संस्कृत सूची|शास्त्रः|योग शास्त्रः|श्रीगुरूदत्त योगः| सूक्ष्मध्यानम् श्रीगुरूदत्त योगः सूर्यभेदन सूर्यभेदकुम्भक: उज्जायीकुम्भक: शीतलीकुम्भक: भस्त्रिकाकुम्भक: भ्रामरीकुम्भक: मूर्च्छाकुम्भक: केवलीकुम्म्भक: हठयोगप्रदीपिका: श्रीगुरूदत्त योगः -कुम्भकभेदाः सीत्कारी भस्त्रिका योगबंध महामुद्रा महाबंध महावेध खेचरी उडिडयानबंध मूलबंध जालंधरबंध विपरीतकरणी वज्रोलि शक्तिचालन मुद्रा यम नियम ध्यानयोग: सूक्ष्मध्यानम् ध्यानम् निर्गुणध्यानम् श्रीगुरूदत्त योगः - सूक्ष्मध्यानम् श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले. Tags : dattagurudattayogगुरूदत्तदत्तयोगशास्त्र सूक्ष्मध्यानम् Translation - भाषांतर । अथ सूक्ष्मध्यानम् ।घेरण्ड उवाच -तेजोध्यानं श्रुतं चण्ड सूक्ष्मध्यानं शृणुष्व मे ।बहुभाग्यवशाद यस्य कुण्डली जाग्रती भवेत् ॥१९॥आत्मना सहयोगेन नेत्ररन्ध्राद्विनिर्गता ।विहरेद राजमार्गे च चंचलत्वान्न द्दश्यते ॥२०॥शाम्भवीमुद्रया योगी ध्यानयोगेन सिध्यति ।सूक्ष्मध्यानमिदं गोप्यं देवानामपि दुर्लभम् ॥२१॥स्थूलध्यानाच्छतगुणं तेजोध्यानं प्रचक्षते ।तेजोध्यानाल्लक्षगुणं सूक्ष्मध्यानं परात्परम् ॥२२॥इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम् ।आत्मा साक्षाद भवेद यस्मात्तस्माद्धयानं विशिष्यते ॥२३॥अन्यदेव ततो रक्तपिंडाध्ह्रदयमुच्यते ।अयं ह्रदिति वृत्या तदात्मानो रूपमीरितम् ॥तस्य दक्षिणतो धाम ह्रत्पीठे नैव वामत: ।तस्मात्प्रवहति ज्योति: सहस्रारं सुषुम्नया ॥ह्रत्स्थले मन: स्वस्थता क्रिया ।भक्तियोगबोधाश्च निश्चितम् ॥ह्रदयींच स्नान ह्रदयीच ध्यान । ह्रदयींच भजन सर्व काळ ॥१॥ह्र्दयींच दान ह्रदयींच धर्म । ह्रदयींच नेम सर्व जोडें ॥२॥ह्रदयींच कथा पुराण श्रवण । ह्रदयींच चिंतन सर्व सदा ॥३॥ह्रदयींच दिसे एका जनार्दनीं । ह्रदयींच एकपणीं बिंबलासें ॥४॥ह्रदयींच देव ह्रदयींच भक्त । ह्रदयींच होत पूजा सर्व ॥१॥ह्र्दयींच ध्यान ह्र्दयीं जें मन । ह्रदयीं तें आसन देव वसे ॥२॥ह्रदयीं तें भुक्ति ह्रदयीं ते मुक्तिं । ह्रदयीं सर्व स्थिति देव जाणे ॥३॥एका जनार्दनीं ह्रदयींच पहाल । तें सुख घ्याल ह्रदयामाजीं ॥४॥ह्रदयस्थ जया नाहीं ठावा देव । पूजा करती वाव सर्व भावें ॥१॥जाणावा अंतरीं मानावा ह्रदयी । पहावा सर्वांतरीं परमात्मा ॥२॥एका जनार्दनीं व्यापक सर्वां ठायीं । भरूनी उरला ठाई जेथें तेथें ॥३॥कुंभकेन ह्रदि स्थाने ध्यायेच्च कमलासनम् ।बम्हाणं रक्तगौरांगं चतुर्वक्त्रं पितामहम् ॥ह्रत्पद्मेऽष्टदलोपेते कंदमध्यात्समुत्थिते ।द्वादशांगुलनालेऽ स्मिंश्चतुरंगलवन्मुखे ॥प्राणायामैर्विकसिते केसरान्वितकर्णिके ।वासुदेवं जगद्योनिं नारायणमजं विभुम् ॥चतुर्भुजमुदारांगं शंखचक्रगदाधरम् ।किरीटकेयूरधरं पद्मपत्रनिभेक्षणम् ॥श्रीवत्सवक्षसं श्रीशं पूर्णचंद्रनिभाननम् ।नीलोत्पलदलाभासं सुप्रसन्नं शुचिस्मितम् ॥शुद्धस्फटिकसंकाशं पीतवाससमच्युतम् ।पद्मस्थस्वपदद्वंद्वं परमात्मानमव्ययम् ॥प्रभाभिर्मासयद्रूपं परित: पुरुषोत्तमम् ।मनसालोक्य देवेशं सर्वभूतह्रदि स्थितम् ॥सोहमात्मेति विज्ञानं सगुणं ध्यानमुच्यते ।ह्रत्सरोरूहमध्येऽस्मिन् प्रकृत्या आत्मकर्णिके ॥अष्टैश्वर्यदलोपेते विकारमयकेसर ॥ज्ञानानले बृहत्कंदे प्राणायामप्रबोधिते ।विश्वार्चिषं महावहिनं ज्वलन्तं विश्वतोमुखम् ॥वैश्वानरं जगद्योनिं शिखानां बीजमीश्वरम् ।तापयंतें स्वकं देहमापादतलमस्तकम् ॥निर्वातदीपवत्तस्मिन् दीपितं हव्यवाहनम् ।द्दष्टवा तस्य शिखामध्ये परमात्मानमक्षरम् ॥नीलतोयदमध्यस्थविद्युल्लेखेवराजितं ।नीवारशूकवद्रूपं पीताभं सर्वकारणम् ॥ज्ञात्वा वैश्वानरं देवं सोहमात्मेति या मति: ।सगुणेषूत्तमं हयेतत् ध्यानं योगविदेरितं ॥अथवा मंडलं पश्येदादित्यस्य महात्मन: ।आत्मानं सर्वजगत: पुरुषं हेमरुपिणम् ॥हिरण्यश्मश्रुकेशं च हिरण्मयनखं हरिम् ।पद्मासनं चतुर्वक्त्रं सृष्टिस्थित्यंतकारणम् ॥ब्रम्हासनस्थितं सौम्यं प्रबुद्धं कमलासमन् ।भासयन्तं जगत्सर्वं द्दष्टवा लोकैकसाक्षिणम् ॥सोहमात्मेति बुद्धिर्या सा च ध्यानेषु शस्यते ।उन्न्द्रिह्रदयांभोजे सोममंडलमध्यमे ॥स्वात्मानं मंडलाकारं भोक्तृरूपिनमक्षरम् ।सुधारसं विमुंचद्धिश्शशिरश्मिभिरावृतम् ॥सहस्रच्छद्संयुक्ताच्छिर: पद्मादघोमुखात् ।निर्गतामृतधाराभि: सहस्राभि: समंतत: ॥प्लावितं पुरुषं तत्र चिंतयेत्तु समाहित: ।तेनामृतरसेनैव सांगोपांगकलेवरम् ॥अहमेव परब्रम्हा सच्चिदानंदलक्षणम् ।एवं ध्यानामृतं कुर्वन् षण्मासान्मृत्युजिद्भवेत ॥वत्सरान्मुक्त एवस्याज्जीवन्नपि न संशय: ॥अर्थात् -अन्यान्यपि बहुन्याहुर्ध्यानानिमुनिपुंगवा: ।मुख्यान्येतानि चैतभ्यो जघन्यानीतराणितु ॥असेंहि तेथेंच सांगून टाकिलें आहे.‘मुदगलपुराणां’ त म्हट्लें आहे -चतुर्धा मानसी पूजा ज्ञातव्या च सुरोत्तम । साधारा द्विविधा प्रोक्ता निराधारा तथा द्विधा ॥ह्रदि मूर्तिर्गणेशस्य ध्यात्वा तत्रोपचारकै: ।मानसै: पूजयेद्देवं साधारा सा मता बुधै: ॥ अन्या हयेकाग्रचित्तेन सर्वत्रैकात्मभावना ॥तयाऽऽयत्तेन भोगादि कृतं तत्पूजनं महत ॥तत्रैकात्मस्वरूपाश्चाऽऽधार: प्राप्तो जनेन वै ॥तेन साऽऽधार रूपा सा प्रोक्ता पूजा मनीषिभि: ॥निरोधश्चित्तवृत्यायं सर्वात्मवर्जितोजनै: ॥मनोवाणीमयं सर्वमुपचारेण चार्पितम् ॥तदेव पूजनं तेन कृतं प्रहलाद निश्चितम् ॥निराधारा मता पूजा गणेशस्त तदात्मन: ॥चित्तस्य पञ्चभूमीनां लयं कृत्वा समास्थित: ॥तत्र शान्तिस्वरूपं यद्योगाकारेण दृश्यते ॥ योगे विधिनिषेधादि सर्व तेनोपचारकम् ।समर्पितं गणेशाय तदेव पूजनं भवेत् ॥शान्तियोगे निराधारा पूजा प्रोक्ता च योगिभि: । एवं मानसजं दैत्य चतुर्द्वा पूजनं भवेत् ॥चतुष्कला समायुक्तो भ्राम्यते च ह्रदि स्थित: ।गोलकस्तु यदा देहे क्षीरदण्डेन वाहत: ॥एतस्मिन्वसते शीघ्रमविश्रान्त महाखग: ।यावन्निश्वसितो जीवस्तावन्निष्कलतां गत: ।नमस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात् ।अनाहतध्वनियुतं हंसं यो वेद ह्रद्नतम् ।स्वप्रकाशचिदानन्दं स हंस इति गीयते ।रेचकं पूरकं मुक्त्वा कुम्भकेन स्थित: सुधी: ।नाभिकन्दे समौ कृत्वा प्राणापानौ समाहित: ।मस्तकस्था मृतास्वादं पीत्वा ध्यानेन सादरम् ॥ (ब्रम्हाविद्योपनिषत् ।)ह्रत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ।अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रम्हायोनिम् ।तमादिमध्यान्तविहीनमेकं विमुं चिदानन्दमरूपमदभुतम् ।उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकाण्ठं प्रशान्तम् ।ध्यात्वामुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमस: परस्तात् ॥(कैवल्योपनिषत् ।) N/A References : N/A Last Updated : December 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP