संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं ११ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं ११ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं ११ Translation - भाषांतर भाष्यं :--- यथा भुक्त्वा गच्छतीति भुजिगमिक्रिययो: पूर्वापरकालयोरितरेतरविच्छेदोऽविशिष्टश्च कर्ता तद्वदिहापि स्यान्न तु तत्स्थस्यैव भावान्तरोपजनन एतत्संभवति । न च स्थानान्तरेण वियुज्य स्थानान्तरसंयोगलक्षण: प्रवेशो निरवयवस्यापरिच्छिन्नस्य द्दष्ट: । सावयव एव प्रवेशश्रवणादिति चेन्न । “दिव्यो हयमूर्त: पुरुष: ” “निष्कलं निष्कियम् ” इत्यादि श्रुतिभ्य: । सर्वव्यपदेशधर्मविशेषप्रतिषेधश्रुतिभ्यश्च ॥भाष्यं :--- प्रतिबिम्बप्रवेशवदिति चेन्न । वस्त्वन्तरेण विप्रकर्षानुपपत्ते: । द्रव्ये गुणप्रवेशवदिति चेत । न । अनाश्रितत्वात् । नित्यपरतन्त्रस्यैवाऽऽश्रितस्य गुणस्य द्रव्ये प्रवेश उपचर्यते । न तु ब्रम्हण: स्वातन्त्र्यश्रवणात्तथा प्रवेश उपपद्यते । फले बीजवदिति चेन्न । सावयवत्ववृद्धिक्षयोत्पत्तिविनाशादिधर्मवत्त्वप्रसङगात । न चैवं धर्मवत्त्वं ब्रम्हाण: “अजोऽजर:” इत्यादिश्रुतिन्यायविरोधात् । तस्मादन्य एव संसारी परिच्छिन्न इह प्रविष्ट इति चेन्न ॥भाष्यं :--- “ सेयं देवतैक्षत” इत्यारभ्य “नामरूपे व्याकरवाणि” इति तस्या एव प्रवेशव्याकरणकर्तृत्वश्रुते: । तथा “तत्सृष्टवा तदेवानुप्राविशत्” “ स एतमेव सीमानं विदार्यैंतया द्वारा प्रापद्यत ।”“ सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते”“ त्वं कुमार उत वा कुमारी त्वं जीर्णी दण्डेन वञ्चसि” “पुरश्चके द्विपद:” “रूपं रूपं इति च मन्त्रवर्णान्न परादन्यस्य प्रवेश: ॥भाष्यं :--- प्रविष्टानामितरेतरेतरभेदात्परानेकत्वमिति चेत । न । “एको देवो बहुधा संनिविष्ट:’ “एक: सन्वहुधा विचचार” “त्वमेकोऽसि बहूननुप्रविष्ट:” “एको देव: सर्वभूतेषु गुढ: सर्वव्यापी सर्वभूतान्तरात्मा” इत्यादिश्रुतिभ्य: ॥भाष्यं :--- प्रवेश उपपद्यते नोपपद्यत इति तिष्ठतु तावत्प्रविष्टानां संसारित्वात्तदनन्यत्वाच्च परस्य संसारित्वमिति चेत् । न । अशनायाद्यत्ययश्रुते: । सुखित्वदु:खित्वादिदर्शनान्नेति चेत् । न। “न लिप्यते लोकदु:खेन बाहय:” इति श्रुते: ॥भाष्यं :--- “तत्केन कं पश्येत” “नेह नानाऽस्ति किंचन” “तत्र को मोह: क: शोक एकत्वमनुपश्यत:” इत्यादिना विद्याविषये तत्प्रतिषेधाच्च नाऽऽत्मधर्मत्वम ॥भाष्यं :--- तार्किकसमयविरोधादयुक्तिमिति चेन्न । युक्त्याऽप्यात्मनो दु:खित्वानुपपत्ते: ॥भाष्यं :--- न हि दु:खेन प्रत्यक्षविषयेणाऽऽत्मनो विशेष्यत्वं प्रत्यक्षाविषयत्वात् । आकाशस्य शब्दगुणवत्त्ववदात्मनो दु:खित्वमिति चेन्न । एकप्रत्ययविषयत्वानुपपत्ते: ॥भाष्यं :--- न हि सुखग्राहकेण प्रत्यक्षविषयेण प्रत्ययेन नित्यानुमेयस्याऽऽत्मनो विषयीकरणमुपपद्यते । तस्य च विषयीकरण आत्मन एकत्वाद्विषयविषय्यभावप्रसङग: । एकस्यैव विषयविषयित्वं दीपवदिति चेन्न । युगपदसंभवादात्मन्यंशानुपपत्तेश्च । एतेन विज्ञानस्य ग्राहग्राहकत्वं प्रत्युक्तम् ॥भाष्यं :--- प्रत्यक्षानुमानविषययोश्च दु:खात्मनोर्गुणगुणित्वेनानुमानम् । दु:खस्य नित्यमेव प्रत्यक्षविषयत्वाद्रूपादिसामानादिकरण्याच्च ॥भाष्यं :--- मन:संयोगजत्वेऽप्यात्मनि दु:खस्य सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात । न हयविकृत्य संयोगि द्रव्यं गुण: कश्चिदुपयन्नपयन्वा दष्ट: क्वचित । न च निरवयवं विक्रियमाणं द्दष्टं क्वचिदनित्यगुणाश्रयं वा नित्यम । न चाऽऽकाशा आगमवादिभिर्नित्यतयाऽवगम्यते । न चान्यो द्दष्टान्तोऽस्ति॥भाष्यं :--- विक्रियमाणमपि तत्प्रत्ययानिवृत्तेर्नित्यमेवेति चेन्न । द्रव्यस्यावयवान्यथात्वव्यतिरेकेण विक्रियानुपपत्ते: ॥भाष्यं :--- सावयवत्वेऽपि नित्यत्वमिति चेन्न । सावयवस्यावयवसंयोगपूर्वकत्वे सति विभागोपपत्ते: । वज्रादिष्वदर्शनान्नेति चेन्न । अनुमेयत्वात्संयोगपूर्वत्वस्य । तस्मान्नाऽऽऽत्मनो दु:खाद्यनित्यगुणाश्रयत्वोपपत्ति: ॥भाष्यं :--- परस्यादु;ख्खित्वेऽन्यस्य च दु:खिनोऽभावे दु:खोपशमनाय शास्त्रारम्भानर्थक्यमिति चेन्न । अविद्याध्यारोपितदु:खित्वभ्रमापोहार्थत्वात् । आत्मनि प्रकृतसंख्यापूरणभ्रमापोहवत, कल्पितदु:ख्यात्माभ्युपगमाच्च ॥भाष्यं :--- जलसूर्यादिप्रतिबिम्बबदात्मप्रवेशश्च प्रतिबिम्बवव्द्याकृते कार्य उपलभ्यत्वम् । प्रागुत्पत्तेरनुपलब्ध आत्मा पश्चात्कार्ये च सृष्टे व्याकृते बुद्धेरन्तरुपलभ्यमान: सूर्यादिप्रतिबिम्बवज्जलादौ कार्यं सृष्टवा प्रविष्ट इव लक्ष्यमाणो निर्दिश्यते “स एष इह प्रविष्ट:” “तत्सृष्टवा तदेवानुप्राविशत” “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” “सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य’ इत्येवमादिभि: ॥भाष्यं :--- न तु सर्वगतस्य निरवयवस्य दिग्देसकालान्तरापक्रमणप्राप्तिलक्षण: प्रवेश: कदाचिदप्युपपद्यते । न च परादात्मनोऽन्योऽस्ति द्रष्टा “नान्यदतोऽस्ति द्रष्ट्र नान्यदतोऽस्ति श्रोतृ” इत्यादिश्रुतेरित्यवोचाम ॥भाष्यं :--- उपलब्ध्यर्थत्वाच्च सृष्ट्प्रवेस्थित्यप्ययवाक्यानाम । उपलब्धे: पुरुषार्थत्वश्रवणात ।” “स यो ह वैतत्परमं ब्रम्हा वेद ब्रम्हौव भवति” “आचार्यवान्पुरुषो वेद” “तस्य तावदेव चिरम” इत्यादिश्रुतिय: । “ततो मां तत्त्वतो ज्ञात्वा विशते तानन्तरम” “तद्धयग्र्यं सर्वविद्यानां प्राप्यते हयमृतं तत:” इत्यादिस्मृतिभ्यश्च । भेददर्शनापवादाच्च सृष्टयादिवाक्यानामात्मकैत्वदर्शनार्थपरत्वोपपत्ति: । तस्मात्कार्यस्थस्योपलभ्यत्वमेव प्रवेश इत्युपचर्यते । आ नखाग्रेभ्यो नखाग्रमर्यादमात्मनश्वैतन्यमुपलभ्यते ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP