द्वितीयाः पाद: - सूत्र २
ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
प्रवृत्तेश्च ॥२॥
आस्तां तावदियं रचना ।
तत्सिद्धयर्था या प्रवृत्ति: साम्यावस्थानात्प्रच्युति: सत्त्व रजस्तमसामङ्गाङ्गिभावरूपापत्तिविशिष्टाकार्याभिमुखप्रवृत्तिता सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते मृदादिष्वदर्शनाद्रथादिषु च ।
न हि मृदादयो रथादयो वा स्वयमचेतना: सन्तश्चेतनै: कुलालादिभिरश्चादिभिर्वांनधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते ।
दृष्टाच्चादृष्टसिद्धि: ।
अत: प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति ।
ननु चेतनस्यापि प्रवृत्ति: केवलस्य न दृष्टा ।
सत्यमेतत् ।
तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टा । न त्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दष्टटा ।
किं पुनरत्र युक्तम् । यस्मिन्प्रवृत्तिर्दृष्टा तस्य सोत यत्संप्रयक्तस्य दृष्टा तस्य सेति ।
ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तमुभयो: प्रत्यक्षत्वात् ।
न तु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्ष: ।
प्रवृत्त्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धि: केवलाचेतनरथादिवैलक्षण्यं जीवद्देहस्य वृष्टमिति ।
अत एव च प्रत्यक्षे देहे सति चैतन्यदर्शनादर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लौकायतिका: प्रतिपन्ना: ।
तस्मादचेतनस्यैव प्रवृत्तिरिति । तदभिधीयते ।
न ब्रूमो यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति ।
भवतु तस्यैव सा । सा तु चेतनाद्भवतीत ब्रम: ।
तद्भावे भावात्तदभावे चाभावात् ।
यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशलक्षणा विकियाऽनुपलभ्यमानापि च केवले ज्वलने ज्वलनादेव भवति तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात्तद्वत ।
लौकायतिकानामपि चेतन एव देहोऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम् ।
ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वंइति चेत् । न ।
अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यपि प्रवर्तकत्वोपपत्त: ।
यथाऽयस्कान्तो मणि: स्वयं प्रवृत्तिरहितोऽप्ययस: प्रवर्तको भवति ।
यथा वा रूपादयो विषया: स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्ति ।
एवं प्रवृत्तिरहितोऽपीश्वर: सर्वगत: सर्वात्मा सर्वश: सर्वशक्तिश्च सन्सर्वं प्रवर्तयेदित्युपपन्नम् ।
एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् । न ।
अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात् ।
तस्मात्संभवति प्रवृत्ति: सर्वज्ञकारणत्वे न त्वचेतनकारणत्वे ॥२॥
N/A
References : N/A
Last Updated : December 06, 2014
TOP