संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं २४ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं २४ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं २४ Translation - भाषांतर भाष्यं :--- न च ब्रम्हाण इष्टं चिकीर्षुणा शास्त्रार्थविपरीतकल्पनया स्वार्थपरित्याग: कार्य: । न चैतावत्येवाक्षमा युक्ता भवत: । सर्वं हि नानात्वं ब्रम्हाणि कल्पितमेव “एकधैवानुद्रष्टव्यम” “नेह नानाऽस्ति किंचन” “यत्र हि द्वैतमिव भवति” “एकमेवाद्वितीयम्” इत्यादिवाक्यशतेभ्य: । सर्वो हि लोकव्यवहारो ब्रम्हाण्येव कल्पितो न परमार्थ: सन्नित्यत्यल्पमिदमुच्यत इयमेव कल्पनाऽपेशलेति । तस्माद्यत्प्रविष्टं स्रष्ट ब्रम्हा तदब्रम्हा ॥भाष्यं :--- वैशब्दोऽवधारणार्थ: । इदं शरीरस्थं यदगृहयतेऽग्रे प्राक्प्रतिबोधादपि ब्रम्हौवाऽऽसीत्सर्वं देदम । किंत्वप्रतिबोधादब्रम्हास्म्यसर्वं चेत्यात्मन्यध्यारोपात्कर्ताऽहं क्रियावान्फलानां च भोक्ता सुखी दु:खी संसारीति चाध्यारोपयति । परमार्थतस्तु ब्रम्हौव तद्विलक्षणं सर्वं च ॥ तत्कथंचिदाचार्येण दयालुना प्रतिबोधितं नासि संसारीत्यात्मानमेवावेत्स्वाभाविकं । अविद्याध्यारोपितविशेषवर्जितमत्येवशब्दस्यार्थ: ॥भाष्यं :--- ब्रूहि कोऽसावात्मा स्वाभाविकोयमात्मानं विदितवदब्रम्हा । ननु न स्मरस्यात्मानं दर्शितो हयसौ य इह प्रविश्य प्राणित्यपानिति व्यानित्युदानिति समानितीति ॥भाष्यं :--- नन्वसौ गौरसावश्व इत्येवमसौ व्यपदिश्यते भवता नाऽऽत्मानं प्रत्यक्षं दर्शयसि । एवं तर्हि द्रष्टा श्रोता मन्ता विज्ञाता स आत्मेति । नन्वत्रापि दर्शनादिक्रियाकर्तु: स्वरूपं न प्रत्यक्षं दर्शयसि । न अहि गमिरेव गन्तु: स्वरूपं छिदिर्वा छेत्तु: । एवं तर्हि द्दष्टेर्द्रष्टा श्रुते: श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता स आत्मेति । नन्वत्र को विशेषो द्रष्टरि । यदि द्दष्टेर्द्रष्टा यदि वा घटस्य द्रष्टा सर्वथाऽपि द्रष्टैव । द्रष्टव्य एव तु भवान्विशेषमाह द्दष्टेर्द्रष्टेति । द्रष्टा तु यदि द्दष्टेर्यदि वा घटस्य द्रष्टा द्रष्टैव ॥भाष्यं :--- न विशेषोपपत्ते: । अस्त्यत्न विशेषो यो द्दष्टेर्द्रष्टा स द्दष्टिश्चेद्बवति नित्यमेव पश्यति द्दष्टिं न कदाचिदपि द्दष्टिर्न द्दश्यते द्रष्ट्रा तत्र द्रष्टुर्द्दष्टया नित्यया भवितव्यम । अनित्या चेदद्रष्टुर्द्दष्टिस्तत्र द्दश्या या द्दष्टि: सा कदाचिन्न द्दश्येतापि यथाऽनित्यया द्दष्टया घटादि वस्तु । न च तद्वदद्दष्टेर्द्रष्टा कदाचिदपि न पश्यति द्दष्टिम ॥भाष्यं :--- किं द्वे द्दष्टी द्रष्टुर्नित्याऽद्दश्याऽन्याऽनिया द्दश्येति । बाढम । प्रसिद्धा तावदनित्या द्दष्टिरन्धानन्धत्वदर्शनात । नित्यैव चेत्सर्वोऽनन्ध एव स्यात् । द्रष्ट्रस्तु नित्या द्दष्टि: “न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते” इति श्रुतिरनुमानाच्च । अन्धस्यापि घटाद्याभासविषया स्वप्ने द्दष्टिरुपलभ्यते । सा तर्हीतरद्दष्टिनाशे न नश्यति सा द्रष्टुर्द्दष्टि: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP