संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं १७ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं १७ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १७ Translation - भाषांतर भाष्यं :--- यत्तूक्तं विज्ञाय प्रज्ञां कुर्वीतेत्यादिवचनानां वाक्यार्थविज्ञानव्यतिरेकेणोपासनार्थत्वमिति । सत्यमेतत । किंतु नापूर्वविध्यर्थता पक्षे प्राप्तस्य नियमार्थतैव ॥भाष्यं :--- कथं पुनरुपासनस्य पक्षप्राप्तिर्यावता पारिशेष्यादात्मविज्ञानस्मृतिसंततिनित्यैवेत्यभिहितम् । बाढम । यद्यप्येवं शरीरारम्भकस्य कर्मणो नियतफलत्वात्सम्यग्ज्ञानप्राप्तावप्यवश्यंभाविनी प्रवृत्तिर्वाङमन:कायानाम् । लब्धवृत्ते: कर्मणो बलीयस्त्वान्मुक्तेष्वादिप्रवृत्तिवत् । तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम् । तस्मात्यागवैराग्यादिसाधनबलावलम्बेनाऽऽत्मविज्ञानस्मृतिसंततिर्नियन्तव्या भवति न त्वपूर्वा कर्तव्या प्राप्तत्वादित्यवोचाम । तस्मात्प्राप्तविज्ञानस्मृतिसंताननियमविध्यर्थानि विज्ञान प्रज्ञां कुर्वीतेत्यादिवाक्यान्यन्यार्थासंभवात् ॥ भाष्यं :--- अनात्मोपासनमिदमितिशब्दप्रयोगात् । यथा प्रियमित्येतदुपासीतेत्यादौ न प्रियादिगुण एवोपास्य: किं तर्हि प्रियादिगुणवत्प्राणाद्येवोपास्यम् । तथेहापीतिपरात्मशबप्रयोगादात्मगुणवदनात्मवस्तूपास्यमिति गम्यते ॥भाष्यं :--- आत्मोपास्यत्ववाक्यवैलक्षण्याच्च । परेण च वक्ष्यत्यात्मानमेव लोकमुपासीतेति । तत्न च वाक्य आत्मैवोपास्यत्वेनाभिप्रेतो द्वितीयाश्रवणादात्मानमेवेति । इह तु न द्वितीया श्रूयत इतिपरश्चाऽऽत्मशब्द आत्मेत्येवोपासीतेति । अतो नाऽऽत्मोपास्य आत्मगुणश्चान्य इति त्ववगम्यते ॥भाष्यं :--- न । वाक्यशेष आत्मन उपास्यत्वेनावगमात । अस्यैव वाक्यस्य शेष आत्मैवोपस्यत्वेनावगम्यते । तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽन्तरतरं यदयमात्माऽऽत्मानमेवावेदिति ॥भाष्यं :--- प्रविष्टस्य दर्शनप्रतिषेधादनुपास्यत्वमिति चेत । यस्याऽऽत्मनप्रवेश उक्तस्तस्यैव दर्शनं वार्यते तं न पश्यन्तीति प्रकृतोपादानात् । तस्मादात्मभिप्रायेण नाऽऽत्मोपास्यत्वप्रतिषेधाय प्राणनादिक्रियाविशिष्टत्वेन विशेषणात् ॥भाष्यं :--- आत्मनश्चेदुपास्यत्वमनभिप्रेतं प्राणनाद्येकैकक्रियाविशिष्टस्याऽऽत्मनोऽकृत्स्नत्ववचनमनर्थकं स्यादकृत्स्नो हयेषोऽत एकैकेन भवतीति । अतोऽनेकैकविशिष्टस्त्वात्मा कृत्स्नत्वादुपास्य एवेति सिद्धम् ॥भाष्यं :--- यस्त्वात्मशब्दस्येतिपर: प्रयोग: स आत्मशब्द्प्रत्यययोरात्मतत्त्वस्य परमार्थतोऽविषयत्वज्ञानपानार्थम् । अन्यथाऽऽत्मानमुपासीतेत्येवमवक्ष्यत । तथा चार्थादात्मनि शब्दप्रत्य्यावनुज्ञातौ स्याताम् । तच्चानिष्टम् । “नेति नेति” “विज्ञातारमरे केन विजानीयात्” “अविज्ञातं विज्ञातृ” “यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह” इत्यादिड्रुतिभ्य: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP