संस्कृत सूची|शास्त्रः|योग शास्त्रः|श्रीगुरूदत्त योगः| सूर्यभेदन श्रीगुरूदत्त योगः सूर्यभेदन सूर्यभेदकुम्भक: उज्जायीकुम्भक: शीतलीकुम्भक: भस्त्रिकाकुम्भक: भ्रामरीकुम्भक: मूर्च्छाकुम्भक: केवलीकुम्म्भक: हठयोगप्रदीपिका: श्रीगुरूदत्त योगः -कुम्भकभेदाः सीत्कारी भस्त्रिका योगबंध महामुद्रा महाबंध महावेध खेचरी उडिडयानबंध मूलबंध जालंधरबंध विपरीतकरणी वज्रोलि शक्तिचालन मुद्रा यम नियम ध्यानयोग: सूक्ष्मध्यानम् ध्यानम् निर्गुणध्यानम् श्रीगुरूदत्त योगः - सूर्यभेदन श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले. Tags : dattagurudattayogगुरूदत्तदत्तयोगशास्त्र सूर्यभेदन Translation - भाषांतर सूर्यभेदन - स्वस्तिकासन किंवा वज्रासन करून उजव्या नाकपुडीनें पूरक करून यथाशक्ति कुंभक करावा व नंतर डाव्या नाकपुडीनें रेचक करावा. वायुदोष, कृमिरोग, जरा, इत्यादींचा नाश हया प्रकारानें होतो. अपमृत्यु टळतो व शरीरांत सूर्यासारखें तेज उत्पन्न होतें.घेरण्डसंहिता -मलाकुलासु नाडीषु मारुतो नैवगच्छति ।प्राणायाम: कथं सिध्येत्तत्त्वज्ञानं कथं भवेत् ॥तस्मादादौ नाडीशुद्धिं प्राणायामं ततोभ्यसेत् ।नाडीशुद्धिर्द्विधा प्रोक्ता समनुर्निर्मनुस्तथा ॥बीजेन समनुं कुर्यान्निर्मनुं धौतकर्मणा ।धौतकर्म पुरा प्रोक्तं षटकर्मसाधने यथा ॥शुणुष्व समनुं चण्ड नाडीशुद्धिर्यथा भवेत् ।उपविश्यासने योगी पद्मासनं समाचरेत् ॥गुर्वादिन्यासनं कुर्याद यथैव गुरुभाषितम् ।नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये ॥वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम् ।चन्द्रेण पूरयेद्वायुं बीजं षोडशकै: सुधी ॥चतु:षष्टया मात्रया च कुम्भकेनैव धारयेत् ।द्वात्रिंशन्मात्रया वायुं सूर्यनाडया च रेचयेत् ॥नाभिमूलाद्वहिनमुत्थाप्य ध्यायेत्तेजोऽवनीयुतम् ।वहिनबीजषोडशेन सूर्यनाडया च पूरयेत् ॥चतु:षष्टया मात्रया च कुम्भकेनैव धारयेत् ।द्वात्रिंशन्मात्रया वायुं शशिनाडया च रेचयेत् ॥नासाग्रे शशिधृग्बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम् ।ठं बीजषोडशेनैव इडया पूरयेन्मरुत् ॥टीप पुढें चालू -चतु:षष्टया मात्रया च वं बीजेनैव धारयेत् ।अमृतं प्लावितं ध्यात्वा नाडीधौतं विभावयेत् ।लकारेण द्वात्रिंशेन द्दढं भाव्यं विरेचेयत् ॥एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत् ।द्दढौ भूत्वासनं कृत्वा प्राणायामं समाचरेत् ॥सहित: सूर्यभेदश्च उज्जायी शीतली तथा ।भस्त्रिका भ्रामरीमूर्च्छा केवली चाष्टकुम्भिका: ॥सहितो द्विविध: प्रोक्त: सगर्भश्च निगर्भक: ।सगर्भी बीजमुच्चार्य निगर्भो बीजवर्जित: ॥प्राणायामं सगर्भं च प्रथमं कथयामि ते ।सुखासने चोपविश्य प्राङमुखो वाप्युदङमुख ॥ध्यायेद्विघिं रजोगुणं रक्तवर्णमवर्णकम् ।इडया पूरयेद्वायुं मात्रया षोडशै: सुधी: ॥पूरकान्ते कुम्भुकाद्ये कर्त्तव्यस्तुड्डीयानक: ॥सत्त्वमयं हरिं ध्यात्वा उकारं कृष्णवर्णकम् ॥चतु:षष्टया च मात्रया कुम्भकेनैव धारयेत् ।तमोमयं शिवं ध्यात्वा मकारं शुक्लवर्णकम् ॥द्वित्रिंशन्मात्रया चैव रेचयेद्विधिना पुन: ।पुन: पंगङलयापूर्य कुम्भकेनैव धारयेत् ॥इडया येचयेत पश्चात् तद्वीजेन क्रमेण तु ।अनुलोमविंलोमेन वारंवारं च साधयेत् ॥पूरकान्ते कुम्भकान्तं घृतनासापुटद्वयम् ।कनिष्ठानामिकाङ्ष्ठै: तर्जनीमध्यमे विना ॥प्राणायामो निगर्भस्तु विना बीनेन जायते ।वामजानूपरिन्यस्तवामपाणितलं भ्रमेत् ॥टीप पुढें चालूं -एकादिशतपर्यन्तं पूरकुम्भकरेचनम् ।उत्तमा विंशतिर्मात्रा षोडशी मात्रा मध्यमा ॥अधमा द्वादशी मात्रा प्राणायामास्त्रिधा स्मृता: ।अधमाज्जायते घर्मो मेरुकम्पश्च मध्यमात् ॥उत्तमाच्च भूमित्यागस्त्रिविधं सिद्धिलक्षणम् ।प्राणायामात् खेचरत्वं प्राणायामाद् रोगनाशनम् ॥प्राणायामादबोधयेच्छक्तिं प्राणायामान्मनोन्मनी ।आनन्दो याजते चित्ते प्राणायामी सुखी भवेत् ॥ N/A References : N/A Last Updated : December 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP