संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| रामनाममहिमा संस्कृतकाव्यानि मंत्ररामायणम् महत्वाचे अनुक्रमणी रामनामाष्टोत्तरशतरामायणम् रामस्तुतिः रामनाममहिमा प्रथमम् द्वितीयम् रामप्रार्थना अम्लानपंकजमालाबंधपंचकम् मुक्तामाला श्रीकृष्णस्तवनम् रामकृष्णस्तुतिः प्रथमम् द्वितीयम् तृतीयम् चतुर्थम् पंचमम् शंकरस्तोत्रम् हरिहरप्रार्थना श्रीकाशीक्षेत्रस्थप्रार्थना गंगाविज्ञप्तिः मनःप्रार्थनाष्टकम् दशमस्कंधमुख्यार्तगीतिः पद्यानि १ पद्यानि २ पद्यानि ३ पद्यानि ४ पद्यानि ५ गणेशार्तिक्यम् जगदंबार्तिक्यम् श्रीकृष्णार्तिक्यम् शिवार्तिक्यम् दिनकरार्तिक्यम् नृसिंहार्तिक्यम् श्रीरामचंद्रार्तिक्यम् श्रीविठ्ठलार्तिक्यम् श्रीदत्तार्तिक्यम् शिवार्तिक्यम् शिवार्याशतकम् शिवाष्टोत्तरशतनामावलिः श्रीराधानामावलिः श्रीकृष्णनामावलिः पद्यपरिशिष्टम् स्फुटश्लोकाः रामनाममहिमा महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’ Tags : mayurramramayanमयूररामरामायणसंस्कृत रामनाममहिमा Translation - भाषांतर ( गीतिवृत्तम् )राम ! तव नाम हित्वा मंत्रानन्याञ्जपञ्जनो मंदः त्यक्त्वा चिंतारत्नं गृह्णन्नितरान्मणीन्कथं सुज्ञः. ॥१॥तव नाम्नैव कविमुखं भाति न चान्येन शब्दशास्त्रेण अशिवमसिंदूरतिलकमपि रत्नभृदेव सुभ्रुवो वदनम्. ॥२॥यो नाम वज्रकवचं तव चंद्रकलावतंसनुत ! धत्ते रघुनाथ ! जगति सकले स कलेरतिदुःसहः पुमानेकः. ॥३॥अपि यस्मै कस्मैचिज्जपते दीयंत एव नाम्ना याः दातुमलं ताः सिद्धीरधिकारापेक्षिणो हि नाम्नायाः. ॥४॥ मज्जयति श्रितमितरा जनमजकुलतिलक ! का न नौकाऽस्ताम् तर्तुं श्रिता वयं यां पदयुगुलीं ते सकाननौकास्ताम्. ॥५॥स्फुटतु शतधा श्रुते त्वयि यन्नाश्रुनपितमेवतत्तूरः. धत्तेऽभक्तः पशुरपि नृत्वं कनकत्वमिव स धत्तूरः. ॥६॥भूतिं बिभर्ति तनुते गतिमपि च वृषेण सत्यसुप्रियकृत् कामं हरति हरति ते नाम श्रीराम वैश्रवणमित्रम्. ॥७॥पिबतः सुरभेः स्तन्यं वत्सस्याण्वपि तथा न राम ! हितम् अन्तोर्नाम यथा तेऽप्यमरा न पिबन्त्यदो न रामहितम. ॥८॥नाम्नीवाप्नोति न शं कारुण्यनदीन ! मातुरंकेऽपि नाम्नोऽन्ये त्रातुमलं लोकेषु न दीनमातुरं केऽपि. ॥९॥प्रपय तव नाम निर्वृत्तिमेति यथा मातुरुरसिजं बलःमंचोऽपरः पिपासोरिव लिप्तः काममुरसि जंबालः. ॥१०॥मातुः स्तन्येन यथा बालास्त्यक्तास्तवार्य ! नाम्ना ये स्पष्टं तदितररस इव शक्तिस्तांस्त्रातुमस्ति नाम्नाये. ॥११॥इति रामनाममहिमा ! N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP