श्रीगुरूदत्त योगः - विपरीतकरणी

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


विपरीतकरणी -

उर्ध्वनाभेरधस्तालोरूर्ध्वं भानुरध: शशी ।
करणी विपरीताख्या गुरुवाक्येना लभ्यते ।
नित्यमभ्यासयुक्तस्य जठराग्निविवर्धिनी ।
आहारो बहुलस्तस्य संपाद्य साधकस्य च ॥
अल्पाहारो यदि भवेदग्निर्दहति तत्क्षणात् ।
अध: शिरश्चोर्ध्वपाद: क्षणं स्यात्प्रथमे दिने ॥
क्षणाच्च किंचिदधिंकमभ्यसेच्च दिने दिने ।
वलित पलितं चैव षण्मासोर्ध्वं न द्दश्यते ।
याममात्रं तु यो नित्यमभ्यसेत्स तु कालजित् ॥ (ह. प्र.)

नामिमूले वसेत् सूर्यस्तालमूले च चन्द्रमा ।
अमृतं ग्रसते सूर्यस्ततो मृत्युवशो नर: ॥
ऊर्ध्वं च योजयेत् सूर्यञ्चन्द्रञ्ज अध आनयेत् ।
विपरीतकरी मुद्रा सर्वतन्त्रेषु गोपिता ॥
भूमौ शिरश्च संस्थाप्य करयुग्मं समाहित: ।
ऊर्ध्वपाद: स्थिरोभूत्वा विपरीतकरी मता ॥
मुद्रां च साधयेन्नित्यं जरां मृत्युञ्च नाशयेत् ।
स सिद्ध: सर्वलोकेषु प्रलयेऽपि न सीदति ॥  घेरण्डसंहिता

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP