द्वितीयाः पाद: - सूत्र १

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


रचनानुपपत्तेश्च नानुमानम् ॥१॥

रचनानुपपत्तेश्च नानुमानम् ।
यद्यपीदं वेदान्तवाक्यानामैदम्पर्यं निरूपयितुं शास्त्रं प्रवृत्तं न तर्कशास्त्रवत्केवलाभिर्युक्तितभि: कंचित्सिद्धान्तं साधयितुं दुषयितुं वा प्रवृत्तं तथापि वेदान्तवाक्यानि व्याचक्षाणै:  सम्यग्दर्शनप्रतिपक्षभूतानि साङख्यादिदर्शनानि निराक्रणीयानीति तदर्थ: पर: पाद: प्रवर्तते ।
वेदान्तार्थनिर्णयस्य च सम्यग्दर्शनार्थत्वात्तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतं तद्धयभ्यर्हितं परपक्षप्रत्याख्यानादिति ।
ननु मुकुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तं किं परपक्षनिराकरणेन परविद्वेषकरणेन ।
बाढमेवम् । तथापि महाजनपरिगृहीतानि महान्ति साङ्ख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत्केषांचिन्मन्दमतीनामेतान्यपि सम्यग्दर्शनायोपादेयानीत्यपेक्षा ।
तथा युक्तिगाढत्वसंभवेन सर्वज्ञभाषितत्वाञ्च श्रद्धा च तेषु ।
इत्यतस्तदसारतोपपदानाय प्रयत्यते ।
नन्वीक्षतेर्नाशब्दं कामाच्च नानुमानापेक्षा एतेन सर्वे व्याख्याता व्याख्याता इति च पूर्वत्रापि साङ्ख्यादिपक्शप्रतिक्षेप: कृत: किं पुन: कृतकरणेनेति ।
तदुच्यते । साङ्ख्यादय: स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहत्य स्वपक्षानुगुण्येनैव योजयन्तो व्याचक्षते तेषां यद्वयाख्यानं तद्वयाख्यानाभासं न सम्यगव्याख्यानमित्येतावत्पूर्व कृतम् ।
इह तु वाक्यनिरपेक्ष: स्वतन्त्रस्तद्युक्तिप्रतिषेण: क्रियत इत्येय विशेष: ।
तत्र साङ्ख्या मन्यन्ते यथा घटशरा वादयो भेदा मुदात्मनाऽन्वीयमाना मृदात्मकसामान्यपूर्वका लोके दुष्टास्तथा सर्व ब बाहयाध्यात्मिका भेदा: सुखदु:खमोहात्मतयाऽन्वीयमाना: सुखदु:खमोहात्मकसामान्यपूर्वका भवितुमर्हन्ति ।
यत्तत्सुखदु:खमोहात्मकं सामान्यं तस्त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषस्यार्थं साधयितुं स्वभावेनैव विचित्रेण विकारात्मना विवर्तत इति ।
तथा परिमाणादिभिरपि लिङैस्तदेव प्रधानमनुमिमते ।
तत्र वदाम: । यदि दृष्टान्तबलेनैवैतन्निरूप्येत नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रं किचिद्विशिष्टपुरुषार्थनिर्वर्तनसमर्थान्विकारान्विरचयदद्दष्टम् ।
गेहप्रासादशयनासनविहारभूम्यादयो हि लोके प्रज्ञावद्भि: शिल्पिभिर्यथाकालं सुखदु:खप्राप्तिपरिहारयोग्या रचिता द्दश्यन्ते ।
तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं बाम्हामाध्यात्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलान्रुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भि: संभाविततमै: शिस्यिभि र्मनसाप्यालोचयितुमशक्यं सत्कथमचेतनं प्रधानं रचयेत् ।
लोष्टपाषाणारिष्वदष्टत्वात् । मृद्दाद्दिष्वपि कुम्भकाराद्यधिष्ठितेषु विशिष्टाकारा रचना दृश्यते तद्वत्प्रधानस्यापि चेतनान्तराधिष्ठितत्वप्रसङग: ।
न च मृदाद्युपादानस्वरूपव्यपास्रयेणैव धर्मेण मूलकारणमवबारणीयं न बाम्हाकुम्भकारादिव्यपाश्रयेणेति किंचिन्नियामकमस्ति ।
न चैवं सति किञ्चिद्विरुध्यते प्रत्युत श्रुतिरनुगृहयते चेतनकारणसमर्पणात् ।
अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति ।
अन्वयाद्यनुपपत्तेश्चेति चशब्देन हेतोरसिद्बिं समुच्चिनोति ।
न हि बाहयाध्यात्मिकानां भेदानां सुखदु:खमोहात्मकतयाऽन्वय उपपद्यते सुखादीनां चान्तरत्वप्रतीते: शब्दादीनां चातद्रूपत्वप्रतीतेस्तन्निमित्तत्वप्रतीतेश्च ।
शब्दाद्यविशेषेऽपि च भावनाविशेषात्सुखादिविशेषोपलब्धे: ।
तथा परिमितानां भेदानां मूलाङकुरादीनां संसर्गपूर्वकत्वं दृष्टवा बाहयाध्यात्मिकानां भेद्दानां परिमितत्वात्संसर्गपूर्वकत्वमनुमिमानस्य सत्त्वरजस्तमसामपि संसर्ग पूर्वकत्मप्रसङ्ग: परिमितत्वाविशेषात् ।
कार्यकारणभावस्तु प्रेक्षापूर्वकनिर्मितानां शय नासनादीनां दृष्ट इति न कार्यकारणभावादबाहयाध्यात्मिकानां भेआनामचेतनपूर्वकत्वं कक्यं कल्पयितम् ॥१॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP