संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| द्वितीयाः पाद:| सूत्र १० द्वितीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४ सूत्र ४५ द्वितीयाः पाद: - सूत्र १० ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १० Translation - भाषांतर विप्रतिषेधाच्चासमञ्जसम् ॥१०॥विप्रतिषेधाच्चासमञ्जसम् ।परस्परविरुद्धश्चायं सांख्यानामभ्युपगम: ।क्वचित्सप्तेन्द्रियाण्यनुक्रामन्ति क्वचिदेकादश । तथा क्वचिन्महतस्तन्मात्रसर्गमुपदिशन्ति क्वचिदहङ्कारात् ।तथा क्वचित्रीण्यन्त: करणानि वर्णयन्ति क्वचिदेकमिति ।प्रसिद्ध एव तु शुत्येश्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या ।तस्मादप्यसमञ्जसं सांक्यानां दर्शनमिति । अत्राह ।नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनं तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात् ।एकं हि ब्रम्हा सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छतामेकस्यैवात्मनो विशेषौ तप्यतापकौ न जात्यन्तरभूतावित्यभ्युपगन्तव्यै स्यात् ।यदि चैतौ तप्यतापकावेकस्यात्मनो विशेषौ स्यातां स ताभ्यां तप्यतापकाभ्यां न निर्मुच्यत इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात् ।न हयौष्ण्यप्रकाशधर्मकस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते ।योऽपि जलतरङ्गवीचीफेनाद्युपन्यासस्तत्रापि जलात्मन एकस्य वीच्यादयो विशेषा आविर्भावतिरोभावरूपेण नित्या एवेति समानो जलात्मनो वीच्यादिभिरनिर्मोक्ष: । प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके । तथा हयर्थी चार्थश्चान्योन्यभिन्नौ लक्ष्येते ।यद्यर्थिन: स्वतोऽन्योऽर्थो न स्याद्यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं स्यात् ।यथा प्रकाशात्मन: प्रदीपस्य प्रकाशाख्योऽर्थों नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं भवति ।अप्राप्ते हयर्थेऽर्थिनोऽर्थित्वं स्यादिति ।तथाऽर्थस्याप्यर्थत्वम न स्यात् ।यदि स्यात्स्वार्थत्वमेव स्यात् ।न चैतदस्ति । संबन्धिशब्दौ हयेतावर्थी चार्थश्चेति ।द्वयोश्च संबन्धिनो: संबन्ध: स्यान्नैकस्यैव ।तस्माद्भिन्नावेतावर्थार्थिनौ । तथाऽनर्थानर्थिनावपि ।अर्थिनोऽनुकूलोऽर्थ: प्रतिकूलोऽनर्थस्ताभ्यामेक: पर्याणोभाभ्यां संबध्येत ।तत्रार्थस्याल्पीयस्त्वाद्भूयस्त्वाच्चानर्थस्योभावप्यर्थानर्थावनर्थ एवेति तापक: स उच्यते ।तप्यस्तु पुरुषो य एक: पर्यायेणो भाभ्यां संबध्यत इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्ति: ।जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति ।अत्रोच्यते । न । एकत्वादेव तप्यतापकभावानुपपत्ते: ।भवेदेष दोषो यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम् ।न त्वेतदस्त्येकत्वादेव ।न हयग्निरेक: सन्स्वमात्मानं दहति प्रकाशति वा सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च ।किं कूटस्थे ब्रम्हाण्येकस्मिंस्तप्यतापकभाव: संभवेत् ।क्व पुनरयं तप्यतापकभाव: स्यादिति ।उच्यते । किं न पश्यसि कर्मभूतो जीवद्देहस्तप्यस्तापक: सवितेति । ननु तप्तिर्नाम दु:खं सा चेतयितुर्नाचेतनस्य देहस्य ।यदि हि देहस्यैव तप्ति स्यात्सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति ।उच्यते । देहाभावेऽपि केवलस्य चेतनस्य तप्तिर्न दृष्टा ।न च त्वयापि तप्तिर्नाम विक्रिया चेतयितु: केवलस्येष्यते ।नापि देहचेतनयो: संहतत्वमशुब्दयादिदोषप्रसङगात् ।न च तप्तेरेव तप्तिमभ्युपगच्छसि ।कथं तवापि तप्यतापकभाव: ।सत्त्वं तप्यं तापकं रज इति चेत् । न ।ताभ्यां चेतनस्य संहतत्वानुपपत्ते: ।सत्त्वानुरोधित्वाच्चेतनोऽपि तप्यत इवेति चेत्परमार्थतस्तर्हि नैव तप्यत इत्यापततीवशब्दप्रयोगात् ।न चेत्तप्यते नेवशद्बो दोषाय । न हि डुण्डुभ: सर्प इवेत्येतावता सविषो भवति ।सर्पो वा डुण्डुभ इवेत्येतावता निर्विषो भवति ।अतश्चाविद्याकृतोऽयं तप्यतपकभावो न पारमार्थिक इत्यभ्युपगन्तव्यमिति ।नैवं सति ममापि किंचिद्दुष्यति । अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि तवैवसुतरामनिर्मोंक्ष: प्रसज्येत नित्यत्वाभ्युपगमाच्च तापकस्य ।तप्यतापकशक्त्योर्नित्यत्वेऽपि सनिमित्तसंयोगापेक्षत्वात्तप्ते: संयोगनिमित्तादर्शननिवृत्तावात्यन्तिक: संयोगोपरमस्ततश्चात्यन्तिको मोक्ष उपपन्न इति चेत् । न ।अदर्शनस्य तमसो नित्यत्वाभ्युपगमात् ।गुणानां चोद्भवाभिभवयोरनियतत्वादनियत: संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्साङ्ख्यस्यैवानिर्मोक्षोऽपरिहार्य: स्यात् ।औपनिषदस्य त्वात्मैकत्वाभ्युपगमादेकस्य च विषयविषयिभावानुपपत्तोर्विकारभेदस्य च वाचारम्भणमात्रत्वशअवणादनिर्मोक्षशङ्का स्वप्नेऽपि नोपजायते ।व्यवहारे तु यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव स इति न चोदयितव्य: परिहर्तव्यो वा भवति ॥१०॥ N/A References : N/A Last Updated : December 06, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP