संस्कृत सूची|शास्त्रः|योग शास्त्रः|श्रीगुरूदत्त योगः| ध्यानम् श्रीगुरूदत्त योगः सूर्यभेदन सूर्यभेदकुम्भक: उज्जायीकुम्भक: शीतलीकुम्भक: भस्त्रिकाकुम्भक: भ्रामरीकुम्भक: मूर्च्छाकुम्भक: केवलीकुम्म्भक: हठयोगप्रदीपिका: श्रीगुरूदत्त योगः -कुम्भकभेदाः सीत्कारी भस्त्रिका योगबंध महामुद्रा महाबंध महावेध खेचरी उडिडयानबंध मूलबंध जालंधरबंध विपरीतकरणी वज्रोलि शक्तिचालन मुद्रा यम नियम ध्यानयोग: सूक्ष्मध्यानम् ध्यानम् निर्गुणध्यानम् श्रीगुरूदत्त योगः - ध्यानम् श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले. Tags : dattagurudattayogगुरूदत्तदत्तयोगशास्त्र ध्यानम् Translation - भाषांतर । अथ ध्यानम् ।अथ ध्यानं प्रवक्ष्यामि मुक्तिसाधनमुत्तमम् ।यत्कृत्वा न पुनर्जंतुर्जातु मातु: स्तनं पिबेत् ॥सगुणं निर्गुणं चैव द्विधा ध्यानं प्रकीर्तितम् ।सगुणं व्यक्तियुक्तं स्यादव्यक्तं निर्गुणं भवेत् ॥स्वकीयह्रदयांभोजे दलैर्द्वादशभिर्युते ।चिंतयेत्सुस्थिरो भूत्वा संपूर्णं चंद्रमंडलम् ॥तन्मध्ये संस्मरेद्योगी स्वर्णसिंहासनं महत् ।रत्नैर्नानाविधैर्युक्तं कोमलास्तरणान्वितम् ॥तस्योपरि समासीनं सूर्यकोटिसमप्रभम् ।नारायणं चतुर्बाहुं शंखचक्रगदाधरम् ।शरदाकाशसंकाशं पीतवाससमच्युतम् ।वनमालालसत्कंठं मकराकारकुंडलम् ॥मणिमेखलया युक्तं किरीटोज्ज्वलमस्तकम् ।प्रसन्नवदनं देवं सर्वकामवरप्रदम् ॥सार्वज्ञ्यादिगुणोपेतं विष्णुमव्ययमीश्वरम् ।ध्यायेदनन्यधीरेवमापादतलमस्तकम् ॥अथवा चिंतयेद्योगी शिवं तत्र समाहित: ।कोटिचंद्रप्रतीकाशं कर्पूरोज्ज्वलकांतिकम् ॥चतुर्भुजं प्रसन्नास्यं चंद्रभालं त्रिलोचनम् ।मृगशूलवराभीतिकरं सर्वज्ञमीश्वरम् ॥गंगावारिलसत्केशं कुंडलोज्ज्वलकर्णकम् ।ध्यायेद्देवं स्थिरो भूत्वा सर्वांगं सर्वकामदम् ॥सगुणं ध्यानमित्येतद्विष्णोश्वैव शिवस्य वा ।कृत्वायोगीभवेद्विष्णो: शिवस्यापि सम: स्वयम् ॥पुष्पसंयोगतस्तैले यथा गंध: प्रवर्तते ।योगिदेहे तथा ध्यानाज्जायते गुणसंक्रम: ॥सर्वज्ञ: सत्यसंकल्प: सर्वशक्तिसमन्वित: ।जीवन्मुक्तश्चरेद्योगी सायुज्यं चांततो व्रजेत् ॥ N/A References : N/A Last Updated : December 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP