चतुर्थं ब्राम्हणम् - भाष्यं २७
सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.
भाष्यं :--- कर्मणामप्येषां वशानुगत्वं क्वचित्स्वसामर्थ्यस्याप्रणोद्यत्वात । कर्मकालदैवद्रव्यादिस्वभावानां गुणप्रधानभावस्त्वनियतो दुर्विज्ञेयश्चेति तत्कृतो मोहो लोकस्य ॥
भाष्यं :--- कर्मैंव कारकं नान्यत्फलप्राप्ताविति केचित् । दैवमेवेत्यपरे । काल इत्येके । द्रव्यादिस्वभाव इति केचित । सर्व एते संहता एवेत्यपरे । तत्र कर्मण: प्राधान्यमङगीकृत्य वेदस्मृतिवादा: “पुण्यो वै पुण्येन कर्मणा भवति पाप: पापेन” इत्यादय: ॥
भाष्यं :--- यद्यप्येषां स्वविषये कस्यचित्प्राधान्योद्भव इतरेषां तत्कालीनप्राधान्यशक्तिस्तम्भस्तथाऽपि न कर्मण: फलप्राप्तिं प्रत्यनैकान्तिकत्वम् । शास्त्रन्यायनिर्धारितत्वात्कर्मप्राधान्यस्य ॥
भाष्यं :--- न । अविद्यापगममात्रत्वदब्रम्हाप्राप्तिफलस्य । यदुक्तं ब्रम्हाप्राप्तिफलं प्रति देवा विघ्नं कुर्युरिति तत्र न देवानां विघ्नकरणे सामर्थ्यम । कस्मात । विद्याकालानन्तरितत्वादब्रम्हाप्रातिफलस्य । कथम । यथा लोके द्रष्टुश्चक्षुष आलोकेन संयोगो यत्कालस्तत्काल एव रूपाभिव्यक्ति: । एवमात्मविषयं विज्ञानं यत्कालं तत्काल एव तद्विषयाज्ञानतिरोभाव: स्यात् । अतो ब्रम्हाविद्यायां सत्यामविद्याकार्यानुपपत्ते: प्रदीप इव तम:कार्यस्य । तत्केन कस्य । विघ्नं कुर्युर्देवा: । यत्राऽऽत्मत्वमेव देवानां ब्रम्हाविद: ॥
भाष्यं :--- तदेतहाहाऽऽत्मा स्वरूप ध्येय़ं यत्तत्सर्वशास्त्रैर्विज्ञेवं ब्रम्हा हि यस्मादेषां देवानां स ब्रम्हाविद्भवति । ब्रम्हाविद्यासमकालमेवाविद्यामात्रव्यवधानापगमाच्छुक्तिकाया इव रजाताभासाया: । शुक्तिकात्वमित्यवोचाम । अतो नाऽऽत्मन: प्रतिकूलत्वे देवानां प्रयत्न: संभवति । यस्य हयनात्मभूतं फलं देशकालनिमित्तान्तरितं तत्रानात्मविषये सफल: प्रयत्नो विघ्नाचरणाय देवादीनाम । न त्विह विद्यासमकाल आत्मभूते देशकालनिमित्तानन्तरितेऽवसरानुपपत्ते: ॥
भाष्यं :--- एवं तर्हि विद्याप्रत्ययसंतत्यभावाद्विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादन्त्य एवाऽऽत्मप्र्त्ययोऽविद्यानिवर्तको न तु पूर्व इति ॥
भाष्यं :--- न । प्रथमेनानैकान्तिकत्वात । यदि हि प्रथम: आत्मविषय: प्रत्ययोऽविद्यां न निवर्तयति तथाऽन्त्योऽपि तुल्यविषयत्वात् ॥
भाष्यं :--- एवं तर्हि संततोऽविद्यानिवर्तको न विच्छिन्न इति । न । जीवनादौ सति संतत्यनुपपत्ते: । न हि जीवनादिहेतुके प्रत्यये सति विद्यासंततिरुपप द्यते विरोधात् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP