संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| द्वितीयम् संस्कृतकाव्यानि मंत्ररामायणम् महत्वाचे अनुक्रमणी रामनामाष्टोत्तरशतरामायणम् रामस्तुतिः रामनाममहिमा प्रथमम् द्वितीयम् रामप्रार्थना अम्लानपंकजमालाबंधपंचकम् मुक्तामाला श्रीकृष्णस्तवनम् रामकृष्णस्तुतिः प्रथमम् द्वितीयम् तृतीयम् चतुर्थम् पंचमम् शंकरस्तोत्रम् हरिहरप्रार्थना श्रीकाशीक्षेत्रस्थप्रार्थना गंगाविज्ञप्तिः मनःप्रार्थनाष्टकम् दशमस्कंधमुख्यार्तगीतिः पद्यानि १ पद्यानि २ पद्यानि ३ पद्यानि ४ पद्यानि ५ गणेशार्तिक्यम् जगदंबार्तिक्यम् श्रीकृष्णार्तिक्यम् शिवार्तिक्यम् दिनकरार्तिक्यम् नृसिंहार्तिक्यम् श्रीरामचंद्रार्तिक्यम् श्रीविठ्ठलार्तिक्यम् श्रीदत्तार्तिक्यम् शिवार्तिक्यम् शिवार्याशतकम् शिवाष्टोत्तरशतनामावलिः श्रीराधानामावलिः श्रीकृष्णनामावलिः पद्यपरिशिष्टम् स्फुटश्लोकाः रामाष्टकम् - द्वितीयम् महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’ Tags : mayurramramayanमयूररामरामायणसंस्कृत द्वितीयम् Translation - भाषांतर ( पुष्पिताग्रावृत्तम् )नवजलधरनीलमीड्यमेकं कलिमलनाशनकीर्तनं सुभद्रम्प्रथमपरमुनींद्रगीतकीर्तिं दशरथनंदनमीश्वरं नमामि. ॥१॥जलरुहदललोचनं प्रशांतं पतितजनावनदक्षमीशितारम् विपदघगिरिवज्रसारपादांबुजरजसं रघुनायकं नभामि. ॥२॥भजदखिलजनैककामकल्पद्रुमममलामितसद्गुणामृताब्धिम् शिवहृदयनिवासमादिदेवं दशमुखकालमनंतमाश्रयामि. ॥३॥सकरुणमवने रतं निजानामुरुभुजविक्रमनिर्जितारिदर्पम् मुनिजननुतनीतिवर्त्मनिष्ठं परमपदप्रदमंतराश्रयेऽहम् ॥४॥शरधिशरशरासनासिवल्लीधरमरिकाननदावमुग्रवीर्यम् शरणदचरणं रणप्रचंडं विधिमुखमार्गितमुक्तिवर्त्म वंदे. ॥५॥शुचिमुचितचरित्रमंचितांघ्रिं चतुरचकोरकचंद्रमिंद्रनाथम् अचलमृचि गतं चराचरेशं चिरतरमच्युतमीशमानतोऽस्मि. ॥६॥पवनसुतरथं ककुत्स्थनाथं विमलकथं चतुरास्यगीतगाथम् कुशिकमुनिवशं नृपालवेषं प्रशमिततापमपास्तपापमीडे. ॥७॥सुखकरमुरगेंद्रशय्यमार्यं वरदमुरुक्रममाश्रितामरद्रुम् द्रुहिणगुरुमुदारमद्वितीयं नुम उदरीकृतदीनमब्जनाथम्. ॥८॥श्रीरामाष्टकम् । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP