संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं ३ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं ३ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं ३ Translation - भाषांतर भाष्यं :--- कथमित्याह । यद्यस्मान्मत्तोऽन्यदात्मव्यतिरेकेण वस्त्वन्तरं प्रतिद्वंद्वीभूतं नास्ति तस्मिन्नात्मविनासहेत्वभावे कस्मान्नु बिभेंमीति । तत एव यथाभूतात्मदर्शनादस्य प्रजापतेर्भयं वीयाय विस्पष्टमपगतवत् । तस्य प्रजापतेर्यद्बयं तत्केवलाविद्यानिमित्तमेव परमार्थदर्शनेऽनुपपन्नमित्याह ॥भाष्यं :--- कस्माद्धयभेष्यत्किमित्यसौ भीतवान्परमार्थनिरूपणायां भयमनुपपन्नमेवेत्यभिप्राय: । यस्मादद्वितीयाद्वस्त्वन्तराद्वै भयं भवति । द्वितीयं च वस्त्वन्तरमविद्याप्रत्युपस्त्युपस्थापितमेव । न हयद्दश्यमानें द्वितीयं भयजन्मनो हेतु: । “तत्र को मोह: का: शोक एकत्वमनुपश्यत:” इति मन्त्रवर्णात् । यच्चैकत्वदर्शनेन भयमपनुनोदापनोदितं तद्युक्तम् । कस्मात् । द्वितीयाद्वस्त्वन्तराद्वै भयं भवति तदेकत्वदर्शनेन द्वितीयदर्शनमपनीतमिति नास्ति यत: ॥भाष्यं :--- अत्र चोदयन्ति । कुत: प्रजापतेरेकत्वदर्शनं जातं को वाऽस्मा उपदिदेश । अथानुपदिष्टमेव प्रादुरभूत । अस्मदादेरपि तथा प्रसङ्ग: । अथ जन्मान्तरकृतसंस्कारहेतुकम् । एकत्वदर्शनानर्थक्यप्रसङग: ॥भाष्यं :--- यथा प्रजापतेरतिक्रान्तजन्मावस्थस्यैकत्वदर्शनं विद्यमानमप्यविद्याबन्धकारणं नापनिन्ये । यतोऽविद्यासंयुक्त एवायं जातोऽबिभेत् । एतं सर्वेषामेकत्वदर्शनानर्थक्यं प्राप्नोति । अन्त्यमेव निवर्तकमिति चेत् । न । पूर्ववत्पुन:प्रसङगेनानैकान्त्यात् । तस्मादनर्थकमेवैकत्वदर्शनमिति ॥भाष्यं :--- नैष दोष: । उत्कृष्टहेतूद्भवत्वाल्लोकवत । यथा पुण्यकर्मोद्भवैर्तिविक्तै: कार्यकरणै: संयुक्ते जन्मनि सति प्रज्ञामेधास्मृतिवैशारद्यं द्दष्टं तथा प्रजापतेर्धर्मज्ञानवैराग्यैश्वर्यविपरीतहेतुअर्वपाप्मदाहाद्विशुद्धै: कार्यकरणै: संयुक्तमुत्कृष्टं जन्म तदुद्भवं चानुपदिष्टमेव युक्तमेकत्वदर्शनं प्रजापते: ॥भाष्यं :--- तथा च स्मृति :--- “ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पते: । ऐश्वर्यं चैव धर्मश्व सहसिद्धं चतुष्टयम्” इति । सहसिद्धत्वे भयानुपपत्तिरिति चेत् । न हयादित्येन सह तम उदेति । नान्यानुपदिष्टार्थत्वात्सहसिद्धवाक्यस्य ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP