संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं ३२ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं ३२ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं ३२ Translation - भाषांतर भाष्यं :--- ततस्तदब्रम्हा ब्राम्हाणोऽस्मि ममेत्थं कर्तव्यमिति ब्राम्हाणजातिनिमित्तं कर्म चिकिर्ष्वात्मन: कर्मकर्तृत्वविभूत्यै श्रेयोरूपं प्रशस्तरूपमत्यसृजतातिशयेनासृजत सृष्टवत । किं पुनस्तद्यत्सृष्टम । क्षत्रं क्षत्रियजाति: । तव्द्यक्तिभेनेन प्रदर्शयति । यान्येतानि प्रसिद्धानि लोके देवत्रा देवेषु क्षत्राणीति जात्याख्यायं पक्षे बहुवचनस्मरणव्द्यक्तिबहुत्वाद्वा भेदोपचारेण बहुवचनम् ॥भाष्यं :--- कानि पुनस्तानीत्याह तत्राभिषिक्ता एक विशेषतो निर्दिश्यन्ते । इन्द्रो देवानां राजा । वरुणो यादसाम । सोमो ब्राम्हाणानाम । रुद्र: पशूनाम । पर्जभो विद्युदादीनाम । यम: पितृणाम । मृत्यू रोगादीनाम । ईशानो भासामित्येवमादीनि देवेषु क्षत्राणि । तदन्विन्द्रादिक्षत्रदेवतादिष्ठितानि मनुष्यक्षत्राणि सोमसूर्यवंश्यानि पुरुरव:प्रभृतीनि सृष्टान्येव द्रष्टव्यानि । तदर्थ एव हि देवक्षत्रसर्ग: प्रस्तुत: ॥भाष्यं :--- यस्मादब्रम्हाणाऽतिशयेन सृष्टं क्षत्रं तस्मात्क्षत्रात्परं नास्ति ब्राम्हाणजातेरपि नियन्तृ । तस्मादब्राम्हाण: कारणभूतोऽपि क्षत्रियस्य क्षत्रियमधस्ताव्द्यवस्थित: सन्नुपरिस्थितमुपास्ते । क्व राजसूये । क्षत्र एव तदात्मीयं यश: ख्यातिरूपं ब्रम्हौति दधाति स्थापयति । राजसूयाभिषेक्तेनाऽऽसन्द्यां स्थितेन राज्ञाऽऽमन्त्रितो ब्रम्हान्निति ऋत्विक्पुनस्तं प्रत्याह त्वं राजन्ब्रम्हासीति । तदेतदभिधीयते क्षत्र एव तद्यशो दधातीति । सैषा प्रकृता क्षत्रस्य योनिरेव यदब्रम्हा ॥भाष्यं :--- तस्माद्यद्यपि राजा परमतां राजसूयाभिषेकगुणं गच्छत्याप्रोति ब्रम्हौव ब्राम्हाणजातिमेवान्ततोऽन्ते कर्मपरिसमाप्तावुपनिश्रयत्याश्रयति स्वां योनिं पुरोहितं पुरो निधत्त इत्यर्थ: ॥भाष्यं :--- यस्तु पुनर्बलाभिमानात्स्वां योनिं ब्राम्हाणजातिं ब्राम्हाणं य उ एनं हिनस्ति हिंसति न्यग्भावेन पश्यति स्वामात्मीयामेव स योनिमृच्छति स्वं प्रसवं विच्छिनत्ति विनाशयति । स एतत्कृत्वा पापीयान्पापतरो भवति । पूर्वमपि क्षत्रिय: पाप एव क्रूरत्वादात्मप्रसवहिंसया सुतराम् । यथा लोके श्रेयांसं प्रशस्ततरं हिंसित्वा परिभूय पपतरो भवति तद्वत ॥११॥श्रुति :--- स नैव व्यभवत्स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥१२॥भाष्यं :--- क्षत्रे सृष्टेऽपि स नैव व्यभवत्कर्मणे ब्रम्हा तथा न व्यभवद्वित्तोपार्जयितुरभावात । स विशमसृजत कर्मसाधनवित्तोपार्जनाय । क: पुनरसौ विट । यान्येतानि देवजातानि स्वार्थे निष्ठा । य एते देवजातिभेदा इत्यर्थ: । गणशो गणं गणमाख्यायन्ते कथ्यन्ते । गणप्राया हि विश: । प्रायेण संहता हि वित्तोपार्जने समर्था नैकैकश: । वसवोऽष्टसंख्यो गणस्तथैकादश रुद्रा द्वादशाऽऽदित्या विश्वेदेवास्त्रयोदश विश्वाया अपत्यानि सर्वे वा देवा मरुत: सप्त सप्तगणा: ॥१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP