चतुर्थं ब्राम्हणम् - भाष्यं २५
सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.
भाष्यं :--- तयाऽविपरिलुप्तया नित्यया द्दष्टया स्वरूपभूतया स्वयंज्योति:समाख्ययेतरामनित्यां द्दष्टिं स्वप्नबुद्धान्तयोर्वासनाप्रत्ययरूपां नित्यमेव पश्यन्द्दष्टेर्द्रष्टा भवति । एवं च सति द्दष्टिरेव स्वरूपमस्याग्न्यौष्ण्यवन्न काणादादीनामिव द्दष्टिव्यतिरिकोऽन्योऽचेतनो द्रष्टा । तदब्रम्हाऽऽत्माननमेव नित्यद्दग्रूपमध्यारोपितानित्यद्दष्टयादिवर्जितमेवावेद्विदितवत् ॥
भाष्यं :--- ननु विप्रतिषिद्धम “न विज्ञातेर्विज्ञातारं विजानीया:” इति श्रुतेर्विज्ञातुर्विज्ञानम् । न । एवं विज्ञानान्न विप्रतिषेध: । एवं द्दष्टेर्द्रष्टेति विज्ञायत एव । अन्यज्ञानानपेक्षत्वाच्च । न च द्रष्टुर्नित्यैव द्दष्टिरित्येवं विज्ञाते द्रष्ट्टविषयां द्दष्टिमन्यामाकाङक्षते । निवर्तते हि द्रष्ट्टविषयद्दष्टयाकाडक्षा तदसंभवादेव । न हयविद्यमाने विषय आकाङक्षा कस्यचिदुपजायते । न च द्दश्या द्दष्टिर्द्रष्टारं विषयीकर्तुमुत्सहते । यतस्तामाकाङक्षेत । न च स्वरूपविषयाकाडक्षा स्वस्यैव । तस्मादज्ञानाध्यारोपणनिवृत्तिरेवाऽऽत्मानमेवावेदित्युक्तं नाऽऽत्मनो विषयीकरणम् ॥
श्रुति :--- अहं ब्रम्हासमीति । तस्मात्तत्सर्वमभवत तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तर्थर्षीणां तथा मनुष्याणां तद्वैतत्पश्यन्नृषिर्वामदेव: प्रतिपेदेऽहं मनुरभव सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रम्हास्मीति स इद सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा हयेषास भवति ॥
अर्थ :--- मी ब्रम्हा आहें, असें तें ब्रम्हा जाणतें झालें व त्या ज्ञानामुळेंच तें सर्व झालें. त्या देवांतील जो जो ज्ञानसंपन्न झाला तो तो आत्मातें ब्रम्हाच झाला त्याचप्रमाणें ऋषींतील व मनुष्यांतील जो जो ज्ञानी झाला तो तो तों ब्रम्हा झाला. त्या हया ब्रम्हाला पाहणारा वामदेव ऋषि ‘मी मनु झालों व सूर्य झालों’ असें जाणता झाला. या वर्तमान समयींहि जो या ब्रम्हाला मी ब्रम्हा आहें, अशा रीतीनें जाणतो तो हें सर्व होतो. त्याच ब्रम्हावेत्त्याच्या नाशाला देव व मनुष्यहि समर्थ होत नाहींत. कारण तो त्यांचा आत्माच होतो.
भाष्यं :--- तत्कथमवेदित्याह । अहं द्दष्टेर्द्रष्टाऽऽत्मा ब्रम्हास्मि भवामीति । ब्रम्होति यत्साक्षादपरोक्षत्सर्वान्तर आत्माऽशनायाद्यतीतो नेति नेत्यस्थूलमनण्वित्येवमादिलक्षणं तदेवाहमस्मि नान्य: संसारी यथा भवानाहेति । तस्मादेवं विज्ञानात्तदब्रम्हा सर्वमभवत् । अब्रम्हाध्यारोपणापगमात्तत्कार्यस्यासर्वत्वस्य निवृत्त्या सवमभवत् । तस्माद्युक्तमेव मनुष्या मन्यन्ते यदब्रम्हाविद्यया सर्वं भविष्याम इति ॥
भाष्यं :--- भाष्यं :--- यत्पृष्टं किमु तदब्रम्हावेद्यस्मात्तत्सर्वमभवदिति तन्निर्णीतं ब्रम्हा वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रम्हास्मीति तस्मात्तत्सर्वमभवदिति । तत्तत्र यो यो देवानां मध्ये प्रत्यबुध्यत प्रतिबुद्धवानात्मानं यथोक्तेन विधिना स एव प्रतिबुद्ध आत्मा तदब्रम्हाभवत्तथर्षीणां तथा मनुष्याणां च मध्ये । देवानामित्यादिलोकद्दष्टयपेक्षया न ब्रम्हात्वबुद्धयोच्यते । पुर: पुरुष आविशदिति सर्वत्र ब्रम्हौवानुपविष्टमित्यवोचाम । अत: शरीराद्य्पाधिजनितलोकद्दष्टयपेक्षया देवानामित्याद्युच्यते । परमार्थतस्तु तत्र ब्रम्हौवाग्र आसीत्प्राक्प्रतिबोधाद्देवादिशरीरेष्वन्यथैव विभाव्यमानम् । तदात्मानमेवावेत्तथैव च सर्वमभवत् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP