संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं १८ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं १८ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १८ Translation - भाषांतर भाष्यं :--- यत्त्वात्मानमेव लोकमुपासीतेति तदनात्मोपासनप्रसङ्गनिवृत्तिपरत्वान्न वाक्यान्तरम् ॥श्रुति :--- तदेतत्पदनीयं सर्वस्य यदयमात्माऽनेन हयेतत्सर्वंवेद । यथा ह वै पदेनानुविन्देदेवं किर्ति श्लोंक विन्दते य एवं वेद ॥७॥भाष्यं :--- अनिर्ज्ञातत्वसामान्यादात्मा ज्ञातव्योऽनात्मा च । तत्र कस्मादात्मोपसन एव यत्न आस्थीयत आत्मेत्येवोपासीतेति नेतरविज्ञान इति । अत्रोच्यते । तदेतदेव प्रकृतं पदनीयं गमनीयं नान्यदस्य सर्वस्येति निर्धारणार्था षष्ठी । अस्मिन्सर्वस्मिन्नित्यर्थ: । यदयमात्मा यदेतदात्मतत्त्वम् । किं न विज्ञातव्यमेवान्यत । न । किं तर्हि ज्ञातव्यत्वेऽपि न पृथग्ज्ञानान्तरमपेक्षत आत्मज्ञानात् ॥भाष्यं :--- कस्मात् । अनेनाऽऽत्मना ज्ञातेन हि यस्मादेतत्सर्वमनात्मजातमन्यद्यत्तत्सर्वं समस्तं वेद जानाति । नन्वन्यज्ञानेनान्यन्न ज्ञायत इति । अस्य परिहारं दुन्दुभ्यादिग्रन्थेन वक्ष्याम: । कथं पुनरेतत्पदनीयमिति । उच्यते । उथा ह वै लोके पदेन गवादिखुराङकितो देश: पदमित्युच्यते तेन पदेन नष्टं विवित्सितं पशुं पदेनन्वेषमाणोऽनुविन्देल्लभेत । एवमात्मनि लब्धे सर्वमनुलभत इत्यर्थ: ॥भाष्यं :--- नन्वात्मनि ज्ञाते सर्वमन्यज्ज्ञायत इति ज्ञाने प्रकृते कथं लाभोऽप्रकृत उच्यत इति । न । ज्ञानलाभयोरेकर्थत्वस्य विवक्षितत्वात् । आत्मनो हयलाभोऽज्ञानमेव । तस्माज्ज्ञानमेवाऽऽत्मनो लाभो नानात्मलाभवदप्राप्ताप्तिलक्षण आत्मलाभो लब्धृलब्धव्ययोर्भेदाभावात् ॥भाष्यं :--- यत्र हयात्मनोऽनात्मा लब्धव्योअ भवति तत्राऽऽत्मा लब्धा लब्धव्योऽनात्मा । स चाप्राप्त उत्पाद्यादिक्रियाव्यवहित: कारकविशेषोपादानेन क्रियाविशेषमुत्पाद्य लब्धव्य: ॥भाष्यं :--- स त्वप्राप्तप्राप्तिलक्षणोऽनित्यो मिथ्याज्ञानजनितकामक्रियाप्रभवत्वात्स्वप्ने पुत्रादिलाभवत् । अयं तु तद्विपरीत आत्मा । आत्मत्वादेव नोत्पाद्यादिक्रियाव्यवहित: । नित्यलब्धस्वरूपत्वेऽपि सत्यविद्यामात्रं व्यवधानम् ॥भाष्यं :--- यथा गृहयामाणाया अपि शुक्तिकाया विपर्यतेण रजताभासाया अग्रहणं विपरीतज्ञानव्यवधानमात्रं तथा ग्रहणं ज्ञानमात्रमेव विपरीतज्ञानव्यवधानापोहार्थत्वाज्ज्ञानस्य । एवमिहाप्यात्मनोऽलाभोऽविद्यामात्रव्यवधानम् । तस्माद्विद्यया तदपोहनमात्रमेव लाभो नान्य: कदाचिदप्युपपद्यते । तस्मादात्मलाभे ज्ञानादर्थान्तरसाधनस्याऽऽनर्थक्यं वक्ष्याम: । तस्मान्निराशङकमेव ज्ञानलाभयोरेकार्थत्वं विवक्षन्नाह ज्ञानं प्रकृत्यानुविन्देदिति । विन्दतेर्लाभार्थत्वात् ॥भाष्यं :--- गुणविज्ञानफलमिदमुच्यते । यथायमात्मा नामरूपानुप्रवेशेन ख्यातिं गत आत्मेत्यादिनामरूपाभ्यां प्राणादिसंहतिं च श्लोकं प्राप्तवानित्येवं यो वेद स कीर्तिं ख्यातिं श्लोकं च संघातमिष्टै: सह विन्दते लभते । यद्वा यथोक्तं वस्तु यो वेद मुमुक्षूणामपेक्षितं कीर्तिशब्दितमैक्यज्ञनं तत्फलं श्लोकशब्दितां मुक्तिमाप्नोतीति मुख्यमेव फलम् ॥७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP