संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| द्वितीयाः पाद:| सूत्र ४२ द्वितीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४ सूत्र ४५ द्वितीयाः पाद: - सूत्र ४२ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४२ Translation - भाषांतर उत्पत्त्यसंभवात् ॥४२॥उत्पत्त्यसंभवात् ।येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणंमीश्चरोऽभिमतस्तेषां पक्ष: प्रत्याख्यात: ।येषां पुन: प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्चरोऽभिमतस्तेषां पक्ष: प्रत्याख्यायते ।ननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वर: प्राङ्गनिर्धारित: प्रकृतिश्चाधिष्ठाता चेति ।श्रुत्यनुसारिणी च स्मृति: प्रमाणमिति स्थिति: ।तत्कस्य हेतोरेष पक्ष: प्रत्याचिख्यासित इति ।उच्यते ।यद्यप्येवंजातीयकोंऽश: समानत्वान्न विसंवादगोचरो भवत्सस्ति त्वंशान्तरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारम्भ: ।तत्र भागवता मन्यन्ते ।भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूप: परमार्थतत्त्वं स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्य़ूहरूपेण संकर्षणव्यूहरूपेण प्रद्युन्नव्यऊहरूपेणानिरुद्धव्यूहरूपेण च ।वासुदेवो नाम परमात्मोच्यते ।संकर्षणो नाम जीव: ।प्रद्युन्नो नाम मन: ।अनिरुद्धो नामाहङ्कार: ।तेषां वासुदेव: परा प्रकृतिरितरे संकर्षणादय: कार्यम् ।तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्टवा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति ।तत्र यत्तावदुच्यते योऽसौ नारायण: परोऽव्यक्तात्प्रसिद्ध: प्रमात्मा सर्वात्मा स आत्मनाऽऽत्मानमनेकधा व्यूहयावस्थित इति तन्न निराक्रियते स एकधा भवति त्रिधा भवतीत्यादिश्रुतिभ्य: परमात्मनोऽनेकधा भाव स्याधिगतत्वात् ।यदपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाऽभिप्रेयते तदपि न प्रतिषिध्यते ।श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् ।यत्पुनरिदमुच्यते वासुदेवात्संकर्षण उत्पद्यते संकर्षणाच्च प्रद्युन्न: प्रद्युन्नाचानिरुद्ध इति ।अत्र ब्रूम: ।न वासुदेव्संज्ञकात्परमात्मन: संकर्षणसंज्ञकस्य जीवस्योत्पत्ति: संभवति ।अनित्यत्वादिदोषप्रसङ्गात् ।उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वादयो दोषा: प्रसज्येरन् । ततश्च नैवास्य भगवत्प्राप्तिर्मोक्ष: स्यात् ।कारणप्राप्तौ कार्यस्य प्रविलयप्रस ङ्गात् ।प्रतिषेधिष्यति चाचार्यो जीवस्योत्पत्तिम् । नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्य इति ।तस्मादसङ्गतैषा कल्पना ॥४२॥ N/A References : N/A Last Updated : December 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP