संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं १६ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं १६ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १६ Translation - भाषांतर भाष्यं :--- अनन्यसाधनत्वाच्च निरोधस्य । न हयात्मविज्ञानतत्स्मृतिसंतानव्यतिरेकेन चित्तवृत्तिनिरोधस्य साधनमस्ति । अभ्युपगम्येदमुक्तं न तु ब्रम्हा विज्ञानव्यतिरेकेणान्यन्मोक्षसाधनमवगम्यते ॥ भाष्यं :--- आकाङक्षाभावाच्च भावनाभाव: । यदुक्तं यजेतेत्यादौ किं केन कथमिति भावनाकाङक्षायां फलसाधनेतिकर्तव्यताभिराकाङक्षापनयनं यथा तद्वदिहाप्यात्मविज्ञानविधावप्युपपद्यत इति । तदसत । एकमेवाद्वितीयं तत्त्वमसि नेति नेत्यनन्तरमबाहयमयमात्मा ब्रम्होत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङक्षाविनिवृत्ते: । न च वाक्यार्थविज्ञाने विधिप्रयुक्त: प्रवर्तते । विध्यन्तरप्रयुक्तौ चानवस्थादोषमवोचाम । न चैकमेवाद्वितीयं ब्रम्होत्यादिवाक्येषु विधिरवगम्यते । आत्मस्वरूपान्वाख्यानेनैवावसितत्वात् ॥भाष्यं :--- वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमिति चेत् । अथापि स्याद्यथा सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वमित्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमेवमात्मार्थवाक्यानामपीति चेन्न । विशेषात् । न वाक्यस्य वस्त्वन्वाख्यानं क्रियान्वाख्यानं वा प्रामाण्याप्रामाण्यकारणं किं तर्हि निश्चितफलवद्विज्ञानोत्पादकत्वम् । तद्यत्रास्ति तत्प्रमाणं वाक्यं यत्र नास्ति तदप्रमाणम् ॥भाष्यं :--- किं च भो: पृच्छामस्त्वामात्मस्वरूपान्वाख्यानपरेषु वाक्येषु फ्लवन्निश्चितं च विज्ञानमुत्पद्यते न वा । उत्पद्यते चेत्कथमप्रामाण्यमिति । किं वा न पश्यस्यविद्याशोकमोहभयादिसंसारबीजदोषनिवृत्तिं विज्ञानफलम् । न शृणोषि वा किं “तत्र को मोह: क: शोक एकत्वमनुपश्यत: । मन्त्रविदेवास्मि नाऽऽत्मवित्सोऽहं भगव: शोचामि तं मा भगवाञ्छोकस्य पारं तारयतु” इत्येवमाद्युपनिषद्वाक्यशतानि ॥भाष्यं :--- एवं विद्यते किं सोऽरोदीदित्यादिषु निश्चितं फलवच्च विज्ञानम । न चेद्विद्यतेऽस्त्वप्रामाण्यम् । तदप्रामाण्ये फलवन्निश्चितविज्ञानोत्पाद्कस्य किमित्यप्रामाण्यं स्यात् । तदप्रामाण्ये च दर्शपूर्णमासादिवाक्येषु को विश्रम्भ: ॥भाष्यं :--- ननु दर्शपूर्णमासादिवाक्यानां पुरुषप्रवृत्तिविज्ञानोतादकत्वादकत्वात्प्रामाण्यम् । आत्मविज्ञानवाक्येषु तन्नास्तीति । सत्यमेवम । नैष दोष: । प्रामाण्यकारणोपपत्ते: । प्रामाण्यकारणं च यथोक्तमेव नान्यत । अलंकारश्चायं यत्सर्वप्रवृत्तिबीजनिरोधफलवद्विज्ञानोत्पादकत्वमात्मप्रतिपादकवाक्यानां नाप्रामाण्यकारणम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP