संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं २१ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं २१ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं २१ Translation - भाषांतर भाष्यं :--- ब्रम्हापरं सर्वभावस्य साध्यत्वोपपत्ते: । न हि परस्य ब्रम्हाण: सर्वभावापत्तिर्विज्ञानसाध्या । विज्ञानसाध्यां च सर्वभावापत्तिमाह । यस्मात्तत्सर्वमभवदिति । तस्मादब्रम्हा वा इदमग्र आसीदित्यपरं ब्रम्होह भवितुमर्हति ॥भाष्यं :--- मनुष्याधिकाराद्वा तद्भावी ब्राम्हाण: स्यात । सर्वं भविष्यन्तो मनुष्या मन्यन्त इति हि मनुष्या: प्रकृतास्तेषां चाभ्युदयनि:श्रेयससाधने विशेषतोऽधिकर इत्युक्तम् । न परस्य ब्रम्हाणो नाप्यपरस्य प्रजापते: । अतो द्वैतैकत्वापरब्रम्हाविद्यया कर्मसहितयाऽपरब्रम्हाभावमुपसंपन्नो भोज्यादपावृत्त: सर्वप्राप्त्योच्छिन्नकामकर्मबन्धन: परब्रम्हाभावी ब्रम्हाविद्याहेतोर्ब्रम्होत्यभिधीयते । द्दष्टश्च लोके भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगो यथौदनं पचतीति । शास्त्रे च पारिव्राजक: सर्वभूताभयदक्षिणामित्यादि तथेहेति केचिदब्रम्हा ब्रम्हाभावी पुरुषो ब्राम्हाण इति व्याचक्षते ॥भाष्यं :--- तन्न सर्वभावापत्तेरनित्यत्वदोषात । न हि सोऽस्ति लोके परमार्थतो यो निमित्तवशाद्भावान्तरमापद्यते नित्यश्चेति । तथा ब्रम्हाविज्ञाननिमित्तकृता चेत्सर्वभावापत्तिर्नित्या चेति विरुद्धम । अनित्यत्वे च कर्मफलतुल्यतेत्युक्तो दोष: ॥भाष्यं :--- अविद्याकृतासर्वत्वनिवृत्तिं चेत्सर्वभावापत्तिं ब्रम्हाविद्याफलं मन्यसे ब्रम्हाभाविपुरुषकल्पना व्यर्था स्यात् । प्राग्ब्रम्हाविज्ञानादपि सर्वो जन्तुर्ब्रम्हात्वान्नित्यमेव सर्वभावापन्न: परमर्थातोऽविद्यया त्वब्रम्हात्वमसर्वत्वं चाध्यारोपोइतम् । यथा शुक्तिकायां रजतं व्योम्नि वा तलमलवत्त्वादि तथेह ब्रम्हाण्यध्यारोपितमविद्ययाऽव्रम्हात्वमसर्वत्वं च ब्रम्हाविद्यया निवर्त्यत ति मन्यसे यदि तदा युक्तं यत्परमार्थत आसीत्परं ब्रम्हा ब्रम्हाशब्दस्य मुख्यार्थवादित्वाद्वेदस्य । न त्वियं कल्पना युक्ता ब्रम्हाशब्दार्थविपरीतो ब्रम्हाभावी पुरुषो ब्रम्होत्युच्यत इति । श्रुतहान्यश्रुतकल्पनाया अन्याय्यत्वात महत्तरे प्रयोजनान्तरेऽसति ॥भाष्यं :--- अविद्याकृतव्यतिरेकेणाब्रम्हात्वमसर्वत्वं च विद्यत एवेति चेन्न । तस्य ब्रम्हविद्ययाऽपोहानुपपत्ते: । न हि क्वचित्साक्षाद्वस्तुधर्मस्यापोढ्री द्दष्टा कर्त्री वा ब्रम्हाविद्या । अविद्यायास्तु सर्वत्रैव निवर्तिका द्दश्यते ॥भाष्यं :--- तथेहाप्यब्रम्हात्वमसर्वत्वं चाविद्याकृतमेव निवर्त्यतां ब्रम्हाविद्यया । न तु पारमार्थिकम वस्तु कर्तुं निवर्तयितुं वाऽर्हति ब्रम्हाविद्या । तस्माव्द्यर्थैव श्रुथान्यश्रुतकल्पना ॥भाष्यं :--- ब्रम्हाण्यविद्यानुपपत्तिरिति चेन्न ब्रम्हाणि विद्याधानात् । नहि शुक्तिकायां रजताध्यारोपणेऽसति शुक्तिकात्वं ज्ञाप्यते चक्षुर्गोचरापन्नायामियं शुक्तिका न रजतमिति । तथा सदेवेदं सर्व ब्रम्हौवेदं सर्वमात्मैवेदं सर्वं नेदं द्वैतमस्त्यब्रम्होति व्रम्हाण्येकत्वविज्ञानं न विद्यातव्यं ब्रम्हाण्यविद्याध्यारोपणायामसत्याम ॥भाष्यं :--- न ब्रूम: शुक्तिकायामिव ब्रम्हाण्यतद्धर्माध्यारोपणा नास्तीति किं तर्हि न ब्रम्हा स्वात्मन्यतद्धर्माध्यारोपनिमित्तमविद्याकर्तृ चेति । भवत्वेवं नाविद्याकर्तृ भ्रान्तं च ब्रम्हा । किंतु नैवाब्रम्हाविद्याकर्ता चेतनो भ्रान्तोऽन्य इष्यते ॥ “नान्योऽतोऽस्ति विज्ञाता नान्यदतोऽस्ति विज्ञतृ तत्त्वमस्यात्मानमेवावेदहं ब्रम्हास्म्यन्योऽस्ति विज्ञाता नान्यदतोऽस्ति विज्ञातृ तत्त्वमस्यात्मानमेवावेदहं ब्रम्हास्म्यन्योऽसावन्योऽहमस्मीति न स वेद” “शुनि चैव श्वपाके च” । “यस्तु सर्वाणि भूतानि” “यस्मिन्सर्वाणि भूतानि” इति च मन्त्रवर्णात ॥भाष्यं :--- नव्नेवं शास्त्रोपदेशानर्थक्यमिति । बाढमेवमवगतेऽस्त्वेवाऽऽनर्थक्यम् । अवगमानर्थक्यमपीति चेन्न । अनवगमनिवृत्तेर्द्दष्टत्वात । तन्निवृत्तेरप्यनुपपत्तिरेकत्व इति चेन्न । द्दष्टविरोधात । द्दश्यते हयेकत्वविज्ञानादेवानवगमनिवृत्ति: । द्दश्यमानमप्यनुपपन्नमिति ब्रुवतो द्दष्टविरोध: स्यात् । न च द्दष्टविरोध: केनचिदप्यभ्युपगम्यते । न च द्दष्टेऽनुपपन्नं नाम द्दष्टत्वादेव । दर्शनानुपपत्तिरिति चेत्तत्राप्येषैव युक्ति: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP