श्रीगुरूदत्त योगः - शक्तिचालन

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


शक्तिचालन -

वज्रासने स्थितो योगी चालयित्वा च कुण्डलिम् ।
कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत् ॥
मूलाधारे आत्मशक्ति: कुण्डली परदेवता ।
शयिता भुजगाकारा सार्द्धत्रिवलयान्विता ॥
यावत् सा निद्रिता देहे तावज्जीव: पशुर्यथा ।
ज्ञानं न जायते तावत् कोटियोगं समभ्यसेत् ॥
उद्‌घाटयेत् कवाटं च यथा कुञ्चिकया हठात् ।
कुण्डलिन्या: प्रबोधेन ब्रम्हाद्वारं प्रभेदयेत् ॥
नाभिं संवेष्टय वस्त्रेण न च नग्नो बहिस्थित: ।
गोपनीयगृहे स्थित्वा शक्तिचालनमभ्यसेत् ॥
वितस्तिप्रमितं दीर्घं विस्तारे चतुरडगलम् ।
मृदुलं धवलं सूक्ष्मं वेष्टनाम्बरलक्षणम् ।
एवमम्बरयुक्तञ्च कटिसूत्रेण योजयेत् ॥
भस्मना गात्रं संलिप्य सिद्धासनं समाचरेत् ।
नासाभ्यां प्राणमाकृष्य अपाने योजयेद बलात् ॥
तावदाकुञ्चयेद्रुहयं शनैरश्विनी मुद्रया ।
यावदगच्छत् सुषुम्नायां वायु: प्रकाशयेद्धठात् ॥
तदा वायुप्रबन्धेन कुम्भिका च भुजङ्गिनी ।
बद्धश्वासस्ततो भूत्वा ऊर्ध्वमार्गं प्रपद्यते ॥
विना शक्तिचालनेन योनिमुद्रा न सिद्धयति ।
आदौ चालनमभ्यस्य योनिमुद्रां समभ्यसेत् ॥
इति ते कथितं चण्डकपाले शक्तिचालनम् ।
गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत् ॥
मुद्रेयं परमा गोप्या जरामरणनाशिनी ।
तस्मादभ्यसनं कार्यं योगिभि: सिद्धिकांक्षिभि: ॥
नित्यं योऽभ्यसते योगी सिद्धिस्तस्य करे स्थिता ।
तस्य विग्रहसिद्धि: स्याद्रोगाणां संक्षयो भवेत् ॥  घेरण्डसंहिता

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP