
लोकैरालिंगितेनाप्यविरतमपि सा सेव्यते चित्रमेतत्. ॥९॥
भो नाथ ! प्राकृतोऽपि प्रभुरिह भवति त्यक्तनिद्रः कुटुंबी
पंचानां पालकोऽपि क्षणमपि न मनाग्जातु निद्रात्यचिंतः,
त्वं त्वेकश्चासहायोऽपि च खलु जगतां साधुभर्ता पुराणो
निद्रामासेवसे चेत्कथयतु भगवान्का गतिंर्विष्टपस्य ? ॥१०॥
योगीशोऽस्वप्ननाथः कथमवनविधावेकदक्षः कथं वा
यन्निद्रालुत्वमेवं सति मतिमति न त्वय्यदः किं यशोघ्नम् ?
कालाद्दस्योः सुलुब्धादलमपहरतो मोचयेत्कः समर्थ -
स्त्वत्तोऽन्यो दीनदासद्रविणनिधिमिमं मां द्रुतं जागृहीश ! ॥११॥
नेयं निद्रा यदि स्याद्भगवति जगतां भर्तरि त्वय्यपीशे
गुप्ते कृत्स्नापि जीवव्यवहृतिरनिशं किं यथापूर्वमास्ते ?
न ह्यस्तं तिग्मरश्मावचलमुपगते भासके भव्यभासि
लोके दृष्टा श्रुता वा मृगजलतटिनी तत्र चैषां प्रवृत्तिः. ॥१२॥
नो निद्रा नो समाधिः क्कचिदपि न च ते यातमन्यत्र चित्तं
नूनं रोषः सदोषे मयि तव भगवन् ! विद्यते तेन मौनम्,
नैवैतत्तर्कितं मे सुमतिमतमये प्राकृतोऽपि प्रभुर्यत्
सद्यः क्रोधं जहाति प्रणतिमति कृतागस्यरातावपीश ! ॥१३॥
शंके रंके मयि त्वं प्रभुवर कुरुषे कंचनामुं विनोदं
किं वक्तायं कविर्मामिति कुतुकितया श्रोतुकामो वचो मे,
नो चेदुच्चैः कृपालुः कथमियदणुतोऽप्यूनमद्यापि कार्यं
कर्तुं कर्ता विलंबं न हि गिरिधर ! ते स्यात्तृणस्यातिभारः. ॥१४॥
ग्रस्तोऽस्म्याकंठमुग्रप्रकृतिमनसिजेनाहिना बालभेकः
पाह्यस्मात्त्वं त्वदन्यो ननु दृशमकरोत्सानुकंपामिभे कः ?
स्तोत्रं चेच्छ्रोतुकामोऽस्ययि मयि विकले बालिशे सेवके कां
शक्तिं पश्यस्यदृष्ट्वा घनमपि कुरुते किं शिखी देव ! केकाम् ? ॥१५॥
त्वं चेदद्य प्रसादं ध्रुव इव कुरुषे देव ! बाले मयीह
स्तोतुं स्यामेव कामं निपुणतरकविः श्राव्यभव्यप्रबंधः,
कः स्तोता तात ! जातस्तव जगति विनानुग्रहाद्विप्रदेवे -
ष्वन्येष्वप्यब्जयोनिः प्रभुरपि भवतोऽनुग्रहादेव सुज्ञः ॥१६॥
मह्यं देहि प्रभो ! स्वस्तवकवनवरं स्वस्य च प्रीतिहेतुं
यत्त्वं स्तुत्यातितुष्टो हृदि भवसि तथा नान्यसत्कारकोठ्या,
नुत्या नुत्या च तज्ज्ञैरजित ! न विजितः कैर्भवान्पाददासै -
राप्तैराप्तो न मोदं प्रभुतिलक ! यथा भक्तवृदैरसंगैः ? ॥१७॥
आरब्धासु त्वदंघ्रिस्तुतिषु सुरधुनीवीचिमालामलासु
प्रादुर्भूते पुरस्ते नवमुदिरघटागर्वसर्वंकषेंऽगे
भावैरालिंगितोऽहं सखिभिरिव समं सात्विकरुत्सवोत्कै -
र्युक्तो मुक्तोक्तिनत्या दर इव च जनौ त्वां वदास्यां कदा स्याम् ? ॥१८॥
श्रीमत्या भीमरथ्यास्तटभुवि भवता तिष्ठता विष्टपेश !
स्वामिन् ! सौभाग्यमस्या गमितमतिनुतिं स्वर्धुनीभाग्यतोऽपि,
पाथःस्पर्शादपंकामलमियमवनीमेव नो चंद्रभागा
कर्तुं कीर्त्या त्रिलोकीमपि च विजयते तीर्थपादप्रिया ते. ॥१९॥
देवास्तीर्थानि संतः खलु सततमपि स्नातुमायांति हर्षा -
दित्थं साधूक्तमेव श्रुतमसकृददो देव ! दासेन ते मे;
तस्मादस्माकमेषा सकलमलधियां नाथ ! मातेव सद्यः
पंकप्रक्षालनेन प्रियमुचितमरं किं न कुर्याद्द्रयार्द्रा ? ॥२०॥
भो श्रीमन्विठ्ठल ! श्रीपतिमतिथिरहं त्वामुपेतोऽस्मि. किं मां
सत्कार्यं नाद्रियंते बत भवदनुगाः साधवः सद्विचाराः ?
ब्रह्मण्यxx तु लक्ष्म्या वससि दयितया नित्यमंतःपुरे हा !
कष्टं ! नष्टं व्रतं ते. मम च पदफलप्रार्थ्नः सन्निवृत्तः. ॥२१॥
भो ब्रह्मन् ! पुंडरीक ! द्विजवर ! भवतः स्वास्थ्यमभ्येतु चित्तं
‘ दीनांस्तापत्रयार्तान् शरणमुपगतानुद्धरिष्येऽहमाशु ’
इत्येवं सुप्रसिद्धं सुरमुनिसविधं यत्प्रतिज्ञातमग्रे
तत्सत्यं सत्यसंधस्त्वमिह कलियुगे कर्वधारे ! नमस्ते. ॥२२॥
दुःखाब्धेरुद्धृतानां प्रभुवर ! भवता मादृशानां जनाना -
माकंठं तर्पितानामलममृतरसेनोत्तमेनादरेण,
आशीर्भिः पुष्कलाभिर्जगति नृपसुरैरप्यरं दुर्लभाभिः
प्राप्तं पूर्वं यशस्ते परममिह पुनः प्राज्यमप्यामुहीश ! ॥२३॥
दीनानां दैन्यनाशात्समुपगतमुदामाननादादरेण
प्रोद्भूता आशिषस्त्वां पतिमभिवृणते कांतमेकं वरेण्यम्.
दंड्यो दुष्टोऽस्मि यद्यप्यहमुचिततरा मे गृहीतुं कुबुद्धे -
राशीराशीविषस्यार्पितमणिरिव ते स्यात्प्रभो भूषणाय. ॥२४॥
इति श्रीरामनंदनमयूरेश्वरकृतं पांडुरंगस्तोत्रं समाप्तं तच्चरणयोरर्पितं च ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP