पांडुरंगस्तोत्रम् - द्वितीयम्
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
( पज्झटिकावृत्तम् )
बालदिगंबर एको धूर्तः स्वांतहरो मनुरेव स मूर्तः,
भीमरथीसरितस्तट आस्ते लोकाः स्ववशं नीता आस्ते. ॥१॥
सर्वस्वस्य करोत्यपहारं तदपि वदंति जनास्तमुदारम्,
द्रष्टुं यांति च वारंवारं प्रेम्णा श्लिष्यंत्यपि चमुदारम्. ॥२॥
श्लिष्यंत्येनं सुदृढं योषाः स्वामिसमक्षमचिंतितदोषाः,
चित्रमिदं विगतेर्ष्यारोषाः सर्वेऽपि भवंत्येव सतोषाः. ॥३॥
यस्य पुरः स्वजनेऽप्यनुकालं विवशा आपंडितमाबालम्
गायंत्युच्चैः कृतकरतालं नृत्यंति च विहसंति बतालम्. ॥४॥
यं दृष्ट्वैव सकृत्खलु देहं सधनतनयदयितं निजगेहम्
स्मरति न हृदयं त्यक्तस्नेहं वशिनं मन्ये तमसंदेहम्. ॥५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP